५. उद्योगपर्व
५.१६१.१संजय उवाच

५.१६१.२उलूकस्य वचः श्रुत्वा कुन्तीपुत्रो युधिष्ठिरः
सेनां निर्यापयामास धृष्टद्युम्नपुरोगमाम्

५.१६१.३पदातिनीं नागवतीं रथिनीमश्ववृन्दिनीम्
चतुर्विधबलां भीमामकम्प्यां पृथिवीमिव

५.१६१.४भीमसेनादिभिर्गुप्तां सार्जुनैश्च महारथैः
धृष्टद्युम्नवशां दुर्गां सागरस्तिमितोपमाम्

५.१६१.५तस्यास्त्वग्रे महेष्वासः पाञ्चाल्यो युद्धदुर्मदः
द्रोणप्रेप्सुरनीकानि धृष्टद्युम्नः प्रकर्षति

५.१६१.६यथाबलं यथोत्साहं रथिनः समुपादिशत्
अर्जुनं सूतपुत्राय भीमं दुर्योधनाय च

५.१६१.७अश्वत्थाम्ने च नकुलं शैब्यं च कृतवर्मणे
सैन्धवाय च वार्ष्णेयं युयुधानमुपादिशत्

५.१६१.८शिखण्डिनं च भीष्माय प्रमुखे समकल्पयत्
सहदेवं शकुनये चेकितानं शलाय च

५.१६१.९धृष्टकेतुं च शल्याय गौतमायोत्तमौजसम्
द्रौपदेयांश्च पञ्चभ्यस्त्रिगर्तेभ्यः समादिशत्

५.१६१.१०वृषसेनाय सौभद्रं शेषाणां च महीक्षिताम्
समर्थं तं हि मेने वै पार्थादभ्यधिकं रणे

५.१६१.११एवं विभज्य योधांस्तान्पृथक्च सह चैव ह
ज्वालावर्णो महेष्वासो द्रोणमंशमकल्पयत्

५.१६१.१२धृष्टद्युम्नो महेष्वासः सेनापतिपतिस्ततः
विधिवद्व्यूह्य मेधावी युद्धाय धृतमानसः

५.१६१.१३यथादिष्टान्यनीकानि पाण्डवानामयोजयत्
जयाय पाण्डुपुत्राणां यत्तस्तस्थौ रणाजिरे