५.४०.१विदुर उवाच
५.४०.२योऽभ्यर्थितः सद्भिरसज्जमानः; करोत्यर्थं शक्तिमहापयित्वा
क्षिप्रं यशस्तं समुपैति सन्त;मलं प्रसन्ना हि सुखाय सन्तः
५.४०.३महान्तमप्यर्थमधर्मयुक्तं; यः संत्यजत्यनुपाक्रुष्ट एव
सुखं स दुःखान्यवमुच्य शेते; जीर्णां त्वचं सर्प इवावमुच्य
५.४०.४अनृतं च समुत्कर्षे राजगामि च पैशुनम्
गुरोश्चालीकनिर्बन्धः समानि ब्रह्महत्यया
५.४०.५असूयैकपदं मृत्युरतिवादः श्रियो वधः
अशुश्रूषा त्वरा श्लाघा विद्यायाः शत्रवस्त्रयः
५.४०.६सुखार्थिनः कुतो विद्या नास्ति विद्यार्थिनः सुखम्
सुखार्थी वा त्यजेद्विद्यां विद्यार्थी वा सुखं त्यजेत्
५.४०.७नाग्निस्तृप्यति काष्ठानां नापगानां महोदधिः
नान्तकः सर्वभूतानां न पुंसां वामलोचना
५.४०.८आशा धृतिं हन्ति समृद्धिमन्तकः; क्रोधः श्रियं हन्ति यशः कदर्यता
अपालनं हन्ति पशूंश्च राज;न्नेकः क्रुद्धो ब्राह्मणो हन्ति राष्ट्रम्
५.४०.९अजश्च कांस्यं च रथश्च नित्यं; मध्वाकर्षः शकुनिः श्रोत्रियश्च
वृद्धो ज्ञातिरवसन्नो वयस्य; एतानि ते सन्तु गृहे सदैव
५.४०.१०अजोक्षा चन्दनं वीणा आदर्शो मधुसर्पिषी
विषमौदुम्बरं शङ्खः स्वर्णं नाभिश्च रोचना
५.४०.११गृहे स्थापयितव्यानि धन्यानि मनुरब्रवीत्
देवब्राह्मणपूजार्थमतिथीनां च भारत
५.४०.१२इदं च त्वां सर्वपरं ब्रवीमि; पुण्यं पदं तात महाविशिष्टम्
न जातु कामान्न भयान्न लोभा;द्धर्मं त्यजेज्जीवितस्यापि हेतोः
५.४०.१३नित्यो धर्मः सुखदुःखे त्वनित्ये; नित्यो जीवो धातुरस्य त्वनित्यः
त्यक्त्वानित्यं प्रतितिष्ठस्व नित्ये; संतुष्य त्वं तोषपरो हि लाभः
५.४०.१४महाबलान्पश्य महानुभावा;न्प्रशास्य भूमिं धनधान्यपूर्णाम्
राज्यानि हित्वा विपुलांश्च भोगा;न्गतान्नरेन्द्रान्वशमन्तकस्य
५.४०.१५मृतं पुत्रं दुःखपुष्टं मनुष्या; उत्क्षिप्य राजन्स्वगृहान्निर्हरन्ति
तं मुक्तकेशाः करुणं रुदन्त;श्चितामध्ये काष्ठमिव क्षिपन्ति
५.४०.१६अन्यो धनं प्रेतगतस्य भुङ्क्ते; वयांसि चाग्निश्च शरीरधातून्
द्वाभ्यामयं सह गच्छत्यमुत्र; पुण्येन पापेन च वेष्ट्यमानः
५.४०.१७उत्सृज्य विनिवर्तन्ते ज्ञातयः सुहृदः सुताः
अग्नौ प्रास्तं तु पुरुषं कर्मान्वेति स्वयंकृतम्
५.४०.१८अस्माल्लोकादूर्ध्वममुष्य चाधो; महत्तमस्तिष्ठति ह्यन्धकारम्
तद्वै महामोहनमिन्द्रियाणां; बुध्यस्व मा त्वां प्रलभेत राजन्
५.४०.१९इदं वचः शक्ष्यसि चेद्यथाव;न्निशम्य सर्वं प्रतिपत्तुमेवम्
यशः परं प्राप्स्यसि जीवलोके; भयं न चामुत्र न चेह तेऽस्ति
५.४०.२०आत्मा नदी भारत पुण्यतीर्था; सत्योदका धृतिकूला दमोर्मिः
तस्यां स्नातः पूयते पुण्यकर्मा; पुण्यो ह्यात्मा नित्यमम्भोऽम्भ एव
५.४०.२१कामक्रोधग्राहवतीं पञ्चेन्द्रियजलां नदीम्
कृत्वा धृतिमयीं नावं जन्मदुर्गाणि संतर
५.४०.२२प्रज्ञावृद्धं धर्मवृद्धं स्वबन्धुं; विद्यावृद्धं वयसा चापि वृद्धम्
कार्याकार्ये पूजयित्वा प्रसाद्य; यः संपृच्छेन्न स मुह्येत्कदाचित्
५.४०.२३धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुःश्रोत्रे च मनसा मनो वाचं च कर्मणा
५.४०.२४नित्योदकी नित्ययज्ञोपवीती; नित्यस्वाध्यायी पतितान्नवर्जी
ऋतं ब्रुवन्गुरवे कर्म कुर्व;न्न ब्राह्मणश्च्यवते ब्रह्मलोकात्
५.४०.२५अधीत्य वेदान्परिसंस्तीर्य चाग्नी;निष्ट्वा यज्ञैः पालयित्वा प्रजाश्च
गोब्राह्मणार्थे शस्त्रपूतान्तरात्मा; हतः संग्रामे क्षत्रियः स्वर्गमेति
५.४०.२६वैश्योऽधीत्य ब्राह्मणान्क्षत्रियांश्च; धनैः काले संविभज्याश्रितांश्च
त्रेतापूतं धूममाघ्राय पुण्यं; प्रेत्य स्वर्गे देवसुखानि भुङ्क्ते
५.४०.२७ब्रह्मक्षत्रं वैश्यवर्णं च शूद्रः; क्रमेणैतान्न्यायतः पूजयानः
तुष्टेष्वेतेष्वव्यथो दग्धपाप;स्त्यक्त्वा देहं स्वर्गसुखानि भुङ्क्ते
५.४०.२८चातुर्वर्ण्यस्यैष धर्मस्तवोक्तो; हेतुं चात्र ब्रुवतो मे निबोध
क्षात्राद्धर्माद्धीयते पाण्डुपुत्र;स्तं त्वं राजन्राजधर्मे नियुङ्क्ष्व
५.४०.२९धृतराष्ट्र उवाच
५.४०.३०एवमेतद्यथा मां त्वमनुशाससि नित्यदा
ममापि च मतिः सौम्य भवत्येवं यथात्थ माम्
५.४०.३१सा तु बुद्धिः कृताप्येवं पाण्डवान्प्रति मे सदा
दुर्योधनं समासाद्य पुनर्विपरिवर्तते
५.४०.३२न दिष्टमभ्यतिक्रान्तुं शक्यं मर्त्येन केनचित्
दिष्टमेव कृतं मन्ये पौरुषं तु निरर्थकम्