५. उद्योगपर्व
५.३३.१वैशंपायन उवाच

५.३३.२द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः
विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम्

५.३३.३प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत्
ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति

५.३३.४एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम्
अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय

५.३३.५द्वाःस्थ उवाच

५.३३.६विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात्
द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम्

५.३३.७धृतराष्ट्र उवाच

५.३३.८प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम्
अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने

५.३३.९द्वाःस्थ उवाच

५.३३.१०प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः
न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम्

५.३३.११वैशंपायन उवाच

५.३३.१२ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम्
अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम्

५.३३.१३विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात्
यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम्

५.३३.१४धृतराष्ट्र उवाच

५.३३.१५संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः
अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति

५.३३.१६तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया
तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम्

५.३३.१७जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि
तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि

५.३३.१८यतः प्राप्तः संजयः पाण्डवेभ्यो; न मे यथावन्मनसः प्रशान्तिः
सर्वेन्द्रियाण्यप्रकृतिं गतानि; किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता

५.३३.१९विदुर उवाच

५.३३.२०अभियुक्तं बलवता दुर्बलं हीनसाधनम्
हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः

५.३३.२१कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप
कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे

५.३३.२२धृतराष्ट्र उवाच

५.३३.२३श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः
अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः

५.३३.२४विदुर उवाच

५.३३.२५निषेवते प्रशस्तानि निन्दितानि न सेवते
अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम्

५.३३.२६क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता
यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते

५.३३.२७यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे
कृतमेवास्य जानन्ति स वै पण्डित उच्यते

५.३३.२८यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः
समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते

५.३३.२९यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते
कामादर्थं वृणीते यः स वै पण्डित उच्यते

५.३३.३०यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते
न किंचिदवमन्यन्ते पण्डिता भरतर्षभ

५.३३.३१क्षिप्रं विजानाति चिरं शृणोति; विज्ञाय चार्थं भजते न कामात्
नासंपृष्टो व्युपयुङ्क्ते परार्थे; तत्प्रज्ञानं प्रथमं पण्डितस्य

५.३३.३२नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्
आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः

५.३३.३३निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः
अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते

५.३३.३४आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते
हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ

५.३३.३५न हृष्यत्यात्मसंमाने नावमानेन तप्यते
गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते

५.३३.३६तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्
उपायज्ञो मनुष्याणां नरः पण्डित उच्यते

५.३३.३७प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान्
आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते

५.३३.३८श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा
असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः

५.३३.३९अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः
अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः

५.३३.४०स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति
मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते

५.३३.४१अकामान्कामयति यः कामयानान्परिद्विषन्
बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम्

५.३३.४२अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च
कर्म चारभते दुष्टं तमाहुर्मूढचेतसम्

५.३३.४३संसारयति कृत्यानि सर्वत्र विचिकित्सते
चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ

५.३३.४४अनाहूतः प्रविशति अपृष्टो बहु भाषते
विश्वसत्यप्रमत्तेषु मूढचेता नराधमः

५.३३.४५परं क्षिपति दोषेण वर्तमानः स्वयं तथा
यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः

५.३३.४६आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम्
अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते

५.३३.४७अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते
कदर्यं भजते यश्च तमाहुर्मूढचेतसम्

५.३३.४८अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा
विचरत्यसमुन्नद्धो यः स पण्डित उच्यते

५.३३.४९एकः संपन्नमश्नाति वस्ते वासश्च शोभनम्
योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः

५.३३.५०एकः पापानि कुरुते फलं भुङ्क्ते महाजनः
भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते

५.३३.५१एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता
बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम्

५.३३.५२एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु
पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव

५.३३.५३एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते
सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः

५.३३.५४एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत्
एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात्

५.३३.५५एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे
सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव

५.३३.५६एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते
यदेनं क्षमया युक्तमशक्तं मन्यते जनः

