६.१५.१धृतराष्ट्र उवाच
६.१५.२कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना
कथं रथात्स न्यपतत्पिता मे वासवोपमः
६.१५.३कथमासंश्च मे पुत्रा हीना भीष्मेण संजय
बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा
६.१५.४तस्मिन्हते महासत्त्वे महेष्वासे महाबले
महारथे नरव्याघ्रे किमु आसीन्मनस्तदा
६.१५.५आर्तिः परा माविशति यतः शंससि मे हतम्
कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम्
६.१५.६के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः
केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय
६.१५.७के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम्
रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः
६.१५.८यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा
सहस्ररश्मिप्रतिमः परेषां भयमादधत्
अकरोद्दुष्करं कर्म रणे कौरवशासनात्
६.१५.९ग्रसमानमनीकानि य एनं पर्यवारयन्
कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके
कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन्
६.१५.१०निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम्
चापव्यात्ताननं घोरमसिजिह्वं दुरासदम्
६.१५.११अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम्
पातयामास कौन्तेयः कथं तमजितं युधि
६.१५.१२उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे
परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः
६.१५.१३पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे
कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः
६.१५.१४परिकृष्य स सेनां मे दशरात्रमनीकहा
जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम्
६.१५.१५यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन्
जघान युधि योधानामर्बुदं दशभिर्दिनैः
६.१५.१६स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः
मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः
६.१५.१७कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी
प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम्
६.१५.१८कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः
कथं च नाजयद्भीष्मो द्रोणे जीवति संजय
६.१५.१९कृपे संनिहिते तत्र भरद्वाजात्मजे तथा
भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः
६.१५.२०कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना
भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः
६.१५.२१यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम्
अजितं जामदग्न्येन शक्रतुल्यपराक्रमम्
६.१५.२२तं हतं समरे भीष्मं महारथबलोचितम्
संजयाचक्ष्व मे वीरं येन शर्म न विद्महे
६.१५.२३मामकाः के महेष्वासा नाजहुः संजयाच्युतम्
दुर्योधनसमादिष्टाः के वीराः पर्यवारयन्
६.१५.२४यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः
कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम्
६.१५.२५मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान्
धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः
६.१५.२६यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान्
निघ्नन्पररथान्वीरो दानवानिव वज्रभृत्
६.१५.२७इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम्
कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम्
गदासिमकरावर्तं हयग्राहं गजाकुलम्
६.१५.२८हयान्गजान्पदातांश्च रथांश्च तरसा बहून्
निमज्जयन्तं समरे परवीरापहारिणम्
६.१५.२९विदह्यमानं कोपेन तेजसा च परंतपम्
वेलेव मकरावासं के वीराः पर्यवारयन्
६.१५.३०भीष्मो यदकरोत्कर्म समरे संजयारिहा
दुर्योधनहितार्थाय के तदास्य पुरोऽभवन्
६.१५.३१केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः
पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः
६.१५.३२के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके
केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः
६.१५.३३वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान्
समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम्
६.१५.३४पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम्
समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय
६.१५.३५रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते
दुर्जयानामनीकानि नाजयंस्तरसा युधि
६.१५.३६सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः
कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः
६.१५.३७यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः
तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय
६.१५.३८यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः
न पाण्डवानगणयत्कथं स निहतः परैः
६.१५.३९यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः
काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः
६.१५.४०यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे
शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि
६.१५.४१प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम्
वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम्
६.१५.४२सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम्
हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम्
६.१५.४३धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः
यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः
६.१५.४४जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः
अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः
६.१५.४५तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम्
हतं शंससि भीष्मं मे किं नु दुःखमतः परम्
६.१५.४६असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः
जामदग्न्यस्तथा रामः परवीरनिघातिना
६.१५.४७तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात्
तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः
६.१५.४८यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम्
परमास्त्रविदं वीरं जघान भरतर्षभम्
६.१५.४९के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि
शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः
६.१५.५०योषेव हतवीरा मे सेना पुत्रस्य संजय
अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम
६.१५.५१पौरुषं सर्वलोकस्य परं यस्य महाहवे
परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा
६.१५.५२जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु संजय
घातयित्वा महावीर्यं पितरं लोकधार्मिकम्
६.१५.५३अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः
भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः
६.१५.५४अद्रिसारमयं नूनं सुदृढं हृदयं मम
यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते
६.१५.५५यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे
अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि
६.१५.५६न चास्त्रेण न शौर्येण तपसा मेधया न च
न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते
६.१५.५७कालो नूनं महावीर्यः सर्वलोकदुरत्ययः
यत्र शांतनवं भीष्मं हतं शंससि संजय
६.१५.५८पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन्
आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात्
६.१५.५९यदादित्यमिवापश्यत्पतितं भुवि संजय
दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत
६.१५.६०नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन्
शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम्
६.१५.६१दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः
यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः
६.१५.६२वयं वा राज्यमिच्छामो घातयित्वा पितामहम्
क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः
६.१५.६३एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय
पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम्
६.१५.६४अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम्
कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन्
६.१५.६५कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः
कथं वा निहतो भीष्मः पिता संजय मे परैः
६.१५.६६दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः
दुःशासनश्च कितवो हते भीष्मे किमब्रुवन्
६.१५.६७यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम्
शरशक्तिगदाखड्गतोमराक्षां भयावहाम्
६.१५.६८प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम्
प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः
६.१५.६९केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः
अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय
६.१५.७०न हि मे शान्तिरस्तीह युधि देवव्रतं हतम्
पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत्
६.१५.७१आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम्
त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय
६.१५.७२महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम्
दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः
६.१५.७३श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम्
तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय
६.१५.७४संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम्
अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय
६.१५.७५यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता
तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः
६.१५.७६यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः
क्रमेण येन यस्मिंश्च काले यच्च यथा च तत्