५. उद्योगपर्व
५.१९३.१भीष्म उवाच

५.१९३.२शिखण्डिवाक्यं श्रुत्वाथ स यक्षो भरतर्षभ
प्रोवाच मनसा चिन्त्य दैवेनोपनिपीडितः
भवितव्यं तथा तद्धि मम दुःखाय कौरव

५.१९३.३भद्रे कामं करिष्यामि समयं तु निबोध मे
किंचित्कालान्तरं दास्ये पुंलिङ्गं स्वमिदं तव
आगन्तव्यं त्वया काले सत्यमेतद्ब्रवीमि ते

५.१९३.४प्रभुः संकल्पसिद्धोऽस्मि कामरूपी विहंगमः
मत्प्रसादात्पुरं चैव त्राहि बन्धूंश्च केवलान्

५.१९३.५स्त्रीलिङ्गं धारयिष्यामि त्वदीयं पार्थिवात्मजे
सत्यं मे प्रतिजानीहि करिष्यामि प्रियं तव

५.१९३.६शिखण्ड्युवाच

५.१९३.७प्रतिदास्यामि भगवँल्लिङ्गं पुनरिदं तव
किंचित्कालान्तरं स्त्रीत्वं धारयस्व निशाचर

५.१९३.८प्रतिप्रयाते दाशार्णे पार्थिवे हेमवर्मणि
कन्यैवाहं भविष्यामि पुरुषस्त्वं भविष्यसि

५.१९३.९भीष्म उवाच

५.१९३.१०इत्युक्त्वा समयं तत्र चक्राते तावुभौ नृप
अन्योन्यस्यानभिद्रोहे तौ संक्रामयतां ततः

५.१९३.११स्त्रीलिङ्गं धारयामास स्थूणो यक्षो नराधिप
यक्षरूपं च तद्दीप्तं शिखण्डी प्रत्यपद्यत

५.१९३.१२ततः शिखण्डी पाञ्चाल्यः पुंस्त्वमासाद्य पार्थिव
विवेश नगरं हृष्टः पितरं च समासदत्
यथावृत्तं तु तत्सर्वमाचख्यौ द्रुपदस्य च

५.१९३.१३द्रुपदस्तस्य तच्छ्रुत्वा हर्षमाहारयत्परम्
सभार्यस्तच्च सस्मार महेश्वरवचस्तदा

५.१९३.१४ततः संप्रेषयामास दशार्णाधिपतेर्नृप
पुरुषोऽयं मम सुतः श्रद्धत्तां मे भवानिति

५.१९३.१५अथ दाशार्णको राजा सहसाभ्यागमत्तदा
पाञ्चालराजं द्रुपदं दुःखामर्षसमन्वितः

५.१९३.१६ततः काम्पिल्यमासाद्य दशार्णाधिपतिस्तदा
प्रेषयामास सत्कृत्य दूतं ब्रह्मविदां वरम्

५.१९३.१७ब्रूहि मद्वचनाद्दूत पाञ्चाल्यं तं नृपाधमम्
यद्वै कन्यां स्वकन्यार्थे वृतवानसि दुर्मते
फलं तस्यावलेपस्य द्रक्ष्यस्यद्य न संशयः

५.१९३.१८एवमुक्तस्तु तेनासौ ब्राह्मणो राजसत्तम
दूतः प्रयातो नगरं दाशार्णनृपचोदितः

५.१९३.१९तत आसादयामास पुरोधा द्रुपदं पुरे
तस्मै पाञ्चालको राजा गामर्घ्यं च सुसत्कृतम्
प्रापयामास राजेन्द्र सह तेन शिखण्डिना

५.१९३.२०तां पूजां नाभ्यनन्दत्स वाक्यं चेदमुवाच ह
यदुक्तं तेन वीरेण राज्ञा काञ्चनवर्मणा

५.१९३.२१यत्तेऽहमधमाचार दुहित्रर्थेऽस्मि वञ्चितः
तस्य पापस्य करणात्फलं प्राप्नुहि दुर्मते

५.१९३.२२देहि युद्धं नरपते ममाद्य रणमूर्धनि
उद्धरिष्यामि ते सद्यः सामात्यसुतबान्धवम्

५.१९३.२३तदुपालम्भसंयुक्तं श्रावितः किल पार्थिवः
दशार्णपतिदूतेन मन्त्रिमध्ये पुरोधसा

५.१९३.२४अब्रवीद्भरतश्रेष्ठ द्रुपदः प्रणयानतः
यदाह मां भवान्ब्रह्मन्संबन्धिवचनाद्वचः
तस्योत्तरं प्रतिवचो दूत एव वदिष्यति

