५. उद्योगपर्व
५.४१.१धृतराष्ट्र उवाच

५.४१.२अनुक्तं यदि ते किंचिद्वाचा विदुर विद्यते
तन्मे शुश्रूषवे ब्रूहि विचित्राणि हि भाषसे

५.४१.३विदुर उवाच

५.४१.४धृतराष्ट्र कुमारो वै यः पुराणः सनातनः
सनत्सुजातः प्रोवाच मृत्युर्नास्तीति भारत

५.४१.५स ते गुह्यान्प्रकाशांश्च सर्वान्हृदयसंश्रयान्
प्रवक्ष्यति महाराज सर्वबुद्धिमतां वरः

५.४१.६धृतराष्ट्र उवाच

५.४१.७किं त्वं न वेद तद्भूयो यन्मे ब्रूयात्सनातनः
त्वमेव विदुर ब्रूहि प्रज्ञाशेषोऽस्ति चेत्तव

५.४१.८विदुर उवाच

५.४१.९शूद्रयोनावहं जातो नातोऽन्यद्वक्तुमुत्सहे
कुमारस्य तु या बुद्धिर्वेद तां शाश्वतीमहम्

५.४१.१०ब्राह्मीं हि योनिमापन्नः सुगुह्यमपि यो वदेत्
न तेन गर्ह्यो देवानां तस्मादेतद्ब्रवीमि ते

५.४१.११धृतराष्ट्र उवाच

५.४१.१२ब्रवीहि विदुर त्वं मे पुराणं तं सनातनम्
कथमेतेन देहेन स्यादिहैव समागमः

५.४१.१३वैशंपायन उवाच

५.४१.१४चिन्तयामास विदुरस्तमृषिं संशितव्रतम्
स च तच्चिन्तितं ज्ञात्वा दर्शयामास भारत

५.४१.१५स चैनं प्रतिजग्राह विधिदृष्टेन कर्मणा
सुखोपविष्टं विश्रान्तमथैनं विदुरोऽब्रवीत्

५.४१.१६भगवन्संशयः कश्चिद्धृतराष्ट्रस्य मानसे
यो न शक्यो मया वक्तुं तमस्मै वक्तुमर्हसि
यं श्रुत्वायं मनुष्येन्द्रः सुखदुःखातिगो भवेत्

५.४१.१७लाभालाभौ प्रियद्वेष्यौ यथैनं न जरान्तकौ
विषहेरन्भयामर्षौ क्षुत्पिपासे मदोद्भवौ
अरतिश्चैव तन्द्री च कामक्रोधौ क्षयोदयौ