५. उद्योगपर्व
५.५७.१धृतराष्ट्र उवाच

५.५७.२क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः
तेन संयुगमेष्यन्ति मन्दा विलपतो मम

५.५७.३दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम
न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम

५.५७.४अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम्
प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम

५.५७.५एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम्
यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः

५.५७.६अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम्
जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे

५.५७.७न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः
न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः

५.५७.८न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति
सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा

५.५७.९येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः
ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम्

५.५७.१०न त्वं करोषि कामेन कर्णः कारयिता तव
दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः

५.५७.११दुर्योधन उवाच

५.५७.१२नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये
न विकर्णे न काम्बोजे न कृपे न च बाह्लिके

५.५७.१३सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः
अन्येषु वा तावकेषु भारं कृत्वा समाह्वये

५.५७.१४अहं च तात कर्णश्च रणयज्ञं वितत्य वै
युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ

५.५७.१५रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः
चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः

५.५७.१६आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे
विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ

५.५७.१७अहं च तात कर्णश्च भ्राता दुःशासनश्च मे
एते वयं हनिष्यामः पाण्डवान्समरे त्रयः

५.५७.१८अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम्
मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम्

५.५७.१९त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव
न जातु पाण्डवैः सार्धं वसेयमहमच्युत

५.५७.२०यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष
तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति

५.५७.२१धृतराष्ट्र उवाच

५.५७.२२सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया
ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम्

५.५७.२३रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः
वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः

५.५७.२४प्रतीपमिव मे भाति युयुधानेन भारती
व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना

५.५७.२५संपूर्णं पूरयन्भूयो बलं पार्थस्य माधवः
शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान्

५.५७.२६सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति
तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम्

५.५७.२७यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान्
विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान्

५.५७.२८तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान्
भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे

५.५७.२९निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम्
गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे

५.५७.३०महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः
गदया भीमसेनेन हताः शममुपैष्यथ

५.५७.३१महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम्
बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः

५.५७.३२वैशंपायन उवाच

५.५७.३३एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन्
अनुभाष्य महाराज पुनः पप्रच्छ संजयम्