५. उद्योगपर्व
५.४३.१धृतराष्ट्र उवाच

५.४३.२ऋचो यजूंष्यधीते यः सामवेदं च यो द्विजः
पापानि कुर्वन्पापेन लिप्यते न स लिप्यते

५.४३.३सनत्सुजात उवाच

५.४३.४नैनं सामान्यृचो वापि न यजूंषि विचक्षण
त्रायन्ते कर्मणः पापान्न ते मिथ्या ब्रवीम्यहम्

५.४३.५न छन्दांसि वृजिनात्तारयन्ति; मायाविनं मायया वर्तमानम्
नीडं शकुन्ता इव जातपक्षा;श्छन्दांस्येनं प्रजहत्यन्तकाले

५.४३.६धृतराष्ट्र उवाच

५.४३.७न चेद्वेदा वेदविदं शक्तास्त्रातुं विचक्षण
अथ कस्मात्प्रलापोऽयं ब्राह्मणानां सनातनः

५.४३.८सनत्सुजात उवाच

५.४३.९अस्मिँल्लोके तपस्तप्तं फलमन्यत्र दृश्यते
ब्राह्मणानामिमे लोका ऋद्धे तपसि संयताः

५.४३.१०धृतराष्ट्र उवाच

५.४३.११कथं समृद्धमप्यृद्धं तपो भवति केवलम्
सनत्सुजात तद्ब्रूहि यथा विद्याम तद्वयम्

५.४३.१२सनत्सुजात उवाच

५.४३.१३क्रोधादयो द्वादश यस्य दोषा;स्तथा नृशंसादि षडत्र राजन्
धर्मादयो द्वादश चाततानाः; शास्त्रे गुणा ये विदिता द्विजानाम्

५.४३.१४क्रोधः कामो लोभमोहौ विवित्सा;कृपासूया मानशोकौ स्पृहा च
ईर्ष्या जुगुप्सा च मनुष्यदोषा; वर्ज्याः सदा द्वादशैते नरेण

५.४३.१५एकैकमेते राजेन्द्र मनुष्यान्पर्युपासते
लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः

५.४३.१६विकत्थनः स्पृहयालुर्मनस्वी; बिभ्रत्कोपं चपलोऽरक्षणश्च
एते प्राप्ताः षण्नरान्पापधर्मा;न्प्रकुर्वते नोत सन्तः सुदुर्गे

५.४३.१७संभोगसंविद्द्विषमेधमानो; दत्तानुतापी कृपणोऽबलीयान्
वर्गप्रशंसी वनितासु द्वेष्टा; एतेऽपरे सप्त नृशंसधर्माः

५.४३.१८धर्मश्च सत्यं च दमस्तपश्च; अमात्सर्यं ह्रीस्तितिक्षानसूया
यज्ञश्च दानं च धृतिः श्रुतं च; महाव्रता द्वादश ब्राह्मणस्य

५.४३.१९यस्त्वेतेभ्यः प्रवसेद्द्वादशेभ्यः; सर्वामपीमां पृथिवीं प्रशिष्यात्
त्रिभिर्द्वाभ्यामेकतो वा विशिष्टो; नास्य स्वमस्तीति स वेदितव्यः

५.४३.२०दमस्त्यागोऽप्रमादश्च एतेष्वमृतमाहितम्
तानि सत्यमुखान्याहुर्ब्राह्मणा ये मनीषिणः

५.४३.२१दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृताकृते
अनृतं चाभ्यसूया च कामार्थौ च तथा स्पृहा

५.४३.२२क्रोधः शोकस्तथा तृष्णा लोभः पैशुन्यमेव च
मत्सरश्च विवित्सा च परितापस्तथा रतिः

५.४३.२३अपस्मारः सातिवादस्तथा संभावनात्मनि
एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते

५.४३.२४श्रेयांस्तु षड्विधस्त्यागः प्रियं प्राप्य न हृष्यति
अप्रिये तु समुत्पन्ने व्यथां जातु न चार्च्छति