५.३३.५७एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा
विद्यैका परमा दृष्टिरहिंसैका सुखावहा

५.३३.५८द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव
राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम्

५.३३.५९द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते
अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा

५.३३.६०द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ
स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः

५.३३.६१द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ
यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः

५.३३.६२द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः
प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान्

५.३३.६३न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ
अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम्

५.३३.६४त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ
कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः

५.३३.६५त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः
नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु

५.३३.६६त्रय एवाधना राजन्भार्या दासस्तथा सुतः
यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम्

५.३३.६७चत्वारि राज्ञा तु महाबलेन; वर्ज्यान्याहुः पण्डितस्तानि विद्यात्
अल्पप्रज्ञैः सह मन्त्रं न कुर्या;न्न दीर्घसूत्रैरलसैश्चारणैश्च

५.३३.६८चत्वारि ते तात गृहे वसन्तु; श्रियाभिजुष्टस्य गृहस्थधर्मे
वृद्धो ज्ञातिरवसन्नः कुलीनः; सखा दरिद्रो भगिनी चानपत्या

५.३३.६९चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः
पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे

५.३३.७०देवतानां च संकल्पमनुभावं च धीमताम्
विनयं कृतविद्यानां विनाशं पापकर्मणाम्

५.३३.७१पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः
पिता माताग्निरात्मा च गुरुश्च भरतर्षभ

५.३३.७२पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम्
देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान्

५.३३.७३पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि
मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः

५.३३.७४पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम्
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्

५.३३.७५षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता
निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता

५.३३.७६षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे
अप्रवक्तारमाचार्यमनधीयानमृत्विजम्

५.३३.७७अरक्षितारं राजानं भार्यां चाप्रियवादिनीम्
ग्रामकामं च गोपालं वनकामं च नापितम्

५.३३.७८षडेव तु गुणाः पुंसा न हातव्याः कदाचन
सत्यं दानमनालस्यमनसूया क्षमा धृतिः

५.३३.७९षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति
न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः

५.३३.८०षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते
चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः

५.३३.८१प्रमदाः कामयानेषु यजमानेषु याजकाः
राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः

५.३३.८२सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः
प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः

५.३३.८३स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम्
महच्च दण्डपारुष्यमर्थदूषणमेव च

५.३३.८४अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः
ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते

५.३३.८५ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति
रमते निन्दया चैषां प्रशंसां नाभिनन्दति

५.३३.८६नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति
एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत्

५.३३.८७अष्टाविमानि हर्षस्य नवनीतानि भारत
वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि

५.३३.८८समागमश्च सखिभिर्महांश्चैव धनागमः
पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने

५.३३.८९समये च प्रियालापः स्वयूथेषु च संनतिः
अभिप्रेतस्य लाभश्च पूजा च जनसंसदि

५.३३.९०नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम्
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः

५.३३.९१दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान्
मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः

५.३३.९२त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश
तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः

५.३३.९३अत्रैवोदाहरन्तीममितिहासं पुरातनम्
पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना

५.३३.९४यः काममन्यू प्रजहाति राजा; पात्रे प्रतिष्ठापयते धनं च
विशेषविच्छ्रुतवान्क्षिप्रकारी; तं सर्वलोकः कुरुते प्रमाणम्

५.३३.९५जानाति विश्वासयितुं मनुष्या;न्विज्ञातदोषेषु दधाति दण्डम्
जानाति मात्रां च तथा क्षमां च; तं तादृशं श्रीर्जुषते समग्रा

५.३३.९६सुदुर्बलं नावजानाति कंचि;द्युक्तो रिपुं सेवते बुद्धिपूर्वम्
न विग्रहं रोचयते बलस्थैः; काले च यो विक्रमते स धीरः

५.३३.९७प्राप्यापदं न व्यथते कदाचि;दुद्योगमन्विच्छति चाप्रमत्तः
दुःखं च काले सहते जितात्मा; धुरंधरस्तस्य जिताः सपत्नाः

