५.१६३.१भीष्म उवाच
५.१६३.२सुदक्षिणस्तु काम्बोजो रथ एकगुणो मतः
तवार्थसिद्धिमाकाङ्क्षन्योत्स्यते समरे परैः
५.१६३.३एतस्य रथसिंहस्य तवार्थे राजसत्तम
पराक्रमं यथेन्द्रस्य द्रक्ष्यन्ति कुरवो युधि
५.१६३.४एतस्य रथवंशो हि तिग्मवेगप्रहारिणाम्
काम्बोजानां महाराज शलभानामिवायतिः
५.१६३.५नीलो माहिष्मतीवासी नीलवर्मधरस्तव
रथवंशेन शत्रूणां कदनं वै करिष्यति
५.१६३.६कृतवैरः पुरा चैव सहदेवेन पार्थिवः
योत्स्यते सततं राजंस्तवार्थे कुरुसत्तम
५.१६३.७विन्दानुविन्दावावन्त्यौ समेतौ रथसत्तमौ
कृतिनौ समरे तात दृढवीर्यपराक्रमौ
५.१६३.८एतौ तौ पुरुषव्याघ्रौ रिपुसैन्यं प्रधक्ष्यतः
गदाप्रासासिनाराचैस्तोमरैश्च भुजच्युतैः
५.१६३.९युद्धाभिकामौ समरे क्रीडन्ताविव यूथपौ
यूथमध्ये महाराज विचरन्तौ कृतान्तवत्
५.१६३.१०त्रिगर्ता भ्रातरः पञ्च रथोदारा मता मम
कृतवैराश्च पार्थेन विराटनगरे तदा
५.१६३.११मकरा इव राजेन्द्र समुद्धततरङ्गिणीम्
गङ्गां विक्षोभयिष्यन्ति पार्थानां युधि वाहिनीम्
५.१६३.१२ते रथाः पञ्च राजेन्द्र येषां सत्यरथो मुखम्
एते योत्स्यन्ति समरे संस्मरन्तः पुरा कृतम्
५.१६३.१३व्यलीकं पाण्डवेयेन भीमसेनानुजेन ह
दिशो विजयता राजञ्श्वेतवाहेन भारत
५.१६३.१४ते हनिष्यन्ति पार्थानां समासाद्य महारथान्
वरान्वरान्महेष्वासान्क्षत्रियाणां धुरंधराः
५.१६३.१५लक्ष्मणस्तव पुत्रस्तु तथा दुःशासनस्य च
उभौ तौ पुरुषव्याघ्रौ संग्रामेष्वनिवर्तिनौ
५.१६३.१६तरुणौ सुकुमारौ च राजपुत्रौ तरस्विनौ
युद्धानां च विशेषज्ञौ प्रणेतारौ च सर्वशः
५.१६३.१७रथौ तौ रथशार्दूल मतौ मे रथसत्तमौ
क्षत्रधर्मरतौ वीरौ महत्कर्म करिष्यतः
५.१६३.१८दण्डधारो महाराज रथ एको नरर्षभः
योत्स्यते समरं प्राप्य स्वेन सैन्येन पालितः
५.१६३.१९बृहद्बलस्तथा राजा कौसल्यो रथसत्तमः
रथो मम मतस्तात दृढवेगपराक्रमः
५.१६३.२०एष योत्स्यति संग्रामे स्वां चमूं संप्रहर्षयन्
उग्रायुधो महेष्वासो धार्तराष्ट्रहिते रतः
५.१६३.२१कृपः शारद्वतो राजन्रथयूथपयूथपः
प्रियान्प्राणान्परित्यज्य प्रधक्ष्यति रिपूंस्तव
५.१६३.२२गौतमस्य महर्षेर्य आचार्यस्य शरद्वतः
कार्त्तिकेय इवाजेयः शरस्तम्बात्सुतोऽभवत्
५.१६३.२३एष सेनां बहुविधां विविधायुधकार्मुकाम्
अग्निवत्समरे तात चरिष्यति विमर्दयन्