५.८५.१विदुर उवाच
५.८५.२राजन्बहुमतश्चासि त्रैलोक्यस्यापि सत्तमः
संभावितश्च लोकस्य संमतश्चासि भारत
५.८५.३यत्त्वमेवंगते ब्रूयाः पश्चिमे वयसि स्थितः
शास्त्राद्वा सुप्रतर्काद्वा सुस्थिरः स्थविरो ह्यसि
५.८५.४लेखाश्मनीव भाः सूर्ये महोर्मिरिव सागरे
धर्मस्त्वयि महान्राजन्निति व्यवसिताः प्रजाः
५.८५.५सदैव भावितो लोको गुणौघैस्तव पार्थिव
गुणानां रक्षणे नित्यं प्रयतस्व सबान्धवः
५.८५.६आर्जवं प्रतिपद्यस्व मा बाल्याद्बहुधा नशीः
राज्यं पुत्रांश्च पौत्रांश्च सुहृदश्चापि सुप्रियान्
५.८५.७यत्त्वं दित्ससि कृष्णाय राजन्नतिथये बहु
एतदन्यच्च दाशार्हः पृथिवीमपि चार्हति
५.८५.८न तु त्वं धर्ममुद्दिश्य तस्य वा प्रियकारणात्
एतदिच्छसि कृष्णाय सत्येनात्मानमालभे
५.८५.९मायैषातत्त्वमेवैतच्छद्मैतद्भूरिदक्षिण
जानामि ते मतं राजन्गूढं बाह्येन कर्मणा
५.८५.१०पञ्च पञ्चैव लिप्सन्ति ग्रामकान्पाण्डवा नृप
न च दित्ससि तेभ्यस्तांस्तच्छमं कः करिष्यति
५.८५.११अर्थेन तु महाबाहुं वार्ष्णेयं त्वं जिहीर्षसि
अनेनैवाभ्युपायेन पाण्डवेभ्यो बिभित्ससि
५.८५.१२न च वित्तेन शक्योऽसौ नोद्यमेन न गर्हया
अन्यो धनंजयात्कर्तुमेतत्तत्त्वं ब्रवीमि ते
५.८५.१३वेद कृष्णस्य माहात्म्यं वेदास्य दृढभक्तिताम्
अत्याज्यमस्य जानामि प्राणैस्तुल्यं धनंजयम्
५.८५.१४अन्यत्कुम्भादपां पूर्णादन्यत्पादावसेचनात्
अन्यत्कुशलसंप्रश्नान्नैषिष्यति जनार्दनः
५.८५.१५यत्त्वस्य प्रियमातिथ्यं मानार्हस्य महात्मनः
तदस्मै क्रियतां राजन्मानार्हो हि जनार्दनः
५.८५.१६आशंसमानः कल्याणं कुरूनभ्येति केशवः
येनैव राजन्नर्थेन तदेवास्मा उपाकुरु
५.८५.१७शममिच्छति दाशार्हस्तव दुर्योधनस्य च
पाण्डवानां च राजेन्द्र तदस्य वचनं कुरु
५.८५.१८पितासि राजन्पुत्रास्ते वृद्धस्त्वं शिशवः परे
वर्तस्व पितृवत्तेषु वर्तन्ते ते हि पुत्रवत्