५.४४.१धृतराष्ट्र उवाच
५.४४.२सनत्सुजात यदिमां परार्थां; ब्राह्मीं वाचं प्रवदसि विश्वरूपाम्
परां हि कामेषु सुदुर्लभां कथां; तद्ब्रूहि मे वाक्यमेतत्कुमार
५.४४.३सनत्सुजात उवाच
५.४४.४नैतद्ब्रह्म त्वरमाणेन लभ्यं; यन्मां पृच्छस्यभिहृष्यस्यतीव
अव्यक्तविद्यामभिधास्ये पुराणीं; बुद्ध्या च तेषां ब्रह्मचर्येण सिद्धाम्
५.४४.५धृतराष्ट्र उवाच
५.४४.६अव्यक्तविद्यामिति यत्सनातनीं; ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम्
अनारभ्या वसतीहार्य काले; कथं ब्राह्मण्यममृतत्वं लभेत
५.४४.७सनत्सुजात उवाच
५.४४.८येऽस्मिँल्लोके विजयन्तीह कामा;न्ब्राह्मीं स्थितिमनुतितिक्षमाणाः
त आत्मानं निर्हरन्तीह देहा;न्मुञ्जादिषीकामिव सत्त्वसंस्थाः
५.४४.९शरीरमेतौ कुरुतः पिता माता च भारत
आचार्यशास्ता या जातिः सा सत्या साजरामरा
५.४४.१०आचार्ययोनिमिह ये प्रविश्य; भूत्वा गर्भं ब्रह्मचर्यं चरन्ति
इहैव ते शास्त्रकारा भवन्ति; प्रहाय देहं परमं यान्ति योगम्
५.४४.११य आवृणोत्यवितथेन कर्णा;वृतं कुर्वन्नमृतं संप्रयच्छन्
तं मन्येत पितरं मातरं च; तस्मै न द्रुह्येत्कृतमस्य जानन्
५.४४.१२गुरुं शिष्यो नित्यमभिमन्यमानः; स्वाध्यायमिच्छेच्छुचिरप्रमत्तः
मानं न कुर्यान्न दधीत रोष;मेष प्रथमो ब्रह्मचर्यस्य पादः
५.४४.१३आचार्यस्य प्रियं कुर्यात्प्राणैरपि धनैरपि
कर्मणा मनसा वाचा द्वितीयः पाद उच्यते
५.४४.१४समा गुरौ यथा वृत्तिर्गुरुपत्न्यां तथा भवेत्
यथोक्तकारी प्रियकृत्तृतीयः पाद उच्यते
५.४४.१५नाचार्यायेहोपकृत्वा प्रवादं; प्राज्ञः कुर्वीत नैतदहं करोमि
इतीव मन्येत न भाषयेत; स वै चतुर्थो ब्रह्मचर्यस्य पादः
५.४४.१६एवं वसन्तं यदुपप्लवेद्धन;माचार्याय तदनुप्रयच्छेत्
सतां वृत्तिं बहुगुणामेवमेति; गुरोः पुत्रे भवति च वृत्तिरेषा
५.४४.१७एवं वसन्सर्वतो वर्धतीह; बहून्पुत्राँल्लभते च प्रतिष्ठाम्
वर्षन्ति चास्मै प्रदिशो दिशश्च; वसन्त्यस्मिन्ब्रह्मचर्ये जनाश्च
५.४४.१८एतेन ब्रह्मचर्येण देवा देवत्वमाप्नुवन्
ऋषयश्च महाभागा ब्रह्मलोकं मनीषिणः
५.४४.१९गन्धर्वाणामनेनैव रूपमप्सरसामभूत्
एतेन ब्रह्मचर्येण सूर्यो अह्नाय जायते
५.४४.२०य आशयेत्पाटयेच्चापि राज;न्सर्वं शरीरं तपसा तप्यमानः
एतेनासौ बाल्यमत्येति विद्वा;न्मृत्युं तथा रोधयत्यन्तकाले
५.४४.२१अन्तवन्तः क्षत्रिय ते जयन्ति; लोकाञ्जनाः कर्मणा निर्मितेन
ब्रह्मैव विद्वांस्तेन अभ्येति सर्वं; नान्यः पन्था अयनाय विद्यते
५.४४.२२धृतराष्ट्र उवाच
५.४४.२३आभाति शुक्लमिव लोहितमिव; अथो कृष्णमथाञ्जनं काद्रवं वा
तद्ब्राह्मणः पश्यति योऽत्र विद्वा;न्कथंरूपं तदमृतमक्षरं पदम्
५.४४.२४सनत्सुजात उवाच
५.४४.२५नाभाति शुक्लमिव लोहितमिव; अथो कृष्णमायसमर्कवर्णम्
न पृथिव्यां तिष्ठति नान्तरिक्षे; नैतत्समुद्रे सलिलं बिभर्ति
५.४४.२६न तारकासु न च विद्युदाश्रितं; न चाभ्रेषु दृश्यते रूपमस्य
न चापि वायौ न च देवतासु; न तच्चन्द्रे दृश्यते नोत सूर्ये
५.४४.२७नैवर्क्षु तन्न यजुःषु नाप्यथर्वसु; न चैव दृश्यत्यमलेषु सामसु
रथंतरे बार्हते चापि राज;न्महाव्रते नैव दृश्येद्ध्रुवं तत्
५.४४.२८अपारणीयं तमसः परस्ता;त्तदन्तकोऽप्येति विनाशकाले
अणीयरूपं क्षुरधारया त;न्महच्च रूपं त्वपि पर्वतेभ्यः
५.४४.२९सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः
भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च
५.४४.३०अनामयं तन्महदुद्यतं यशो; वाचो विकारान्कवयो वदन्ति
तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितं; ये तद्विदुरमृतास्ते भवन्ति