६. भीष्मपर्व
६.५६.१संजय उवाच

६.५६.२व्युष्टां निशां भारत भारताना;मनीकिनीनां प्रमुखे महात्मा
ययौ सपत्नान्प्रति जातकोपो; वृतः समग्रेण बलेन भीष्मः

६.५६.३तं द्रोणदुर्योधनबाह्लिकाश्च; तथैव दुर्मर्षणचित्रसेनौ
जयद्रथश्चातिबलो बलौघै;र्नृपास्तथान्येऽनुययुः समन्तात्

६.५६.४स तैर्महद्भिश्च महारथैश्च; तेजस्विभिर्वीर्यवद्भिश्च राजन्
रराज राजोत्तम राजमुख्यै;र्वृतः स देवैरिव वज्रपाणिः

६.५६.५तस्मिन्ननीकप्रमुखे विषक्ता; दोधूयमानाश्च महापताकाः
सुरक्तपीतासितपाण्डुराभा; महागजस्कन्धगता विरेजुः

६.५६.६सा वाहिनी शांतनवेन राज्ञा; महारथैर्वारणवाजिभिश्च
बभौ सविद्युत्स्तनयित्नुकल्पा; जलागमे द्यौरिव जातमेघा

६.५६.७ततो रणायाभिमुखी प्रयाता; प्रत्यर्जुनं शांतनवाभिगुप्ता
सेना महोग्रा सहसा कुरूणां; वेगो यथा भीम इवापगायाः

६.५६.८तं व्यालनानाविधगूढसारं; गजाश्वपादातरथौघपक्षम्
व्यूहं महामेघसमं महात्मा; ददर्श दूरात्कपिराजकेतुः

६.५६.९स निर्ययौ केतुमता रथेन; नरर्षभः श्वेतहयेन वीरः
वरूथिना सैन्यमुखे महात्मा; वधे धृतः सर्वसपत्नयूनाम्

६.५६.१०सूपस्करं सोत्तरबन्धुरेषं; यत्तं यदूनामृषभेण संख्ये
कपिध्वजं प्रेक्ष्य विषेदुराजौ; सहैव पुत्रैस्तव कौरवेयाः

६.५६.११प्रकर्षता गुप्तमुदायुधेन; किरीटिना लोकमहारथेन
तं व्यूहराजं ददृशुस्त्वदीया;श्चतुश्चतुर्व्यालसहस्रकीर्णम्

६.५६.१२यथा हि पूर्वेऽहनि धर्मराज्ञा; व्यूहः कृतः कौरवनन्दनेन
तथा तथोद्देशमुपेत्य तस्थुः; पाञ्चालमुख्यैः सह चेदिमुख्याः

६.५६.१३ततो महावेगसमाहतानि; भेरीसहस्राणि विनेदुराजौ
शङ्खस्वना दुन्दुभिनिस्वनाश्च; सर्वेष्वनीकेषु ससिंहनादाः

६.५६.१४ततः सबाणानि महास्वनानि; विस्फार्यमाणानि धनूंषि वीरैः
क्षणेन भेरीपणवप्रणादा;नन्तर्दधुः शङ्खमहास्वनाश्च

६.५६.१५तच्छङ्खशब्दावृतमन्तरिक्ष;मुद्धूतभौमद्रुतरेणुजालम्
महावितानावततप्रकाश;मालोक्य वीराः सहसाभिपेतुः

६.५६.१६रथी रथेनाभिहतः ससूतः; पपात साश्वः सरथः सकेतुः
गजो गजेनाभिहतः पपात; पदातिना चाभिहतः पदातिः

६.५६.१७आवर्तमानान्यभिवर्तमानै;र्बाणैः क्षतान्यद्भुतदर्शनानि
प्रासैश्च खड्गैश्च समाहतानि; सदश्ववृन्दानि सदश्ववृन्दैः

६.५६.१८सुवर्णतारागणभूषितानि; शरावराणि प्रहितानि वीरैः
विदार्यमाणानि परश्वधैश्च; प्रासैश्च खड्गैश्च निपेतुरुर्व्याम्

६.५६.१९गजैर्विषाणैर्वरहस्तरुग्णाः; केचित्ससूता रथिनः प्रपेतुः
गजर्षभाश्चापि रथर्षभेण; निपेतिरे बाणहताः पृथिव्याम्

६.५६.२०गजौघवेगोद्धतसादितानां; श्रुत्वा निषेदुर्वसुधां मनुष्याः
आर्तस्वरं सादिपदातियूनां; विषाणगात्रावरताडितानाम्

६.५६.२१संभ्रान्तनागाश्वरथे प्रसूते; महाभये सादिपदातियूनाम्
महारथैः संपरिवार्यमाणं; ददर्श भीष्मः कपिराजकेतुम्

६.५६.२२तं पञ्चतालोच्छ्रिततालकेतुः; सदश्ववेगोद्धतवीर्ययातः
महास्त्रबाणाशनिदीप्तमार्गं; किरीटिनं शांतनवोऽभ्यधावत्

६.५६.२३तथैव शक्रप्रतिमानकल्प;मिन्द्रात्मजं द्रोणमुखाभिसस्रुः
कृपश्च शल्यश्च विविंशतिश्च; दुर्योधनः सौमदत्तिश्च राजन्

६.५६.२४ततो रथानीकमुखादुपेत्य; सर्वास्त्रवित्काञ्चनचित्रवर्मा
जवेन शूरोऽभिससार सर्वां;स्तथार्जुनस्यात्र सुतोऽभिमन्युः

६.५६.२५तेषां महास्त्राणि महारथाना;मसक्तकर्मा विनिहत्य कार्ष्णिः
बभौ महामन्त्रहुतार्चिमाली; सदोगतः सन्भगवानिवाग्निः

६.५६.२६ततः स तूर्णं रुधिरोदफेनां; कृत्वा नदीं वैशसने रिपूणाम्
जगाम सौभद्रमतीत्य भीष्मो; महारथं पार्थमदीनसत्त्वः

६.५६.२७ततः प्रहस्याद्भुतदर्शनेन; गाण्डीवनिर्ह्रादमहास्वनेन
विपाठजालेन महास्त्रजालं; विनाशयामास किरीटमाली

६.५६.२८तमुत्तमं सर्वधनुर्धराणा;मसक्तकर्मा कपिराजकेतुः
भीष्मं महात्माभिववर्ष तूर्णं; शरौघजालैर्विमलैश्च भल्लैः

६.५६.२९एवंविधं कार्मुकभीमनाद;मदीनवत्सत्पुरुषोत्तमाभ्याम्
ददर्श लोकः कुरुसृञ्जयाश्च; तद्द्वैरथं भीष्मधनंजयाभ्याम्