५. उद्योगपर्व
५.१७.१शल्य उवाच

५.१७.२अथ संचिन्तयानस्य देवराजस्य धीमतः
नहुषस्य वधोपायं लोकपालैः सहैव तैः
तपस्वी तत्र भगवानगस्त्यः प्रत्यदृश्यत

५.१७.३सोऽब्रवीदर्च्य देवेन्द्रं दिष्ट्या वै वर्धते भवान्
विश्वरूपविनाशेन वृत्रासुरवधेन च

५.१७.४दिष्ट्या च नहुषो भ्रष्टो देवराज्यात्पुरंदर
दिष्ट्या हतारिं पश्यामि भवन्तं बलसूदन

५.१७.५इन्द्र उवाच

५.१७.६स्वागतं ते महर्षेऽस्तु प्रीतोऽहं दर्शनात्तव
पाद्यमाचमनीयं च गामर्घ्यं च प्रतीच्छ मे

५.१७.७शल्य उवाच

५.१७.८पूजितं चोपविष्टं तमासने मुनिसत्तमम्
पर्यपृच्छत देवेशः प्रहृष्टो ब्राह्मणर्षभम्

५.१७.९एतदिच्छामि भगवन्कथ्यमानं द्विजोत्तम
परिभ्रष्टः कथं स्वर्गान्नहुषः पापनिश्चयः

५.१७.१०अगस्त्य उवाच

५.१७.११शृणु शक्र प्रियं वाक्यं यथा राजा दुरात्मवान्
स्वर्गाद्भ्रष्टो दुराचारो नहुषो बलदर्पितः

५.१७.१२श्रमार्तास्तु वहन्तस्तं नहुषं पापकारिणम्
देवर्षयो महाभागास्तथा ब्रह्मर्षयोऽमलाः
पप्रच्छुः संशयं देव नहुषं जयतां वर

५.१७.१३य इमे ब्रह्मणा प्रोक्ता मन्त्रा वै प्रोक्षणे गवाम्
एते प्रमाणं भवत उताहो नेति वासव
नहुषो नेति तानाह तमसा मूढचेतनः

५.१७.१४ऋषय ऊचुः

५.१७.१५अधर्मे संप्रवृत्तस्त्वं धर्मं न प्रतिपद्यसे
प्रमाणमेतदस्माकं पूर्वं प्रोक्तं महर्षिभिः

५.१७.१६अगस्त्य उवाच

५.१७.१७ततो विवदमानः स मुनिभिः सह वासव
अथ मामस्पृशन्मूर्ध्नि पादेनाधर्मपीडितः

५.१७.१८तेनाभूद्धततेजाः स निःश्रीकश्च शचीपते
ततस्तमहमाविग्नमवोचं भयपीडितम्

५.१७.१९यस्मात्पूर्वैः कृतं ब्रह्म ब्रह्मर्षिभिरनुष्ठितम्
अदुष्टं दूषयसि वै यच्च मूर्ध्न्यस्पृशः पदा

५.१७.२०यच्चापि त्वमृषीन्मूढ ब्रह्मकल्पान्दुरासदान्
वाहान्कृत्वा वाहयसि तेन स्वर्गाद्धतप्रभः

५.१७.२१ध्वंस पाप परिभ्रष्टः क्षीणपुण्यो महीतलम्
दश वर्षसहस्राणि सर्परूपधरो महान्
विचरिष्यसि पूर्णेषु पुनः स्वर्गमवाप्स्यसि

५.१७.२२एवं भ्रष्टो दुरात्मा स देवराज्यादरिंदम
दिष्ट्या वर्धामहे शक्र हतो ब्राह्मणकण्टकः

५.१७.२३त्रिविष्टपं प्रपद्यस्व पाहि लोकाञ्शचीपते
जितेन्द्रियो जितामित्रः स्तूयमानो महर्षिभिः

५.१७.२४शल्य उवाच

५.१७.२५ततो देवा भृशं तुष्टा महर्षिगणसंवृताः
पितरश्चैव यक्षाश्च भुजगा राक्षसास्तथा

५.१७.२६गन्धर्वा देवकन्याश्च सर्वे चाप्सरसां गणाः
सरांसि सरितः शैलाः सागराश्च विशां पते

५.१७.२७उपगम्याब्रुवन्सर्वे दिष्ट्या वर्धसि शत्रुहन्
हतश्च नहुषः पापो दिष्ट्यागस्त्येन धीमता
दिष्ट्या पापसमाचारः कृतः सर्पो महीतले