५.१९३.२५ततः संप्रेषयामास द्रुपदोऽपि महात्मने
हिरण्यवर्मणे दूतं ब्राह्मणं वेदपारगम्

५.१९३.२६समागम्य तु राज्ञा स दशार्णपतिना तदा
तद्वाक्यमाददे राजन्यदुक्तं द्रुपदेन ह

५.१९३.२७आगमः क्रियतां व्यक्तं कुमारो वै सुतो मम
मिथ्यैतदुक्तं केनापि तन्न श्रद्धेयमित्युत

५.१९३.२८ततः स राजा द्रुपदस्य श्रुत्वा; विमर्शयुक्तो युवतीर्वरिष्ठाः
संप्रेषयामास सुचारुरूपाः; शिखण्डिनं स्त्री पुमान्वेति वेत्तुम्

५.१९३.२९ताः प्रेषितास्तत्त्वभावं विदित्वा; प्रीत्या राज्ञे तच्छशंसुर्हि सर्वम्
शिखण्डिनं पुरुषं कौरवेन्द्र; दशार्णराजाय महानुभावम्

५.१९३.३०ततः कृत्वा तु राजा स आगमं प्रीतिमानथ
संबन्धिना समागम्य हृष्टो वासमुवास ह

५.१९३.३१शिखण्डिने च मुदितः प्रादाद्वित्तं जनेश्वरः
हस्तिनोऽश्वांश्च गाश्चैव दास्यो बहुशतास्तथा
पूजितश्च प्रतिययौ निवर्त्य तनयां किल

५.१९३.३२विनीतकिल्बिषे प्रीते हेमवर्मणि पार्थिवे
प्रतियाते तु दाशार्णे हृष्टरूपा शिखण्डिनी

५.१९३.३३कस्यचित्त्वथ कालस्य कुबेरो नरवाहनः
लोकानुयात्रां कुर्वाणः स्थूणस्यागान्निवेशनम्

५.१९३.३४स तद्गृहस्योपरि वर्तमान; आलोकयामास धनाधिगोप्ता
स्थूणस्य यक्षस्य निशाम्य वेश्म; स्वलंकृतं माल्यगुणैर्विचित्रम्

५.१९३.३५लाजैश्च गन्धैश्च तथा वितानै;रभ्यर्चितं धूपनधूपितं च
ध्वजैः पताकाभिरलंकृतं च; भक्ष्यान्नपेयामिषदत्तहोमम्

५.१९३.३६तत्स्थानं तस्य दृष्ट्वा तु सर्वतः समलंकृतम्
अथाब्रवीद्यक्षपतिस्तान्यक्षाननुगांस्तदा

५.१९३.३७स्वलंकृतमिदं वेश्म स्थूणस्यामितविक्रमाः
नोपसर्पति मां चापि कस्मादद्य सुमन्दधीः

५.१९३.३८यस्माज्जानन्सुमन्दात्मा मामसौ नोपसर्पति
तस्मात्तस्मै महादण्डो धार्यः स्यादिति मे मतिः

५.१९३.३९यक्षा ऊचुः

५.१९३.४०द्रुपदस्य सुता राजन्राज्ञो जाता शिखण्डिनी
तस्यै निमित्ते कस्मिंश्चित्प्रादात्पुरुषलक्षणम्

५.१९३.४१अग्रहील्लक्षणं स्त्रीणां स्त्रीभूतस्तिष्ठते गृहे
नोपसर्पति तेनासौ सव्रीडः स्त्रीस्वरूपवान्

५.१९३.४२एतस्मात्कारणाद्राजन्स्थूणो न त्वाद्य पश्यति
श्रुत्वा कुरु यथान्यायं विमानमिह तिष्ठताम्

५.१९३.४३भीष्म उवाच

५.१९३.४४आनीयतां स्थूण इति ततो यक्षाधिपोऽब्रवीत्
कर्तास्मि निग्रहं तस्येत्युवाच स पुनः पुनः

५.१९३.४५सोऽभ्यगच्छत यक्षेन्द्रमाहूतः पृथिवीपते
स्त्रीस्वरूपो महाराज तस्थौ व्रीडासमन्वितः

५.१९३.४६तं शशाप सुसंक्रुद्धो धनदः कुरुनन्दन
एवमेव भवत्वस्य स्त्रीत्वं पापस्य गुह्यकाः

५.१९३.४७ततोऽब्रवीद्यक्षपतिर्महात्मा; यस्माददास्त्ववमन्येह यक्षान्
शिखण्डिने लक्षणं पापबुद्धे; स्त्रीलक्षणं चाग्रहीः पापकर्मन्

