६.७०.१संजय उवाच
६.७०.२अथ राजन्महाबाहुः सात्यकिर्युद्धदुर्मदः
विकृष्य चापं समरे भारसाधनमुत्तमम्
६.७०.३प्रामुञ्चत्पुङ्खसंयुक्ताञ्शरानाशीविषोपमान्
प्रकाशं लघु चित्रं च दर्शयन्नस्त्रलाघवम्
६.७०.४तस्य विक्षिपतश्चापं शरानन्यांश्च मुञ्चतः
आददानस्य भूयश्च संदधानस्य चापरान्
६.७०.५क्षिपतश्च शरानस्य रणे शत्रून्विनिघ्नतः
ददृशे रूपमत्यर्थं मेघस्येव प्रवर्षतः
६.७०.६तमुदीर्यन्तमालोक्य राजा दुर्योधनस्ततः
रथानामयुतं तस्य प्रेषयामास भारत
६.७०.७तांस्तु सर्वान्महेष्वासान्सात्यकिः सत्यविक्रमः
जघान परमेष्वासो दिव्येनास्त्रेण वीर्यवान्
६.७०.८स कृत्वा दारुणं कर्म प्रगृहीतशरासनः
आससाद ततो वीरो भूरिश्रवसमाहवे
६.७०.९स हि संदृश्य सेनां तां युयुधानेन पातिताम्
अभ्यधावत संक्रुद्धः कुरूणां कीर्तिवर्धनः
६.७०.१०इन्द्रायुधसवर्णं तत्स विस्फार्य महद्धनुः
व्यसृजद्वज्रसंकाशाञ्शरानाशीविषोपमान्
सहस्रशो महाराज दर्शयन्पाणिलाघवम्
६.७०.११शरांस्तान्मृत्युसंस्पर्शान्सात्यकेस्तु पदानुगाः
न विषेहुस्तदा राजन्दुद्रुवुस्ते समन्ततः
विहाय समरे राजन्सात्यकिं युद्धदुर्मदम्
६.७०.१२तं दृष्ट्वा युयुधानस्य सुता दश महाबलाः
महारथाः समाख्याताश्चित्रवर्मायुधध्वजाः
६.७०.१३समासाद्य महेष्वासं भूरिश्रवसमाहवे
ऊचुः सर्वे सुसंरब्धा यूपकेतुं महारणे
६.७०.१४भो भो कौरवदायाद सहास्माभिर्महाबल
एहि युध्यस्व संग्रामे समस्तैः पृथगेव वा
६.७०.१५अस्मान्वा त्वं पराजित्य यशः प्राप्नुहि संयुगे
वयं वा त्वां पराजित्य प्रीतिं दास्यामहे पितुः
६.७०.१६एवमुक्तस्तदा शूरैस्तानुवाच महाबलः
वीर्यश्लाघी नरश्रेष्ठस्तान्दृष्ट्वा समुपस्थितान्
६.७०.१७साध्विदं कथ्यते वीरा यदेवं मतिरद्य वः
युध्यध्वं सहिता यत्ता निहनिष्यामि वो रणे
६.७०.१८एवमुक्ता महेष्वासास्ते वीराः क्षिप्रकारिणः
महता शरवर्षेण अभ्यवर्षन्नरिंदमम्
६.७०.१९अपराह्णे महाराज संग्रामस्तुमुलोऽभवत्
एकस्य च बहूनां च समेतानां रणाजिरे
६.७०.२०तमेकं रथिनां श्रेष्ठं शरवर्षैरवाकिरन्
प्रावृषीव महाशैलं सिषिचुर्जलदा नृप
६.७०.२१तैस्तु मुक्ताञ्शरौघांस्तान्यमदण्डाशनिप्रभान्
असंप्राप्तानसंप्राप्तांश्चिच्छेदाशु महारथः
६.७०.२२तत्राद्भुतमपश्याम सौमदत्तेः पराक्रमम्
यदेको बहुभिर्युद्धे समसज्जदभीतवत्
६.७०.२३विसृज्य शरवृष्टिं तां दश राजन्महारथाः
परिवार्य महाबाहुं निहन्तुमुपचक्रमुः
६.७०.२४सौमदत्तिस्ततः क्रुद्धस्तेषां चापानि भारत
चिच्छेद दशभिर्बाणैर्निमेषेण महारथः
६.७०.२५अथैषां छिन्नधनुषां भल्लैः संनतपर्वभिः
चिच्छेद समरे राजञ्शिरांसि निशितैः शरैः
ते हता न्यपतन्भूमौ वज्रभग्ना इव द्रुमाः
६.७०.२६तान्दृष्ट्वा निहतान्वीरान्रणे पुत्रान्महाबलान्
वार्ष्णेयो विनदन्राजन्भूरिश्रवसमभ्ययात्
६.७०.२७रथं रथेन समरे पीडयित्वा महाबलौ
तावन्योन्यस्य समरे निहत्य रथवाजिनः
विरथावभिवल्गन्तौ समेयातां महारथौ
६.७०.२८प्रगृहीतमहाखड्गौ तौ चर्मवरधारिणौ
शुशुभाते नरव्याघ्रौ युद्धाय समवस्थितौ
६.७०.२९ततः सात्यकिमभ्येत्य निस्त्रिंशवरधारिणम्
भीमसेनस्त्वरन्राजन्रथमारोपयत्तदा
६.७०.३०तवापि तनयो राजन्भूरिश्रवसमाहवे
आरोपयद्रथं तूर्णं पश्यतां सर्वधन्विनाम्
६.७०.३१तस्मिंस्तथा वर्तमाने रणे भीष्मं महारथम्
अयोधयन्त संरब्धाः पाण्डवा भरतर्षभ
६.७०.३२लोहितायति चादित्ये त्वरमाणो धनंजयः
पञ्चविंशतिसाहस्रान्निजघान महारथान्
६.७०.३३ते हि दुर्योधनादिष्टास्तदा पार्थनिबर्हणे
संप्राप्यैव गता नाशं शलभा इव पावकम्
६.७०.३४ततो मत्स्याः केकयाश्च धनुर्वेदविशारदाः
परिवव्रुस्तदा पार्थं सहपुत्रं महारथम्
६.७०.३५एतस्मिन्नेव काले तु सूर्येऽस्तमुपगच्छति
सर्वेषामेव सैन्यानां प्रमोहः समजायत
६.७०.३६अवहारं ततश्चक्रे पिता देवव्रतस्तव
संध्याकाले महाराज सैन्यानां श्रान्तवाहनः
६.७०.३७पाण्डवानां कुरूणां च परस्परसमागमे
ते सेने भृशसंविग्ने ययतुः स्वं निवेशनम्
६.७०.३८ततः स्वशिबिरं गत्वा न्यविशंस्तत्र भारत
पाण्डवाः सृञ्जयैः सार्धं कुरवश्च यथाविधि