६.६६.१संजय उवाच
६.६६.२अकरोत्तुमुलं युद्धं भीष्मः शांतनवस्तदा
भीमसेनभयादिच्छन्पुत्रांस्तारयितुं तव
६.६६.३पूर्वाह्णे तन्महारौद्रं राज्ञां युद्धमवर्तत
कुरूणां पाण्डवानां च मुख्यशूरविनाशनम्
६.६६.४तस्मिन्नाकुलसंग्रामे वर्तमाने महाभये
अभवत्तुमुलः शब्दः संस्पृशन्गगनं महत्
६.६६.५नदद्भिश्च महानागैर्हेषमाणैश्च वाजिभिः
भेरीशङ्खनिनादैश्च तुमुलः समपद्यत
६.६६.६युयुत्सवस्ते विक्रान्ता विजयाय महाबलाः
अन्योन्यमभिगर्जन्तो गोष्ठेष्विव महर्षभाः
६.६६.७शिरसां पात्यमानानां समरे निशितैः शरैः
अश्मवृष्टिरिवाकाशे बभूव भरतर्षभ
६.६६.८कुण्डलोष्णीषधारीणि जातरूपोज्ज्वलानि च
पतितानि स्म दृश्यन्ते शिरांसि भरतर्षभ
६.६६.९विशिखोन्मथितैर्गात्रैर्बाहुभिश्च सकार्मुकैः
सहस्ताभरणैश्चान्यैरभवच्छादिता मही
६.६६.१०कवचोपहितैर्गात्रैर्हस्तैश्च समलंकृतैः
मुखैश्च चन्द्रसंकाशै रक्तान्तनयनैः शुभैः
६.६६.११गजवाजिमनुष्याणां सर्वगात्रैश्च भूपते
आसीत्सर्वा समाकीर्णा मुहूर्तेन वसुंधरा
६.६६.१२रजोमेघैश्च तुमुलैः शस्त्रविद्युत्प्रकाशितैः
आयुधानां च निर्घोषः स्तनयित्नुसमोऽभवत्
६.६६.१३स संप्रहारस्तुमुलः कटुकः शोणितोदकः
प्रावर्तत कुरूणां च पाण्डवानां च भारत
६.६६.१४तस्मिन्महाभये घोरे तुमुले लोमहर्षणे
ववर्षुः शरवर्षाणि क्षत्रिया युद्धदुर्मदाः
६.६६.१५क्रोशन्ति कुञ्जरास्तत्र शरवर्षप्रतापिताः
तावकानां परेषां च संयुगे भरतोत्तम
अश्वाश्च पर्यधावन्त हतारोहा दिशो दश
६.६६.१६उत्पत्य निपतन्त्यन्ये शरघातप्रपीडिताः
तावकानां परेषां च योधानां भरतर्षभ
६.६६.१७अश्वानां कुञ्जराणां च रथानां चातिवर्तताम्
संघाताः स्म प्रदृश्यन्ते तत्र तत्र विशां पते
६.६६.१८गदाभिरसिभिः प्रासैर्बाणैश्च नतपर्वभिः
जघ्नुः परस्परं तत्र क्षत्रियाः कालचोदिताः
६.६६.१९अपरे बाहुभिर्वीरा नियुद्धकुशला युधि
बहुधा समसज्जन्त आयसैः परिघैरिव
६.६६.२०मुष्टिभिर्जानुभिश्चैव तलैश्चैव विशां पते
अन्योन्यं जघ्निरे वीरास्तावकाः पाण्डवैः सह
६.६६.२१विरथा रथिनश्चात्र निस्त्रिंशवरधारिणः
अन्योन्यमभिधावन्त परस्परवधैषिणः
६.६६.२२ततो दुर्योधनो राजा कलिङ्गैर्बहुभिर्वृतः
पुरस्कृत्य रणे भीष्मं पाण्डवानभ्यवर्तत
६.६६.२३तथैव पाण्डवाः सर्वे परिवार्य वृकोदरम्
भीष्ममभ्यद्रवन्क्रुद्धा रणे रभसवाहनाः