५. उद्योगपर्व
५.७.१वैशंपायन उवाच

५.७.२गते द्वारवतीं कृष्णे बलदेवे च माधवे
सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा

५.७.३सर्वमागमयामास पाण्डवानां विचेष्टितम्
धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः

५.७.४स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः
बलेन नातिमहता द्वारकामभ्ययात्पुरीम्

५.७.५तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः
आनर्तनगरीं रम्यां जगामाशु धनंजयः

५.७.६तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ
सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः

५.७.७ततः शयाने गोविन्दे प्रविवेश सुयोधनः
उच्छीर्षतश्च कृष्णस्य निषसाद वरासने

५.७.८ततः किरीटी तस्यानु प्रविवेश महामनाः
पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः

५.७.९प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम्
स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च
तदागमनजं हेतुं पप्रच्छ मधुसूदनः

५.७.१०ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव
विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति

५.७.११समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च
तथा संबन्धकं तुल्यमस्माकं त्वयि माधव

५.७.१२अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन
पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः

५.७.१३त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन
सततं संमतश्चैव सद्वृत्तमनुपालय

५.७.१४कृष्ण उवाच

५.७.१५भवानभिगतः पूर्वमत्र मे नास्ति संशयः
दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः

५.७.१६तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात्
साहाय्यमुभयोरेव करिष्यामि सुयोधन

५.७.१७प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः
तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनंजयः

५.७.१८मत्संहननतुल्यानां गोपानामर्बुदं महत्
नारायणा इति ख्याताः सर्वे संग्रामयोधिनः

५.७.१९ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः
अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः

५.७.२०आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम्
तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः

५.७.२१वैशंपायन उवाच

५.७.२२एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः
अयुध्यमानं संग्रामे वरयामास केशवम्

५.७.२३सहस्राणां सहस्रं तु योधानां प्राप्य भारत
कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम्

५.७.२४दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः
ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम्

५.७.२५सर्वं चागमने हेतुं स तस्मै संन्यवेदयत्
प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः

५.७.२६विदितं ते नरव्याघ्र सर्वं भवितुमर्हति
यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा

५.७.२७निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन
मया संबन्धकं तुल्यमिति राजन्पुनः पुनः

५.७.२८न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत
न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम्

५.७.२९नाहं सहायः पार्थानां नापि दुर्योधनस्य वै
इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह

५.७.३०जातोऽसि भारते वंशे सर्वपार्थिवपूजिते
गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ

५.७.३१इत्येवमुक्तः स तदा परिष्वज्य हलायुधम्
कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम्

५.७.३२सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः
कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा

५.७.३३स तेन सर्वसैन्येन भीमेन कुरुनन्दनः
वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन्

५.७.३४गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत्
अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः

५.७.३५अर्जुन उवाच

५.७.३६भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः
निहन्तुमहमप्येकः समर्थः पुरुषोत्तम

५.७.३७भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति
यशसा चाहमप्यर्थी तस्मादसि मया वृतः

५.७.३८सारथ्यं तु त्वया कार्यमिति मे मानसं सदा
चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति

५.७.३९वासुदेव उवाच

५.७.४०उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह
सारथ्यं ते करिष्यामि कामः संपद्यतां तव

५.७.४१वैशंपायन उवाच

५.७.४२एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा
वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम्