६. भीष्मपर्व
६.६८.१संजय उवाच

६.६८.२शिखण्डी सह मत्स्येन विराटेन विशां पते
भीष्ममाशु महेष्वासमाससाद सुदुर्जयम्

६.६८.३द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान्
राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः

६.६८.४सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः
प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ

६.६८.५पुत्रं च ते महेष्वासं दुर्योधनममर्षणम्
दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत

६.६८.६सहदेवस्तु शकुनिमुलूकं च महारथम्
पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ

६.६८.७युधिष्ठिरो महाराज गजानीकं महारथः
समवर्तत संग्रामे पुत्रेण निकृतस्तव

६.६८.८माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि
त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः

६.६८.९अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान्
सात्यकिश्चेकितानश्च सौभद्रश्च महारथः

६.६८.१०धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः
पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः

६.६८.११सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः
द्रोणेन समरे राजन्समियायेन्द्रकर्मणा

६.६८.१२एवमेते महेष्वासास्तावकाः पाण्डवैः सह
समेत्य समरे शूराः संप्रहारं प्रचक्रिरे

६.६८.१३मध्यंदिनगते सूर्ये नभस्याकुलतां गते
कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम्

६.६८.१४ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे
सपताका रथा रेजुर्वैयाघ्रपरिवारणाः

६.६८.१५समेतानां च समरे जिगीषूणां परस्परम्
बभूव तुमुलः शब्दः सिंहानामिव नर्दताम्

६.६८.१६तत्राद्भुतमपश्याम संप्रहारं सुदारुणम्
यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह

६.६८.१७नैव खं न दिशो राजन्न सूर्यं शत्रुतापन
विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः

६.६८.१८शक्तीनां विमलाग्राणां तोमराणां तथास्यताम्
निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः

६.६८.१९कवचानां विचित्राणां भूषणानां प्रभास्तथा
खं दिशः प्रदिशश्चैव भासयामासुरोजसा
विरराज तदा राजंस्तत्र तत्र रणाङ्गणम्

६.६८.२०रथसिंहासनव्याघ्राः समायान्तश्च संयुगे
विरेजुः समरे राजन्ग्रहा इव नभस्तले

६.६८.२१भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम्
अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः

६.६८.२२ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः
अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः

६.६८.२३तस्य शक्तिं महावेगां भीमसेनो महाबलः
क्रुद्धाशीविषसंकाशां प्रेषयामास भारत

६.६८.२४तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम्
चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः

६.६८.२५ततोऽपरेण भल्लेन पीतेन निशितेन च
कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत

६.६८.२६सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे
शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर

६.६८.२७ततः संधाय वै तीक्ष्णं शरं परमदारुणम्
वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम्

६.६८.२८तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ
तेन तेनैव धावन्ति मनोमारुतरंहसः

६.६८.२९ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत्
हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम्

६.६८.३०अभिद्रवत गृह्णीत हयान्यच्छत धावत
इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति

६.६८.३१एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः
व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा

६.६८.३२ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह
आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः

६.६८.३३धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे
अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम्

६.६८.३४तथैव तावका राजन्भीष्मद्रोणमुखाः परान्
अभ्यधावन्त वेगेन ततो युद्धमवर्तत