५. उद्योगपर्व
५.८७.१वैशंपायन उवाच

५.८७.२प्रातरुत्थाय कृष्णस्तु कृतवान्सर्वमाह्निकम्
ब्राह्मणैरभ्यनुज्ञातः प्रययौ नगरं प्रति

५.८७.३तं प्रयान्तं महाबाहुमनुज्ञाप्य ततो नृप
पर्यवर्तन्त ते सर्वे वृकस्थलनिवासिनः

५.८७.४धार्तराष्ट्रास्तमायान्तं प्रत्युज्जग्मुः स्वलंकृताः
दुर्योधनमृते सर्वे भीष्मद्रोणकृपादयः

५.८७.५पौराश्च बहुला राजन्हृषीकेशं दिदृक्षवः
यानैर्बहुविधैरन्ये पद्भिरेव तथापरे

५.८७.६स वै पथि समागम्य भीष्मेणाक्लिष्टकर्मणा
द्रोणेन धार्तराष्ट्रैश्च तैर्वृतो नगरं ययौ

५.८७.७कृष्णसंमाननार्थं च नगरं समलंकृतम्
बभूवू राजमार्गाश्च बहुरत्नसमाचिताः

५.८७.८न स्म कश्चिद्गृहे राजंस्तदासीद्भरतर्षभ
न स्त्री न वृद्धो न शिशुर्वासुदेवदिदृक्षया

५.८७.९राजमार्गे नरा न स्म संभवन्त्यवनिं गताः
तथा हि सुमहद्राजन्हृषीकेशप्रवेशने

५.८७.१०आवृतानि वरस्त्रीभिर्गृहाणि सुमहान्त्यपि
प्रचलन्तीव भारेण दृश्यन्ते स्म महीतले

५.८७.११तथा च गतिमन्तस्ते वासुदेवस्य वाजिनः
प्रनष्टगतयोऽभूवन्राजमार्गे नरैर्वृते

५.८७.१२स गृहं धृतराष्ट्रस्य प्राविशच्छत्रुकर्शनः
पाण्डुरं पुण्डरीकाक्षः प्रासादैरुपशोभितम्

५.८७.१३तिस्रः कक्ष्या व्यतिक्रम्य केशवो राजवेश्मनः
वैचित्रवीर्यं राजानमभ्यगच्छदरिंदमः

५.८७.१४अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्नरेश्वरः
सहैव द्रोणभीष्माभ्यामुदतिष्ठन्महायशाः

५.८७.१५कृपश्च सोमदत्तश्च महाराजश्च बाह्लिकः
आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम्

५.८७.१६ततो राजानमासाद्य धृतराष्ट्रं यशस्विनम्
स भीष्मं पूजयामास वार्ष्णेयो वाग्भिरञ्जसा

५.८७.१७तेषु धर्मानुपूर्वीं तां प्रयुज्य मधुसूदनः
यथावयः समीयाय राजभिस्तत्र माधवः

५.८७.१८अथ द्रोणं सपुत्रं स बाह्लीकं च यशस्विनम्
कृपं च सोमदत्तं च समीयाय जनार्दनः

५.८७.१९तत्रासीदूर्जितं मृष्टं काञ्चनं महदासनम्
शासनाद्धृतराष्ट्रस्य तत्रोपाविशदच्युतः

५.८७.२०अथ गां मधुपर्कं चाप्युदकं च जनार्दने
उपजह्रुर्यथान्यायं धृतराष्ट्रपुरोहिताः

५.८७.२१कृतातिथ्यस्तु गोविन्दः सर्वान्परिहसन्कुरून्
आस्ते संबन्धकं कुर्वन्कुरुभिः परिवारितः

५.८७.२२सोऽर्चितो धृतराष्ट्रेण पूजितश्च महायशाः
राजानं समनुज्ञाप्य निराक्रामदरिंदमः

५.८७.२३तैः समेत्य यथान्यायं कुरुभिः कुरुसंसदि
विदुरावसथं रम्यमुपातिष्ठत माधवः

५.८७.२४विदुरः सर्वकल्याणैरभिगम्य जनार्दनम्
अर्चयामास दाशार्हं सर्वकामैरुपस्थितम्

५.८७.२५कृतातिथ्यं तु गोविन्दं विदुरः सर्वधर्मवित्
कुशलं पाण्डुपुत्राणामपृच्छन्मधुसूदनम्

५.८७.२६प्रीयमाणस्य सुहृदो विदुषो बुद्धिसत्तमः
धर्मनित्यस्य च तदा गतदोषस्य धीमतः

५.८७.२७तस्य सर्वं सविस्तारं पाण्डवानां विचेष्टितम्
क्षत्तुराचष्ट दाशार्हः सर्वप्रत्यक्षदर्शिवान्