५.६५.१वैशंपायन उवाच
५.६५.२दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः
५.६५.३उत्थितेषु महाराज पृथिव्यां सर्वराजसु
रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे
५.६५.४आशंसमानो विजयं तेषां पुत्रवशानुगः
आत्मनश्च परेषां च पाण्डवानां च निश्चयम्
५.६५.५धृतराष्ट्र उवाच
५.६५.६गावल्गणे ब्रूहि नः सारफल्गु; स्वसेनायां यावदिहास्ति किंचित्
त्वं पाण्डवानां निपुणं वेत्थ सर्वं; किमेषां ज्यायः किमु तेषां कनीयः
५.६५.७त्वमेतयोः सारवित्सर्वदर्शी; धर्मार्थयोर्निपुणो निश्चयज्ञः
स मे पृष्टः संजय ब्रूहि सर्वं; युध्यमानाः कतरेऽस्मिन्न सन्ति
५.६५.८संजय उवाच
५.६५.९न त्वां ब्रूयां रहिते जातु किंचि;दसूया हि त्वां प्रसहेत राजन्
आनयस्व पितरं संशितव्रतं; गांधारीं च महिषीमाजमीढ
५.६५.१०तौ तेऽसूयां विनयेतां नरेन्द्र; धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ
तयोस्तु त्वां संनिधौ तद्वदेयं; कृत्स्नं मतं वासुदेवार्जुनाभ्याम्
५.६५.११वैशंपायन उवाच
५.६५.१२ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च
अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत्
५.६५.१३संपृच्छते धृतराष्ट्राय संजय; आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते
सर्वं यावद्वेत्थ तस्मिन्यथाव;द्याथातथ्यं वासुदेवेऽर्जुने च