५.५९.१वैशंपायन उवाच
५.५९.२संजयस्य वचः श्रुत्वा प्रज्ञाचक्षुर्नरेश्वरः
ततः संख्यातुमारेभे तद्वचो गुणदोषतः
५.५९.३प्रसंख्याय च सौक्ष्म्येण गुणदोषान्विचक्षणः
यथावन्मतितत्त्वेन जयकामः सुतान्प्रति
५.५९.४बलाबले विनिश्चित्य याथातथ्येन बुद्धिमान्
शक्तिं संख्यातुमारेभे तदा वै मनुजाधिपः
५.५९.५देवमानुषयोः शक्त्या तेजसा चैव पाण्डवान्
कुरूञ्शक्त्याल्पतरया दुर्योधनमथाब्रवीत्
५.५९.६दुर्योधनेयं चिन्ता मे शश्वन्नाप्युपशाम्यति
सत्यं ह्येतदहं मन्ये प्रत्यक्षं नानुमानतः
५.५९.७आत्मजेषु परं स्नेहं सर्वभूतानि कुर्वते
प्रियाणि चैषां कुर्वन्ति यथाशक्ति हितानि च
५.५९.८एवमेवोपकर्तॄणां प्रायशो लक्षयामहे
इच्छन्ति बहुलं सन्तः प्रतिकर्तुं महत्प्रियम्
५.५९.९अग्निः साचिव्यकर्ता स्यात्खाण्डवे तत्कृतं स्मरन्
अर्जुनस्यातिभीमेऽस्मिन्कुरुपाण्डुसमागमे
५.५९.१०जातगृध्याभिपन्नाश्च पाण्डवानामनेकशः
धर्मादयो भविष्यन्ति समाहूता दिवौकसः
५.५९.११भीष्मद्रोणकृपादीनां भयादशनिसंमितम्
रिरक्षिषन्तः संरम्भं गमिष्यन्तीति मे मतिः
५.५९.१२ते देवसहिताः पार्था न शक्याः प्रतिवीक्षितुम्
मानुषेण नरव्याघ्रा वीर्यवन्तोऽस्त्रपारगाः
५.५९.१३दुरासदं यस्य दिव्यं गाण्डीवं धनुरुत्तमम्
वारुणौ चाक्षयौ दिव्यौ शरपूर्णौ महेषुधी
५.५९.१४वानरश्च ध्वजो दिव्यो निःसङ्गो धूमवद्गतिः
रथश्च चतुरन्तायां यस्य नास्ति समस्त्विषा
५.५९.१५महामेघनिभश्चापि निर्घोषः श्रूयते जनैः
महाशनिसमः शब्दः शात्रवाणां भयंकरः
५.५९.१६यं चातिमानुषं वीर्ये कृत्स्नो लोको व्यवस्यति
देवानामपि जेतारं यं विदुः पार्थिवा रणे
५.५९.१७शतानि पञ्च चैवेषूनुद्वपन्निव दृश्यते
निमेषान्तरमात्रेण मुञ्चन्दूरं च पातयन्
५.५९.१८यमाह भीष्मो द्रोणश्च कृपो द्रौणिस्तथैव च
मद्रराजस्तथा शल्यो मध्यस्था ये च मानवाः
५.५९.१९युद्धायावस्थितं पार्थं पार्थिवैरतिमानुषैः
अशक्यं रथशार्दूलं पराजेतुमरिंदमम्
५.५९.२०क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः
सदृशं बाहुवीर्येण कार्तवीर्यस्य पाण्डवम्
५.५९.२१तमर्जुनं महेष्वासं महेन्द्रोपेन्द्ररक्षितम्
निघ्नन्तमिव पश्यामि विमर्देऽस्मिन्महामृधे
५.५९.२२इत्येवं चिन्तयन्कृत्स्नमहोरात्राणि भारत
अनिद्रो निःसुखश्चास्मि कुरूणां शमचिन्तया
५.५९.२३क्षयोदयोऽयं सुमहान्कुरूणां प्रत्युपस्थितः
अस्य चेत्कलहस्यान्तः शमादन्यो न विद्यते
५.५९.२४शमो मे रोचते नित्यं पार्थैस्तात न विग्रहः
कुरुभ्यो हि सदा मन्ये पाण्डवाञ्शक्तिमत्तरान्