५.३३.९८अनर्थकं विप्रवासं गृहेभ्यः; पापैः संधिं परदाराभिमर्शम्
दम्भं स्तैन्यं पैशुनं मद्यपानं; न सेवते यः स सुखी सदैव

५.३३.९९न संरम्भेणारभतेऽर्थवर्ग;माकारितः शंसति तथ्यमेव
न मात्रार्थे रोचयते विवादं; नापूजितः कुप्यति चाप्यमूढः

५.३३.१००न योऽभ्यसूयत्यनुकम्पते च; न दुर्बलः प्रातिभाव्यं करोति
नात्याह किंचित्क्षमते विवादं; सर्वत्र तादृग्लभते प्रशंसाम्

५.३३.१०१यो नोद्धतं कुरुते जातु वेषं; न पौरुषेणापि विकत्थतेऽन्यान्
न मूर्च्छितः कटुकान्याह किंचि;त्प्रियं सदा तं कुरुते जनोऽपि

५.३३.१०२न वैरमुद्दीपयति प्रशान्तं; न दर्पमारोहति नास्तमेति
न दुर्गतोऽस्मीति करोति मन्युं; तमार्यशीलं परमाहुरग्र्यम्

५.३३.१०३न स्वे सुखे वै कुरुते प्रहर्षं; नान्यस्य दुःखे भवति प्रतीतः
दत्त्वा न पश्चात्कुरुतेऽनुतापं; न कत्थते सत्पुरुषार्यशीलः

५.३३.१०४देशाचारान्समयाञ्जातिधर्मा;न्बुभूषते यस्तु परावरज्ञः
स तत्र तत्राधिगतः सदैव; महाजनस्याधिपत्यं करोति

५.३३.१०५दम्भं मोहं मत्सरं पापकृत्यं; राजद्विष्टं पैशुनं पूगवैरम्
मत्तोन्मत्तैर्दुर्जनैश्चापि वादं; यः प्रज्ञावान्वर्जयेत्स प्रधानः

५.३३.१०६दमं शौचं दैवतं मङ्गलानि; प्रायश्चित्तं विविधाँल्लोकवादान्
एतानि यः कुरुते नैत्यकानि; तस्योत्थानं देवता राधयन्ति

५.३३.१०७समैर्विवाहं कुरुते न हीनैः; समैः सख्यं व्यवहारं कथाश्च
गुणैर्विशिष्टांश्च पुरोदधाति; विपश्चितस्तस्य नयाः सुनीताः

५.३३.१०८मितं भुङ्क्ते संविभज्याश्रितेभ्यो; मितं स्वपित्यमितं कर्म कृत्वा
ददात्यमित्रेष्वपि याचितः सं;स्तमात्मवन्तं प्रजहत्यनर्थाः

५.३३.१०९चिकीर्षितं विप्रकृतं च यस्य; नान्ये जनाः कर्म जानन्ति किंचित्
मन्त्रे गुप्ते सम्यगनुष्ठिते च; स्वल्पो नास्य व्यथते कश्चिदर्थः

५.३३.११०यः सर्वभूतप्रशमे निविष्टः; सत्यो मृदुर्दानकृच्छुद्धभावः
अतीव संज्ञायते ज्ञातिमध्ये; महामणिर्जात्य इव प्रसन्नः

५.३३.१११य आत्मनापत्रपते भृशं नरः; स सर्वलोकस्य गुरुर्भवत्युत
अनन्ततेजाः सुमनाः समाहितः; स्वतेजसा सूर्य इवावभासते

५.३३.११२वने जाताः शापदग्धस्य राज्ञः; पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः
त्वयैव बाला वर्धिताः शिक्षिताश्च; तवादेशं पालयन्त्याम्बिकेय

५.३३.११३प्रदायैषामुचितं तात राज्यं; सुखी पुत्रैः सहितो मोदमानः
न देवानां नापि च मानुषाणां; भविष्यसि त्वं तर्कणीयो नरेन्द्र