५. उद्योगपर्व
५.१९५.१वैशंपायन उवाच

५.१९५.२एतच्छ्रुत्वा तु कौन्तेयः सर्वान्भ्रातॄनुपह्वरे
आहूय भरतश्रेष्ठ इदं वचनमब्रवीत्

५.१९५.३धार्तराष्ट्रस्य सैन्येषु ये चारपुरुषा मम
ते प्रवृत्तिं प्रयच्छन्ति ममेमां व्युषितां निशाम्

५.१९५.४दुर्योधनः किलापृच्छदापगेयं महाव्रतम्
केन कालेन पाण्डूनां हन्याः सैन्यमिति प्रभो

५.१९५.५मासेनेति च तेनोक्तो धार्तराष्ट्रः सुदुर्मतिः
तावता चापि कालेन द्रोणोऽपि प्रत्यजानत

५.१९५.६गौतमो द्विगुणं कालमुक्तवानिति नः श्रुतम्
द्रौणिस्तु दशरात्रेण प्रतिजज्ञे महास्त्रवित्

५.१९५.७तथा दिव्यास्त्रवित्कर्णः संपृष्टः कुरुसंसदि
पञ्चभिर्दिवसैर्हन्तुं स सैन्यं प्रतिजज्ञिवान्

५.१९५.८तस्मादहमपीच्छामि श्रोतुमर्जुन ते वचः
कालेन कियता शत्रून्क्षपयेरिति संयुगे

५.१९५.९एवमुक्तो गुडाकेशः पार्थिवेन धनंजयः
वासुदेवमवेक्ष्येदं वचनं प्रत्यभाषत

५.१९५.१०सर्व एते महात्मानः कृतास्त्राश्चित्रयोधिनः
असंशयं महाराज हन्युरेव बलं तव

५.१९५.११अपैतु ते मनस्तापो यथासत्यं ब्रवीम्यहम्
हन्यामेकरथेनाहं वासुदेवसहायवान्

५.१९५.१२सामरानपि लोकांस्त्रीन्सहस्थावरजङ्गमान्
भूतं भव्यं भविष्यच्च निमेषादिति मे मतिः

५.१९५.१३यत्तद्घोरं पशुपतिः प्रादादस्त्रं महन्मम
कैराते द्वन्द्वयुद्धे वै तदिदं मयि वर्तते

५.१९५.१४यद्युगान्ते पशुपतिः सर्वभूतानि संहरन्
प्रयुङ्क्ते पुरुषव्याघ्र तदिदं मयि वर्तते

५.१९५.१५तन्न जानाति गाङ्गेयो न द्रोणो न च गौतमः
न च द्रोणसुतो राजन्कुत एव तु सूतजः

५.१९५.१६न तु युक्तं रणे हन्तुं दिव्यैरस्त्रैः पृथग्जनम्
आर्जवेनैव युद्धेन विजेष्यामो वयं परान्

५.१९५.१७तथेमे पुरुषव्याघ्राः सहायास्तव पार्थिव
सर्वे दिव्यास्त्रविदुषः सर्वे युद्धाभिनन्दिनः

५.१९५.१८वेदान्तावभृथस्नाताः सर्व एतेऽपराजिताः
निहन्युः समरे सेनां देवानामपि पाण्डव

५.१९५.१९शिखण्डी युयुधानश्च धृष्टद्युम्नश्च पार्षतः
भीमसेनो यमौ चोभौ युधामन्यूत्तमौजसौ

५.१९५.२०विराटद्रुपदौ चोभौ भीष्मद्रोणसमौ युधि
स्वयं चापि समर्थोऽसि त्रैलोक्योत्सादने अपि

५.१९५.२१क्रोधाद्यं पुरुषं पश्येस्त्वं वासवसमद्युते
क्षिप्रं न स भवेद्व्यक्तमिति त्वां वेद्मि कौरव