५.७८.१नकुल उवाच
५.७८.२उक्तं बहुविधं वाक्यं धर्मराजेन माधव
धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः
५.७८.३मतमाज्ञाय राज्ञश्च भीमसेनेन माधव
संशमो बाहुवीर्यं च ख्यापितं माधवात्मनः
५.७८.४तथैव फल्गुनेनापि यदुक्तं तत्त्वया श्रुतम्
आत्मनश्च मतं वीर कथितं भवतासकृत्
५.७८.५सर्वमेतदतिक्रम्य श्रुत्वा परमतं भवान्
यत्प्राप्तकालं मन्येथास्तत्कुर्याः पुरुषोत्तम
५.७८.६तस्मिंस्तस्मिन्निमित्ते हि मतं भवति केशव
प्राप्तकालं मनुष्येण स्वयं कार्यमरिंदम
५.७८.७अन्यथा चिन्तितो ह्यर्थः पुनर्भवति सोऽन्यथा
अनित्यमतयो लोके नराः पुरुषसत्तम
५.७८.८अन्यथा बुद्धयो ह्यासन्नस्मासु वनवासिषु
अदृश्येष्वन्यथा कृष्ण दृश्येषु पुनरन्यथा
५.७८.९अस्माकमपि वार्ष्णेय वने विचरतां तदा
न तथा प्रणयो राज्ये यथा संप्रति वर्तते
५.७८.१०निवृत्तवनवासान्नः श्रुत्वा वीर समागताः
अक्षौहिण्यो हि सप्तेमास्त्वत्प्रसादाज्जनार्दन
५.७८.११इमान्हि पुरुषव्याघ्रानचिन्त्यबलपौरुषान्
आत्तशस्त्रान्रणे दृष्ट्वा न व्यथेदिह कः पुमान्
५.७८.१२स भवान्कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम्
ब्रूयाद्वाक्यं यथा मन्दो न व्यथेत सुयोधनः
५.७८.१३युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम्
सहदेवं च मां चैव त्वां च रामं च केशव
५.७८.१४सात्यकिं च महावीर्यं विराटं च सहात्मजम्
द्रुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम्
५.७८.१५काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम्
मांसशोणितभृन्मर्त्यः प्रतियुध्येत को युधि
५.७८.१६स भवान्गमनादेव साधयिष्यत्यसंशयम्
इष्टमर्थं महाबाहो धर्मराजस्य केवलम्
५.७८.१७विदुरश्चैव भीष्मश्च द्रोणश्च सहबाह्लिकः
श्रेयः समर्था विज्ञातुमुच्यमानं त्वयानघ
५.७८.१८ते चैनमनुनेष्यन्ति धृतराष्ट्रं जनाधिपम्
तं च पापसमाचारं सहामात्यं सुयोधनम्
५.७८.१९श्रोता चार्थस्य विदुरस्त्वं च वक्ता जनार्दन
कमिवार्थं विवर्तन्तं स्थापयेतां न वर्त्मनि