६. भीष्मपर्व
६.५७.१संजय उवाच

६.५७.२द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष
पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन्

६.५७.३संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः
पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा

६.५७.४नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे
बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे

६.५७.५तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम्
दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत्

६.५७.६पीडयानं च तत्सैन्यं पौत्रं तव विशां पते
दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन्

६.५७.७ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत्
प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च

६.५७.८तस्य लाघवमार्गस्थमादित्यसदृशप्रभम्
व्यदृश्यत महच्चापं समरे युध्यतः परैः

६.५७.९स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः
ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत्

६.५७.१०रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना
शितेनोरगसंकाशां पत्रिणा विजहार ताम्

६.५७.११शल्यस्य च महाघोरानस्यतः शतशः शरान्
निवार्यार्जुनदायादो जघान समरे हयान्

६.५७.१२भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः
नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात्

६.५७.१३ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः
पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः

६.५७.१४धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि
सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम्

६.५७.१५तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ
ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित्

६.५७.१६स वारणरथौघानां सहस्रैर्बहुभिर्वृतः
वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः

६.५७.१७धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम्
ययौ तन्मद्रकानीकं केकयांश्च परंतपः

६.५७.१८तेन कीर्तिमता गुप्तमनीकं दृढधन्वना
प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत

६.५७.१९सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन
त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत्

६.५७.२०ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः
हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः

६.५७.२१दमनं चापि दायादं पौरवस्य महात्मनः
जघान विपुलाग्रेण नाराचेन परंतपः

६.५७.२२ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम्
अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम्

६.५७.२३सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन्
भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम्

६.५७.२४अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत्
अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी

६.५७.२५स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ
पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः

६.५७.२६स संगृह्य महाघोरं निस्त्रिंशवरमायसम्
पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम्

६.५७.२७तं महौघमिवायान्तं खात्पतन्तमिवोरगम्
भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम्

६.५७.२८दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम्
अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः

६.५७.२९तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः
शितनिस्त्रिंशहस्तस्य शरावरणधारिणः

६.५७.३०बाणवेगमतीतस्य रथाभ्याशमुपेयुषः
त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः

६.५७.३१तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम्
हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि

६.५७.३२तं निहत्य गदाग्रेण लेभे स परमं यशः
पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः

६.५७.३३तस्मिन्हते महेष्वासे राजपुत्रे महारथे
हाहाकारो महानासीत्तव सैन्यस्य मारिष

६.५७.३४ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम्
अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम्

६.५७.३५तौ तत्र समरे वीरौ समेतौ रथिनां वरौ
ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा

६.५७.३६ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा
आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम्

६.५७.३७तथैव पार्षतं शूरं शल्यः समितिशोभनः
आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत