६. भीष्मपर्व
६.११७.१संजय उवाच

६.११७.२ततस्ते पार्थिवाः सर्वे जग्मुः स्वानालयान्पुनः
तूष्णींभूते महाराज भीष्मे शंतनुनन्दने

६.११७.३श्रुत्वा तु निहतं भीष्मं राधेयः पुरुषर्षभः
ईषदागतसंत्रासः त्वरयोपजगाम ह

६.११७.४स ददर्श महात्मानं शरतल्पगतं तदा
जन्मशय्यागतं देवं कार्त्तिकेयमिव प्रभुम्

६.११७.५निमीलिताक्षं तं वीरं साश्रुकण्ठस्तदा वृषः
अभ्येत्य पादयोस्तस्य निपपात महाद्युतिः

६.११७.६राधेयोऽहं कुरुश्रेष्ठ नित्यं चाक्षिगतस्तव
द्वेष्योऽत्यन्तमनागाः सन्निति चैनमुवाच ह

६.११७.७तच्छ्रुत्वा कुरुवृद्धः स बलात्संवृत्तलोचनः
शनैरुद्वीक्ष्य सस्नेहमिदं वचनमब्रवीत्

६.११७.८रहितं धिष्ण्यमालोक्य समुत्सार्य च रक्षिणः
पितेव पुत्रं गाङ्गेयः परिष्वज्यैकबाहुना

६.११७.९एह्येहि मे विप्रतीप स्पर्धसे त्वं मया सह
यदि मां नाभिगच्छेथा न ते श्रेयो भवेद्ध्रुवम्

६.११७.१०कौन्तेयस्त्वं न राधेयो विदितो नारदान्मम
कृष्णद्वैपायनाच्चैव केशवाच्च न संशयः

६.११७.११न च द्वेषोऽस्ति मे तात त्वयि सत्यं ब्रवीमि ते
तेजोवधनिमित्तं तु परुषाण्यहमुक्तवान्

६.११७.१२अकस्मात्पाण्डवान्हि त्वं द्विषसीति मतिर्मम
येनासि बहुशो रूक्षं चोदितः सूर्यनन्दन

६.११७.१३जानामि समरे वीर्यं शत्रुभिर्दुःसहं तव
ब्रह्मण्यतां च शौर्यं च दाने च परमां गतिम्

६.११७.१४न त्वया सदृशः कश्चित्पुरुषेष्वमरोपम
कुलभेदं च मत्वाहं सदा परुषमुक्तवान्

६.११७.१५इष्वस्त्रे भारसंधाने लाघवेऽस्त्रबले तथा
सदृशः फल्गुनेनासि कृष्णेन च महात्मना

६.११७.१६कर्ण राजपुरं गत्वा त्वयैकेन धनुष्मता
तस्यार्थे कुरुराजस्य राजानो मृदिता युधि

६.११७.१७तथा च बलवान्राजा जरासंधो दुरासदः
समरे समरश्लाघी त्वया न सदृशोऽभवत्

६.११७.१८ब्रह्मण्यः सत्यवादी च तेजसार्क इवापरः
देवगर्भोऽजितः संख्ये मनुष्यैरधिको भुवि

६.११७.१९व्यपनीतोऽद्य मन्युर्मे यस्त्वां प्रति पुरा कृतः
दैवं पुरुषकारेण न शक्यमतिवर्तितुम्

६.११७.२०सोदर्याः पाण्डवा वीरा भ्रातरस्तेऽरिसूदन
संगच्छ तैर्महाबाहो मम चेदिच्छसि प्रियम्

६.११७.२१मया भवतु निर्वृत्तं वैरमादित्यनन्दन
पृथिव्यां सर्वराजानो भवन्त्वद्य निरामयाः

६.११७.२२कर्ण उवाच

६.११७.२३जानाम्यहं महाप्राज्ञ सर्वमेतन्न संशयः
यथा वदसि दुर्धर्ष कौन्तेयोऽहं न सूतजः

६.११७.२४अवकीर्णस्त्वहं कुन्त्या सूतेन च विवर्धितः
भुक्त्वा दुर्योधनैश्वर्यं न मिथ्या कर्तुमुत्सहे

६.११७.२५वसु चैव शरीरं च यदुदारं तथा यशः
सर्वं दुर्योधनस्यार्थे त्यक्तं मे भूरिदक्षिण
कोपिताः पाण्डवा नित्यं मयाश्रित्य सुयोधनम्

६.११७.२६अवश्यभावी वै योऽर्थो न स शक्यो निवर्तितुम्
दैवं पुरुषकारेण को निवर्तितुमुत्सहेत्

६.११७.२७पृथिवीक्षयशंसीनि निमित्तानि पितामह
भवद्भिरुपलब्धानि कथितानि च संसदि

६.११७.२८पाण्डवा वासुदेवश्च विदिता मम सर्वशः
अजेयाः पुरुषैरन्यैरिति तांश्चोत्सहामहे

६.११७.२९अनुजानीष्व मां तात युद्धे प्रीतमनाः सदा
अनुज्ञातस्त्वया वीर युध्येयमिति मे मतिः

६.११७.३०दुरुक्तं विप्रतीपं वा संरम्भाच्चापलात्तथा
यन्मयापकृतं किंचित्तदनुक्षन्तुमर्हसि

६.११७.३१भीष्म उवाच

६.११७.३२न चेच्छक्यमथोत्स्रष्टुं वैरमेतत्सुदारुणम्
अनुजानामि कर्ण त्वां युध्यस्व स्वर्गकाम्यया

६.११७.३३विमन्युर्गतसंरम्भः कुरु कर्म नृपस्य हि
यथाशक्ति यथोत्साहं सतां वृत्तेषु वृत्तवान्

६.११७.३४अहं त्वामनुजानामि यदिच्छसि तदाप्नुहि
क्षत्रधर्मजिताँल्लोकान्संप्राप्स्यसि न संशयः

६.११७.३५युध्यस्व निरहंकारो बलवीर्यव्यपाश्रयः
धर्मो हि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते

६.११७.३६प्रशमे हि कृतो यत्नः सुचिरात्सुचिरं मया
न चैव शकितः कर्तुं यतो धर्मस्ततो जयः

६.११७.३७संजय उवाच

६.११७.३८एवं ब्रुवन्तं गाङ्गेयमभिवाद्य प्रसाद्य च
राधेयो रथमारुह्य प्रायात्तव सुतं प्रति