५. उद्योगपर्व
५.१९४.१संजय उवाच

५.१९४.२प्रभातायां तु शर्वर्यां पुनरेव सुतस्तव
मध्ये सर्वस्य सैन्यस्य पितामहमपृच्छत

५.१९४.३पाण्डवेयस्य गाङ्गेय यदेतत्सैन्यमुत्तमम्
प्रभूतनरनागाश्वं महारथसमाकुलम्

५.१९४.४भीमार्जुनप्रभृतिभिर्महेष्वासैर्महाबलैः
लोकपालोपमैर्गुप्तं धृष्टद्युम्नपुरोगमैः

५.१९४.५अप्रधृष्यमनावार्यमुद्वृत्तमिव सागरम्
सेनासागरमक्षोभ्यमपि देवैर्महाहवे

५.१९४.६केन कालेन गाङ्गेय क्षपयेथा महाद्युते
आचार्यो वा महेष्वासः कृपो वा सुमहाबलः

५.१९४.७कर्णो वा समरश्लाघी द्रौणिर्वा द्विजसत्तमः
दिव्यास्त्रविदुषः सर्वे भवन्तो हि बले मम

५.१९४.८एतदिच्छाम्यहं ज्ञातुं परं कौतूहलं हि मे
हृदि नित्यं महाबाहो वक्तुमर्हसि तन्मम

५.१९४.९भीष्म उवाच

५.१९४.१०अनुरूपं कुरुश्रेष्ठ त्वय्येतत्पृथिवीपते
बलाबलममित्राणां स्वेषां च यदि पृच्छसि

५.१९४.११शृणु राजन्मम रणे या शक्तिः परमा भवेत्
अस्त्रवीर्यं रणे यच्च भुजयोश्च महाभुज

५.१९४.१२आर्जवेनैव युद्धेन योद्धव्य इतरो जनः
मायायुद्धेन मायावी इत्येतद्धर्मनिश्चयः

५.१९४.१३हन्यामहं महाबाहो पाण्डवानामनीकिनीम्
दिवसे दिवसे कृत्वा भागं प्रागाह्निकं मम

५.१९४.१४योधानां दशसाहस्रं कृत्वा भागं महाद्युते
सहस्रं रथिनामेकमेष भागो मतो मम

५.१९४.१५अनेनाहं विधानेन संनद्धः सततोत्थितः
क्षपयेयं महत्सैन्यं कालेनानेन भारत

५.१९४.१६यदि त्वस्त्राणि मुञ्चेयं महान्ति समरे स्थितः
शतसाहस्रघातीनि हन्यां मासेन भारत

५.१९४.१७संजय उवाच

५.१९४.१८श्रुत्वा भीष्मस्य तद्वाक्यं राजा दुर्योधनस्तदा
पर्यपृच्छत राजेन्द्र द्रोणमङ्गिरसां वरम्

५.१९४.१९आचार्य केन कालेन पाण्डुपुत्रस्य सैनिकान्
निहन्या इति तं द्रोणः प्रत्युवाच हसन्निव

५.१९४.२०स्थविरोऽस्मि कुरुश्रेष्ठ मन्दप्राणविचेष्टितः
अस्त्राग्निना निर्दहेयं पाण्डवानामनीकिनीम्

५.१९४.२१यथा भीष्मः शांतनवो मासेनेति मतिर्मम
एषा मे परमा शक्तिरेतन्मे परमं बलम्

५.१९४.२२द्वाभ्यामेव तु मासाभ्यां कृपः शारद्वतोऽब्रवीत्
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे बलक्षयम्
कर्णस्तु पञ्चरात्रेण प्रतिजज्ञे महास्त्रवित्

५.१९४.२३तच्छ्रुत्वा सूतपुत्रस्य वाक्यं सागरगासुतः
जहास सस्वनं हासं वाक्यं चेदमुवाच ह

५.१९४.२४न हि तावद्रणे पार्थं बाणखड्गधनुर्धरम्
वासुदेवसमायुक्तं रथेनोद्यन्तमच्युतम्

५.१९४.२५समागच्छसि राधेय तेनैवमभिमन्यसे
शक्यमेवं च भूयश्च त्वया वक्तुं यथेष्टतः