५.४३.२५इष्टान्दारांश्च पुत्रांश्च न चान्यं यद्वचो भवेत्
अर्हते याचमानाय प्रदेयं तद्वचो भवेत्
अप्यवाच्यं वदत्येव स तृतीयो गुणः स्मृतः

५.४३.२६त्यक्तैर्द्रव्यैर्यो भवति नोपयुङ्क्ते च कामतः
न च कर्मसु तद्धीनः शिष्यबुद्धिर्नरो यथा
सर्वैरेव गुणैर्युक्तो द्रव्यवानपि यो भवेत्

५.४३.२७अप्रमादोऽष्टदोषः स्यात्तान्दोषान्परिवर्जयेत्
इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत
अतीतानागतेभ्यश्च मुक्तो ह्येतैः सुखी भवेत्

५.४३.२८दोषैरेतैर्विमुक्तं तु गुणैरेतैः समन्वितम्
एतत्समृद्धमप्यृद्धं तपो भवति केवलम्
यन्मां पृच्छसि राजेन्द्र किं भूयः श्रोतुमिच्छसि

५.४३.२९धृतराष्ट्र उवाच

५.४३.३०आख्यानपञ्चमैर्वेदैर्भूयिष्ठं कथ्यते जनः
तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे

५.४३.३१द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे
तेषां तु कतमः स स्याद्यमहं वेद ब्राह्मणम्

५.४३.३२सनत्सुजात उवाच

५.४३.३३एकस्य वेदस्याज्ञानाद्वेदास्ते बहवोऽभवन्
सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः
एवं वेदमनुत्साद्य प्रज्ञां महति कुर्वते

५.४३.३४दानमध्ययनं यज्ञो लोभादेतत्प्रवर्तते
सत्यात्प्रच्यवमानानां संकल्पो वितथो भवेत्

५.४३.३५ततो यज्ञः प्रतायेत सत्यस्यैवावधारणात्
मनसान्यस्य भवति वाचान्यस्योत कर्मणा
संकल्पसिद्धः पुरुषः संकल्पानधितिष्ठति

५.४३.३६अनैभृत्येन वै तस्य दीक्षितव्रतमाचरेत्
नामैतद्धातुनिर्वृत्तं सत्यमेव सतां परम्
ज्ञानं वै नाम प्रत्यक्षं परोक्षं जायते तपः

५.४३.३७विद्याद्बहु पठन्तं तु बहुपाठीति ब्राह्मणम्
तस्मात्क्षत्रिय मा मंस्था जल्पितेनैव ब्राह्मणम्
य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया

५.४३.३८छन्दांसि नाम क्षत्रिय तान्यथर्वा; जगौ पुरस्तादृषिसर्ग एषः
छन्दोविदस्ते य उ तानधीत्य; न वेद्यवेदस्य विदुर्न वेद्यम्

५.४३.३९न वेदानां वेदिता कश्चिदस्ति; कश्चिद्वेदान्बुध्यते वापि राजन्
यो वेद वेदान्न स वेद वेद्यं; सत्ये स्थितो यस्तु स वेद वेद्यम्

५.४३.४०अभिजानामि ब्राह्मणमाख्यातारं विचक्षणम्
यश्छिन्नविचिकित्सः सन्नाचष्टे सर्वसंशयान्

५.४३.४१तस्य पर्येषणं गच्छेत्प्राचीनं नोत दक्षिणम्
नार्वाचीनं कुतस्तिर्यङ्नादिशं तु कथंचन

५.४३.४२तूष्णींभूत उपासीत न चेष्टेन्मनसा अपि
अभ्यावर्तेत ब्रह्मास्य अन्तरात्मनि वै श्रितम्

५.४३.४३मौनाद्धि स मुनिर्भवति नारण्यवसनान्मुनिः
अक्षरं तत्तु यो वेद स मुनिः श्रेष्ठ उच्यते

५.४३.४४सर्वार्थानां व्याकरणाद्वैयाकरण उच्यते
प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः

५.४३.४५सत्ये वै ब्राह्मणस्तिष्ठन्ब्रह्म पश्यति क्षत्रिय
वेदानां चानुपूर्व्येण एतद्विद्वन्ब्रवीमि ते