५.१९३.४८अप्रवृत्तं सुदुर्बुद्धे यस्मादेतत्कृतं त्वया
तस्मादद्य प्रभृत्येव त्वं स्त्री स पुरुषस्तथा

५.१९३.४९ततः प्रसादयामासुर्यक्षा वैश्रवणं किल
स्थूणस्यार्थे कुरुष्वान्तं शापस्येति पुनः पुनः

५.१९३.५०ततो महात्मा यक्षेन्द्रः प्रत्युवाचानुगामिनः
सर्वान्यक्षगणांस्तात शापस्यान्तचिकीर्षया

५.१९३.५१हते शिखण्डिनि रणे स्वरूपं प्रतिपत्स्यते
स्थूणो यक्षो निरुद्वेगो भवत्विति महामनाः

५.१९३.५२इत्युक्त्वा भगवान्देवो यक्षराक्षसपूजितः
प्रययौ सह तैः सर्वैर्निमेषान्तरचारिभिः

५.१९३.५३स्थूणस्तु शापं संप्राप्य तत्रैव न्यवसत्तदा
समये चागमत्तं वै शिखण्डी स क्षपाचरम्

५.१९३.५४सोऽभिगम्याब्रवीद्वाक्यं प्राप्तोऽस्मि भगवन्निति
तमब्रवीत्ततः स्थूणः प्रीतोऽस्मीति पुनः पुनः

५.१९३.५५आर्जवेनागतं दृष्ट्वा राजपुत्रं शिखण्डिनम्
सर्वमेव यथावृत्तमाचचक्षे शिखण्डिने

५.१९३.५६यक्ष उवाच

५.१९३.५७शप्तो वैश्रवणेनास्मि त्वत्कृते पार्थिवात्मज
गच्छेदानीं यथाकामं चर लोकान्यथासुखम्

५.१९३.५८दिष्टमेतत्पुरा मन्ये न शक्यमतिवर्तितुम्
गमनं तव चेतो हि पौलस्त्यस्य च दर्शनम्

५.१९३.५९भीष्म उवाच

५.१९३.६०एवमुक्तः शिखण्डी तु स्थूणयक्षेण भारत
प्रत्याजगाम नगरं हर्षेण महतान्वितः

५.१९३.६१पूजयामास विविधैर्गन्धमाल्यैर्महाधनैः
द्विजातीन्देवताश्चापि चैत्यानथ चतुष्पथान्

५.१९३.६२द्रुपदः सह पुत्रेण सिद्धार्थेन शिखण्डिना
मुदं च परमां लेभे पाञ्चाल्यः सह बान्धवैः

५.१९३.६३शिष्यार्थं प्रददौ चापि द्रोणाय कुरुपुंगव
शिखण्डिनं महाराज पुत्रं स्त्रीपूर्विणं तथा

५.१९३.६४प्रतिपेदे चतुष्पादं धनुर्वेदं नृपात्मजः
शिखण्डी सह युष्माभिर्धृष्टद्युम्नश्च पार्षतः

५.१९३.६५मम त्वेतच्चरास्तात यथावत्प्रत्यवेदयन्
जडान्धबधिराकारा ये युक्ता द्रुपदे मया

५.१९३.६६एवमेष महाराज स्त्रीपुमान्द्रुपदात्मजः
संभूतः कौरवश्रेष्ठ शिखण्डी रथसत्तमः

५.१९३.६७ज्येष्ठा काशिपतेः कन्या अम्बा नामेति विश्रुता
द्रुपदस्य कुले जाता शिखण्डी भरतर्षभ

५.१९३.६८नाहमेनं धनुष्पाणिं युयुत्सुं समुपस्थितम्
मुहूर्तमपि पश्येयं प्रहरेयं न चाप्युत

५.१९३.६९व्रतमेतन्मम सदा पृथिव्यामपि विश्रुतम्
स्त्रियां स्त्रीपूर्वके चापि स्त्रीनाम्नि स्त्रीस्वरूपिणि

५.१९३.७०न मुञ्चेयमहं बाणानिति कौरवनन्दन
न हन्यामहमेतेन कारणेन शिखण्डिनम्

५.१९३.७१एतत्तत्त्वमहं वेद जन्म तात शिखण्डिनः
ततो नैनं हनिष्यामि समरेष्वाततायिनम्

५.१९३.७२यदि भीष्मः स्त्रियं हन्याद्धन्यादात्मानमप्युत
नैनं तस्माद्धनिष्यामि दृष्ट्वापि समरे स्थितम्

५.१९३.७३संजय उवाच

५.१९३.७४एतच्छ्रुत्वा तु कौरव्यो राजा दुर्योधनस्तदा
मुहूर्तमिव स ध्यात्वा भीष्मे युक्तममन्यत