६. भीष्मपर्व
६.६७.१संजय उवाच

६.६७.२दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान्
तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः

६.६७.३पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च
ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत्

६.६७.४असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम्
बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम्
अपश्याम महाराज ध्वजं गाण्डिवधन्वनः

६.६७.५विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे
ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे

६.६७.६अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः
सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम्

६.६७.७चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान्
दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः

६.६७.८अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः
दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः

६.६७.९कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः
अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ

६.६७.१०भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः
तेषामार्तायनमभूद्भीष्मः शंतनवो रणे

६.६७.११समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा
सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः

६.६७.१२श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः
सर्वसैन्यानि भीतानि व्यवलीयन्त भारत

६.६७.१३अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः
गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः

६.६७.१४मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते
सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः

६.६७.१५नागा नरगणौघाश्च दुःशासनपुरःसराः
जयद्रथश्च नृपतिः सहितः सर्वराजभिः

६.६७.१६हयारोहवराश्चैव तव पुत्रेण चोदिताः
चतुर्दश सहस्राणि सौबलं पर्यवारयन्

६.६७.१७ततस्ते सहिताः सर्वे विभक्तरथवाहनाः
पाण्डवान्समरे जग्मुस्तावका भरतर्षभ

६.६७.१८रथिभिर्वारणैरश्वैः पदातैश्च समीरितम्
घोरमायोधनं जज्ञे महाभ्रसदृशं रजः

६.६७.१९तोमरप्रासनाराचगजाश्वरथयोधिनाम्
बलेन महता भीष्मः समसज्जत्किरीटिना

६.६७.२०आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः
अजातशत्रुर्मद्राणामृषभेण यशस्विना
सहपुत्रः सहामात्यः शल्येन समसज्जत

६.६७.२१विकर्णः सहदेवेन चित्रसेनः शिखण्डिना
मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते

६.६७.२२द्रुपदश्चेकितानश्च सात्यकिश्च महारथः
द्रोणेन समसज्जन्त सपुत्रेण महात्मना
कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ

६.६७.२३एवं प्रजविताश्वानि भ्रान्तनागरथानि च
सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः

६.६७.२४निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः
प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते

६.६७.२५प्रववौ च महावातः पांसुवर्षं पपात च
नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः

६.६७.२६प्रमोहः सर्वसत्त्वानामतीव समपद्यत
रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम्

६.६७.२७वीरबाहुविसृष्टानां सर्वावरणभेदिनाम्
संघातः शरजालानां तुमुलः समपद्यत

६.६७.२८प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः
नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ

६.६७.२९आर्षभाणि विचित्राणि रुक्मजालावृतानि च
संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ

६.६७.३०सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः
दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च

६.६७.३१भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः
हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः

६.६७.३२परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः
रथान्विपरिकर्षन्तो हतेषु रथयोधिषु

६.६७.३३शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः
युगानि पर्यकर्षन्त तत्र तत्र स्म भारत

६.६७.३४अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः
एकेन बलिना राजन्वारणेन हता रथाः

६.६७.३५गन्धहस्तिमदस्रावमाघ्राय बहवो रणे
संनिपाते बलौघानां वीतमाददिरे गजाः

६.६७.३६सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः
बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः

६.६७.३७संनिपाते बलौघानां प्रेषितैर्वरवारणैः
निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः

६.६७.३८नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे
व्यदृश्यन्त महाराज संभग्ना रथकूबराः

६.६७.३९विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः
द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे

६.६७.४०रथेषु च रथान्युद्धे संसक्तान्वरवारणाः
विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः

६.६७.४१तेषां तथा कर्षतां च गजानां रूपमाबभौ
सरःसु नलिनीजालं विषक्तमिव कर्षताम्

६.६७.४२एवं संछादितं तत्र बभूवायोधनं महत्
सादिभिश्च पदातैश्च सध्वजैश्च महारथैः