६. भीष्मपर्व
६.१११.१धृतराष्ट्र उवाच

६.१११.२कथं शांतनवो भीष्मो दशमेऽहनि संजय
अयुध्यत महावीर्यैः पाण्डवैः सहसृञ्जयैः

६.१११.३कुरवश्च कथं युद्धे पाण्डवान्प्रत्यवारयन्
आचक्ष्व मे महायुद्धं भीष्मस्याहवशोभिनः

६.१११.४संजय उवाच

६.१११.५कुरवः पाण्डवैः सार्धं यथायुध्यन्त भारत
यथा च तदभूद्युद्धं तत्ते वक्ष्यामि शृण्वतः

६.१११.६प्रेषिताः परलोकाय परमास्त्रैः किरीटिना
अहन्यहनि संप्राप्तास्तावकानां रथव्रजाः

६.१११.७यथाप्रतिज्ञं कौरव्यः स चापि समितिंजयः
पार्थानामकरोद्भीष्मः सततं समितिक्षयम्

६.१११.८कुरुभिः सहितं भीष्मं युध्यमानं महारथम्
अर्जुनं च सपाञ्चाल्यं दृष्ट्वा संशयिता जनाः

६.१११.९दशमेऽहनि तस्मिंस्तु भीष्मार्जुनसमागमे
अवर्तत महारौद्रः सततं समितिक्षयः

६.१११.१०तस्मिन्नयुतशो राजन्भूयश्च स परंतपः
भीष्मः शांतनवो योधाञ्जघान परमास्त्रवित्

६.१११.११येषामज्ञातकल्पानि नामगोत्राणि पार्थिव
ते हतास्तत्र भीष्मेण शूराः सर्वेऽनिवर्तिनः

६.१११.१२दशाहानि ततस्तप्त्वा भीष्मः पाण्डववाहिनीम्
निरविद्यत धर्मात्मा जीवितेन परंतपः

६.१११.१३स क्षिप्रं वधमन्विच्छन्नात्मनोऽभिमुखं रणे
न हन्यां मानवश्रेष्ठान्संग्रामेऽभिमुखानिति

६.१११.१४चिन्तयित्वा महाबाहुः पिता देवव्रतस्तव
अभ्याशस्थं महाराज पाण्डवं वाक्यमब्रवीत्

६.१११.१५युधिष्ठिर महाप्राज्ञ सर्वशास्त्रविशारद
शृणु मे वचनं तात धर्म्यं स्वर्ग्यं च जल्पतः

६.१११.१६निर्विण्णोऽस्मि भृशं तात देहेनानेन भारत
घ्नतश्च मे गतः कालः सुबहून्प्राणिनो रणे

६.१११.१७तस्मात्पार्थं पुरोधाय पाञ्चालान्सृञ्जयांस्तथा
मद्वधे क्रियतां यत्नो मम चेदिच्छसि प्रियम्

६.१११.१८तस्य तन्मतमाज्ञाय पाण्डवः सत्यदर्शनः
भीष्मं प्रतिययौ यत्तः संग्रामे सह सृञ्जयैः

६.१११.१९धृष्टद्युम्नस्ततो राजन्पाण्डवश्च युधिष्ठिरः
श्रुत्वा भीष्मस्य तां वाचं चोदयामासतुर्बलम्

६.१११.२०अभिद्रवत युध्यध्वं भीष्मं जयत संयुगे
रक्षिताः सत्यसंधेन जिष्णुना रिपुजिष्णुना

६.१११.२१अयं चापि महेष्वासः पार्षतो वाहिनीपतिः
भीमसेनश्च समरे पालयिष्यति वो ध्रुवम्

६.१११.२२न वै भीष्माद्भयं किंचित्कर्तव्यं युधि सृञ्जयाः
ध्रुवं भीष्मं विजेष्यामः पुरस्कृत्य शिखण्डिनम्

६.१११.२३तथा तु समयं कृत्वा दशमेऽहनि पाण्डवाः
ब्रह्मलोकपरा भूत्वा संजग्मुः क्रोधमूर्छिताः

