५. उद्योगपर्व
५.१६२.१धृतराष्ट्र उवाच

५.१६२.२प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय
किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः

५.१६२.३हतमेव हि पश्यामि गाङ्गेयं पितरं रणे
वासुदेवसहायेन पार्थेन दृढधन्वना

५.१६२.४स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम्
किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः

५.१६२.५सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः
किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः

५.१६२.६वैशंपायन उवाच

५.१६२.७ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत्
यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा

५.१६२.८संजय उवाच

५.१६२.९सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप
दुर्योधनमुवाचेदं वचनं हर्षयन्निव

५.१६२.१०नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये
अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः

५.१६२.११सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च
कर्म कारयितुं चैव भृतानप्यभृतांस्तथा

५.१६२.१२यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च
भृशं वेद महाराज यथा वेद बृहस्पतिः

५.१६२.१३व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान्
तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः

५.१६२.१४सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम्
यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः

५.१६२.१५दुर्योधन उवाच

५.१६२.१६न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि
समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते

५.१६२.१७किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते
द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि

५.१६२.१८भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम
न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम्

५.१६२.१९रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा
तथैवातिरथानां च वेत्तुमिच्छामि कौरव

५.१६२.२०पितामहो हि कुशलः परेषामात्मनस्तथा
श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः

५.१६२.२१भीष्म उवाच

५.१६२.२२गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले
ये रथाः पृथिवीपाल तथैवातिरथाश्च ये

५.१६२.२३बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च
रथानां तव सेनायां यथामुख्यं तु मे शृणु

५.१६२.२४भवानग्रे रथोदारः सह सर्वैः सहोदरैः
दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः

५.१६२.२५सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः
रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि

५.१६२.२६संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः
इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः

५.१६२.२७एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान्
कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः

५.१६२.२८ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव
शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान्
न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते

५.१६२.२९कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः
अर्थसिद्धिं तव रणे करिष्यति न संशयः

५.१६२.३०अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः
हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव

५.१६२.३१मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः
स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे

५.१६२.३२भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः
एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम्

५.१६२.३३सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान्
भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत्

५.१६२.३४सौमदत्तिर्महेष्वासो रथयूथपयूथपः
बलक्षयममित्राणां सुमहान्तं करिष्यति

५.१६२.३५सिन्धुराजो महाराज मतो मे द्विगुणो रथः
योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः

५.१६२.३६द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः
संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा

५.१६२.३७एतेन हि तदा राजंस्तप आस्थाय दारुणम्
सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे

५.१६२.३८स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे
योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान्