५.९४.१वैशंपायन उवाच
५.९४.२तस्मिन्नभिहिते वाक्ये केशवेन महात्मना
स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः
५.९४.३कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान्
इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः
५.९४.४तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु
जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि
५.९४.५इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः
तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे
५.९४.६राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत्
अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम्
५.९४.७स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान्
ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः
५.९४.८अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि
शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत्
५.९४.९इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम्
दर्पेण महता मत्तः कंचिदन्यमचिन्तयन्
५.९४.१०तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः
प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः
५.९४.११प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान्
अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा
५.९४.१२तपस्विनो महात्मानो वेदव्रतसमन्विताः
उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः
५.९४.१३अनेकजननं सख्यं ययोः पुरुषसिंहयोः
तयोस्त्वं न समो राजन्भवितासि कदाचन
५.९४.१४एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान्
क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ
५.९४.१५ब्राह्मणा ऊचुः
५.९४.१६नरो नारायणश्चैव तापसाविति नः श्रुतम्
आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव
५.९४.१७श्रूयते तौ महात्मानौ नरनारायणावुभौ
तपो घोरमनिर्देश्यं तप्येते गन्धमादने
५.९४.१८राम उवाच
५.९४.१९स राजा महतीं सेनां योजयित्वा षडङ्गिनीम्
अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ
५.९४.२०स गत्वा विषमं घोरं पर्वतं गन्धमादनम्
मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ
५.९४.२१तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ
शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ
अभिगम्योपसंगृह्य पर्यपृच्छदनामयम्
५.९४.२२तमर्चित्वा मूलफलैरासनेनोदकेन च
न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति
५.९४.२३दम्भोद्भव उवाच
५.९४.२४बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः
भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम्
आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति
५.९४.२५नरनारायणावूचतुः
५.९४.२६अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम
न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः
अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ
५.९४.२७राम उवाच
५.९४.२८उच्यमानस्तथापि स्म भूय एवाभ्यभाषत
पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत
दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ
५.९४.२९ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव
अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय
५.९४.३०सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम्
अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम्
५.९४.३१दम्भोद्भव उवाच
५.९४.३२यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे
एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः
५.९४.३३राम उवाच
५.९४.३४इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत्
दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः
५.९४.३५तस्य तानस्यतो घोरानिषून्परतनुच्छिदः
कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत्
५.९४.३६ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः
अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत्
५.९४.३७तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया
निमित्तवेधी स मुनिरिषीकाभिः समर्पयत्
५.९४.३८स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम्
पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत्
५.९४.३९तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम्
ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः
५.९४.४०मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन
अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम्
५.९४.४१कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान्
दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव
५.९४.४२अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः
कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम्
५.९४.४३ततो राजा तयोः पादावभिवाद्य महात्मनोः
प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम्
५.९४.४४सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा
ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत्
५.९४.४५तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते
तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम्
५.९४.४६काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा
संतानं नर्तनं घोरमास्यमोदकमष्टमम्
५.९४.४७एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः
उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः
५.९४.४८स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः
मूत्रयन्ते च सततं रुदन्ति च हसन्ति च
५.९४.४९असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः
त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम्
५.९४.५०नरनारायणौ यौ तौ तावेवार्जुनकेशवौ
विजानीहि महाराज प्रवीरौ पुरुषर्षभौ
५.९४.५१यद्येतदेवं जानासि न च मामतिशङ्कसे
आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः
५.९४.५२अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति
प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः
५.९४.५३भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि
तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय