५.६३.१धृतराष्ट्र उवाच
५.६३.२दुर्योधन विजानीहि यत्त्वां वक्ष्यामि पुत्रक
उत्पथं मन्यसे मार्गमनभिज्ञ इवाध्वगः
५.६३.३पञ्चानां पाण्डुपुत्राणां यत्तेजः प्रमिमीषसि
पञ्चानामिव भूतानां महतां सुमहात्मनाम्
५.६३.४युधिष्ठिरं हि कौन्तेयं परं धर्ममिहास्थितम्
परां गतिमसंप्रेक्ष्य न त्वं वेत्तुमिहार्हसि
५.६३.५भीमसेनं च कौन्तेयं यस्य नास्ति समो बले
रणान्तकं तर्कयसे महावातमिव द्रुमः
५.६३.६सर्वशस्त्रभृतां श्रेष्ठं मेरुं शिखरिणामिव
युधि गाण्डीवधन्वानं को नु युध्येत बुद्धिमान्
५.६३.७धृष्टद्युम्नश्च पाञ्चाल्यः कमिवाद्य न शातयेत्
शत्रुमध्ये शरान्मुञ्चन्देवराडशनीमिव
५.६३.८सात्यकिश्चापि दुर्धर्षः संमतोऽन्धकवृष्णिषु
ध्वंसयिष्यति ते सेनां पाण्डवेयहिते रतः
५.६३.९यः पुनः प्रतिमानेन त्रीँल्लोकानतिरिच्यते
तं कृष्णं पुण्डरीकाक्षं को नु युध्येत बुद्धिमान्
५.६३.१०एकतो ह्यस्य दाराश्च ज्ञातयश्च सबान्धवाः
आत्मा च पृथिवी चेयमेकतश्च धनंजयः
५.६३.११वासुदेवोऽपि दुर्धर्षो यतात्मा यत्र पाण्डवः
अविषह्यं पृथिव्यापि तद्बलं यत्र केशवः
५.६३.१२तिष्ठ तात सतां वाक्ये सुहृदामर्थवादिनाम्
वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम्
५.६३.१३मां च ब्रुवाणं शुश्रूष कुरूणामर्थवादिनम्
द्रोणं कृपं विकर्णं च महाराजं च बाह्लिकम्
५.६३.१४एते ह्यपि यथैवाहं मन्तुमर्हसि तांस्तथा
सर्वे धर्मविदो ह्येते तुल्यस्नेहाश्च भारत
५.६३.१५यत्तद्विराटनगरे सह भ्रातृभिरग्रतः
उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत
५.६३.१६यच्चैव तस्मिन्नगरे श्रूयते महदद्भुतम्
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम्
५.६३.१७अर्जुनस्तत्तथाकार्षीत्किं पुनः सर्व एव ते
सभ्रातॄनभिजानीहि वृत्त्या च प्रतिपादय