५. उद्योगपर्व
५.४६.१वैशंपायन उवाच

५.४६.२एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतो राज्ञः सा व्यतीयाय शर्वरी

५.४६.३तस्यां रजन्यां व्युष्टायां राजानः सर्व एव ते
सभामाविविशुर्हृष्टाः सूतस्योपदिदृक्षया

५.४६.४शुश्रूषमाणाः पार्थानां वचो धर्मार्थसंहितम्
धृतराष्ट्रमुखाः सर्वे ययू राजसभां शुभाम्

५.४६.५सुधावदातां विस्तीर्णां कनकाजिरभूषिताम्
चन्द्रप्रभां सुरुचिरां सिक्तां परमवारिणा

५.४६.६रुचिरैरासनैः स्तीर्णां काञ्चनैर्दारवैरपि
अश्मसारमयैर्दान्तैः स्वास्तीर्णैः सोत्तरच्छदैः

५.४६.७भीष्मो द्रोणः कृपः शल्यः कृतवर्मा जयद्रथः
अश्वत्थामा विकर्णश्च सोमदत्तश्च बाह्लिकः

५.४६.८विदुरश्च महाप्राज्ञो युयुत्सुश्च महारथः
सर्वे च सहिताः शूराः पार्थिवा भरतर्षभ
धृतराष्ट्रं पुरस्कृत्य विविशुस्तां सभां शुभाम्

५.४६.९दुःशासनश्चित्रसेनः शकुनिश्चापि सौबलः
दुर्मुखो दुःसहः कर्ण उलूकोऽथ विविंशतिः

५.४६.१०कुरुराजं पुरस्कृत्य दुर्योधनममर्षणम्
विविशुस्तां सभां राजन्सुराः शक्रसदो यथा

५.४६.११आविशद्भिस्तदा राजञ्शूरैः परिघबाहुभिः
शुशुभे सा सभा राजन्सिंहैरिव गिरेर्गुहा

५.४६.१२ते प्रविश्य महेष्वासाः सभां समितिशोभनाः
आसनानि महार्हाणि भेजिरे सूर्यवर्चसः

५.४६.१३आसनस्थेषु सर्वेषु तेषु राजसु भारत
द्वाःस्थो निवेदयामास सूतपुत्रमुपस्थितम्

५.४६.१४अयं स रथ आयाति योऽयासीत्पाण्डवान्प्रति
दूतो नस्तूर्णमायातः सैन्धवैः साधुवाहिभिः

५.४६.१५उपयाय तु स क्षिप्रं रथात्प्रस्कन्द्य कुण्डली
प्रविवेश सभां पूर्णां महीपालैर्महात्मभिः

५.४६.१६संजय उवाच

५.४६.१७प्राप्तोऽस्मि पाण्डवान्गत्वा तद्विजानीत कौरवाः
यथावयः कुरून्सर्वान्प्रतिनन्दन्ति पाण्डवाः

५.४६.१८अभिवादयन्ति वृद्धांश्च वयस्यांश्च वयस्यवत्
यूनश्चाभ्यवदन्पार्थाः प्रतिपूज्य यथावयः

५.४६.१९यथाहं धृतराष्ट्रेण शिष्टः पूर्वमितो गतः
अब्रुवं पाण्डवान्गत्वा तन्निबोधत पार्थिवाः