६.१११.२४शिखण्डिनं पुरस्कृत्य पाण्डवं च धनंजयम्
भीष्मस्य पातने यत्नं परमं ते समास्थिताः

६.१११.२५ततस्तव सुतादिष्टा नानाजनपदेश्वराः
द्रोणेन सहपुत्रेण सहसेना महाबलाः

६.१११.२६दुःशासनश्च बलवान्सह सर्वैः सहोदरैः
भीष्मं समरमध्यस्थं पालयां चक्रिरे तदा

६.१११.२७ततस्तु तावकाः शूराः पुरस्कृत्य यतव्रतम्
शिखण्डिप्रमुखान्पार्थान्योधयन्ति स्म संयुगे

६.१११.२८चेदिभिश्च सपाञ्चालैः सहितो वानरध्वजः
ययौ शांतनवं भीष्मं पुरस्कृत्य शिखण्डिनम्

६.१११.२९द्रोणपुत्रं शिनेर्नप्ता धृष्टकेतुस्तु पौरवम्
युधामन्युः सहामात्यं दुर्योधनमयोधयत्

६.१११.३०विराटस्तु सहानीकः सहसेनं जयद्रथम्
वृद्धक्षत्रस्य दायादमाससाद परंतपः

६.१११.३१मद्रराजं महेष्वासं सहसैन्यं युधिष्ठिरः
भीमसेनाभिगुप्तश्च नागानीकमुपाद्रवत्

६.१११.३२अप्रधृष्यमनावार्यं सर्वशस्त्रभृतां वरम्
द्रोणं प्रति ययौ यत्तः पाञ्चाल्यः सह सोमकैः

६.१११.३३कर्णिकारध्वजं चापि सिंहकेतुररिंदमः
प्रत्युज्जगाम सौभद्रं राजपुत्रो बृहद्बलः

६.१११.३४शिखण्डिनं च पुत्रास्ते पाण्डवं च धनंजयम्
राजभिः समरे सार्धमभिपेतुर्जिघांसवः

६.१११.३५तस्मिन्नतिमहाभीमे सेनयोर्वै पराक्रमे
संप्रधावत्स्वनीकेषु मेदिनी समकम्पत

६.१११.३६तान्यनीकान्यनीकेषु समसज्जन्त भारत
तावकानां परेषां च दृष्ट्वा शांतनवं रणे

६.१११.३७ततस्तेषां प्रयततामन्योन्यमभिधावताम्
प्रादुरासीन्महाञ्शब्दो दिक्षु सर्वासु भारत

६.१११.३८शङ्खदुन्दुभिघोषैश्च वारणानां च बृंहितैः
सिंहनादैश्च सैन्यानां दारुणः समपद्यत

६.१११.३९सा च सर्वनरेन्द्राणां चन्द्रार्कसदृशी प्रभा
वीराङ्गदकिरीटेषु निष्प्रभा समपद्यत

६.१११.४०रजोमेघाश्च संजज्ञुः शस्त्रविद्युद्भिरावृताः
धनुषां चैव निर्घोषो दारुणः समपद्यत

६.१११.४१बाणशङ्खप्रणादाश्च भेरीणां च महास्वनाः
रथघोषश्च संजग्मुः सेनयोरुभयोरपि

६.१११.४२प्रासशक्त्यृष्टिसंघैश्च बाणौघैश्च समाकुलम्
निष्प्रकाशमिवाकाशं सेनयोः समपद्यत

६.१११.४३अन्योन्यं रथिनः पेतुर्वाजिनश्च महाहवे
कुञ्जराः कुञ्जराञ्जघ्नुः पदातींश्च पदातयः

६.१११.४४तदासीत्सुमहद्युद्धं कुरूणां पाण्डवैः सह
भीष्महेतोर्नरव्याघ्र श्येनयोरामिषे यथा

६.१११.४५तयोः समागमो घोरो बभूव युधि भारत
अन्योन्यस्य वधार्थाय जिगीषूणां रणाजिरे