५.८६.१दुर्योधन उवाच
५.८६.२यदाह विदुरः कृष्णे सर्वं तत्सत्यमुच्यते
अनुरक्तो ह्यसंहार्यः पार्थान्प्रति जनार्दनः
५.८६.३यत्तु सत्कारसंयुक्तं देयं वसु जनार्दने
अनेकरूपं राजेन्द्र न तद्देयं कदाचन
५.८६.४देशः कालस्तथायुक्तो न हि नार्हति केशवः
मंस्यत्यधोक्षजो राजन्भयादर्चति मामिति
५.८६.५अवमानश्च यत्र स्यात्क्षत्रियस्य विशां पते
न तत्कुर्याद्बुधः कार्यमिति मे निश्चिता मतिः
५.८६.६स हि पूज्यतमो देवः कृष्णः कमललोचनः
त्रयाणामपि लोकानां विदितं मम सर्वथा
५.८६.७न तु तस्मिन्प्रदेयं स्यात्तथा कार्यगतिः प्रभो
विग्रहः समुपारब्धो न हि शाम्यत्यविग्रहात्
५.८६.८वैशंपायन उवाच
५.८६.९तस्य तद्वचनं श्रुत्वा भीष्मः कुरुपितामहः
वैचित्रवीर्यं राजानमिदं वचनमब्रवीत्
५.८६.१०सत्कृतोऽसत्कृतो वापि न क्रुध्येत जनार्दनः
नालमन्यमवज्ञातुमवज्ञातोऽपि केशवः
५.८६.११यत्तु कार्यं महाबाहो मनसा कार्यतां गतम्
सर्वोपायैर्न तच्छक्यं केनचित्कर्तुमन्यथा
५.८६.१२स यद्ब्रूयान्महाबाहुस्तत्कार्यमविशङ्कया
वासुदेवेन तीर्थेन क्षिप्रं संशाम्य पाण्डवैः
५.८६.१३धर्म्यमर्थ्यं स धर्मात्मा ध्रुवं वक्ता जनार्दनः
तस्मिन्वाच्याः प्रिया वाचो भवता बान्धवैः सह
५.८६.१४दुर्योधन उवाच
५.८६.१५न पर्यायोऽस्ति यद्राजञ्श्रियं निष्केवलामहम्
तैः सहेमामुपाश्नीयां जीवञ्जीवैः पितामह
५.८६.१६इदं तु सुमहत्कार्यं शृणु मे यत्समर्थितम्
परायणं पाण्डवानां नियंस्यामि जनार्दनम्
५.८६.१७तस्मिन्बद्धे भविष्यन्ति वृष्णयः पृथिवी तथा
पाण्डवाश्च विधेया मे स च प्रातरिहेष्यति
५.८६.१८अत्रोपायं यथा सम्यङ्न बुध्येत जनार्दनः
न चापायो भवेत्कश्चित्तद्भवान्प्रब्रवीतु मे
५.८६.१९वैशंपायन उवाच
५.८६.२०तस्य तद्वचनं श्रुत्वा घोरं कृष्णाभिसंहितम्
धृतराष्ट्रः सहामात्यो व्यथितो विमनाभवत्
५.८६.२१ततो दुर्योधनमिदं धृतराष्ट्रोऽब्रवीद्वचः
मैवं वोचः प्रजापाल नैष धर्मः सनातनः
५.८६.२२दूतश्च हि हृषीकेशः संबन्धी च प्रियश्च नः
अपापः कौरवेयेषु कथं बन्धनमर्हति
५.८६.२३भीष्म उवाच
५.८६.२४परीतो धृतराष्ट्रायं तव पुत्रः सुमन्दधीः
वृणोत्यनर्थं न त्वर्थं याच्यमानः सुहृद्गणैः
५.८६.२५इममुत्पथि वर्तन्तं पापं पापानुबन्धिनम्
वाक्यानि सुहृदां हित्वा त्वमप्यस्यानुवर्तसे
५.८६.२६कृष्णमक्लिष्टकर्माणमासाद्यायं सुदुर्मतिः
तव पुत्रः सहामात्यः क्षणेन न भविष्यति
५.८६.२७पापस्यास्य नृशंसस्य त्यक्तधर्मस्य दुर्मतेः
नोत्सहेऽनर्थसंयुक्तां वाचं श्रोतुं कथंचन
५.८६.२८वैशंपायन उवाच
५.८६.२९इत्युक्त्वा भरतश्रेष्ठो वृद्धः परममन्युमान्
उत्थाय तस्मात्प्रातिष्ठद्भीष्मः सत्यपराक्रमः