६. भीष्मपर्व
६.८६.१संजय उवाच

६.८६.२वर्तमाने तथा रौद्रे राजन्वीरवरक्षये
शकुनिः सौबलः श्रीमान्पाण्डवान्समुपाद्रवत्

६.८६.३तथैव सात्वतो राजन्हार्दिक्यः परवीरहा
अभ्यद्रवत संग्रामे पाण्डवानामनीकिनीम्

६.८६.४ततः काम्बोजमुख्यानां नदीजानां च वाजिनाम्
आरट्टानां महीजानां सिन्धुजानां च सर्वशः

६.८६.५वनायुजानां शुभ्राणां तथा पर्वतवासिनाम्
ये चापरे तित्तिरजा जवना वातरंहसः

६.८६.६सुवर्णालंकृतैरेतैर्वर्मवद्भिः सुकल्पितैः
हयैर्वातजवैर्मुख्यैः पाण्डवस्य सुतो बली
अभ्यवर्तत तत्सैन्यं हृष्टरूपः परंतपः

६.८६.७अर्जुनस्याथ दायाद इरावान्नाम वीर्यवान्
सुतायां नागराजस्य जातः पार्थेन धीमता

६.८६.८ऐरावतेन सा दत्ता अनपत्या महात्मना
पत्यौ हते सुपर्णेन कृपणा दीनचेतना

६.८६.९भार्यार्थं तां च जग्राह पार्थः कामवशानुगाम्
एवमेष समुत्पन्नः परक्षेत्रेऽर्जुनात्मजः

६.८६.१०स नागलोके संवृद्धो मात्रा च परिरक्षितः
पितृव्येण परित्यक्तः पार्थद्वेषाद्दुरात्मना

६.८६.११रूपवान्वीर्यसंपन्नो गुणवान्सत्यविक्रमः
इन्द्रलोकं जगामाशु श्रुत्वा तत्रार्जुनं गतम्

६.८६.१२सोऽभिगम्य महात्मानं पितरं सत्यविक्रमम्
अभ्यवादयदव्यग्रो विनयेन कृताञ्जलिः
इरावानस्मि भद्रं ते पुत्रश्चाहं तवाभिभो

६.८६.१३मातुः समागमो यश्च तत्सर्वं प्रत्यवेदयत्
तच्च सर्वं यथावृत्तमनुसस्मार पाण्डवः

६.८६.१४परिष्वज्य सुतं चापि सोऽऽत्मनः सदृशं गुणैः
प्रीतिमानभवत्पार्थो देवराजनिवेशने

६.८६.१५सोऽर्जुनेन समाज्ञप्तो देवलोके तदा नृप
प्रीतिपूर्वं महाबाहुः स्वकार्यं प्रति भारत
युद्धकाले त्वयास्माकं साह्यं देयमिति प्रभो

६.८६.१६बाढमित्येवमुक्त्वा च युद्धकाल उपागतः
कामवर्णजवैरश्वैः संवृतो बहुभिर्नृप

६.८६.१७ते हयाः काञ्चनापीडा नानावर्णा मनोजवाः
उत्पेतुः सहसा राजन्हंसा इव महोदधौ

६.८६.१८ते त्वदीयान्समासाद्य हयसंघान्महाजवान्
क्रोडैः क्रोडानभिघ्नन्तो घोणाभिश्च परस्परम्
निपेतुः सहसा राजन्सुवेगाभिहता भुवि

६.८६.१९निपतद्भिस्तथा तैश्च हयसंघैः परस्परम्
शुश्रुवे दारुणः शब्दः सुपर्णपतने यथा

६.८६.२०तथैव च महाराज समेत्यान्योन्यमाहवे
परस्परवधं घोरं चक्रुस्ते हयसादिनः

६.८६.२१तस्मिंस्तथा वर्तमाने संकुले तुमुले भृशम्
उभयोरपि संशान्ता हयसंघाः समन्ततः

६.८६.२२प्रक्षीणसायकाः शूरा निहताश्वाः श्रमातुराः
विलयं समनुप्राप्तास्तक्षमाणाः परस्परम्

६.८६.२३ततः क्षीणे हयानीके किंचिच्छेषे च भारत
सौबलस्यात्मजाः शूरा निर्गता रणमूर्धनि

६.८६.२४वायुवेगसमस्पर्शा जवे वायुसमांस्तथा
आरुह्य शीलसंपन्नान्वयःस्थांस्तुरगोत्तमान्

६.८६.२५गजो गवाक्षो वृषकश्चर्मवानार्जवः शुकः
षडेते बलसंपन्ना निर्ययुर्महतो बलात्

६.८६.२६वार्यमाणाः शकुनिना स्वैश्च योधैर्महाबलैः
संनद्धा युद्धकुशला रौद्ररूपा महाबलाः

६.८६.२७तदनीकं महाबाहो भित्त्वा परमदुर्जयम्
बलेन महता युक्ताः स्वर्गाय विजयैषिणः
विविशुस्ते तदा हृष्टा गान्धारा युद्धदुर्मदाः

६.८६.२८तान्प्रविष्टांस्तदा दृष्ट्वा इरावानपि वीर्यवान्
अब्रवीत्समरे योधान्विचित्राभरणायुधान्

६.८६.२९यथैते धार्तराष्ट्रस्य योधाः सानुगवाहनाः
हन्यन्ते समरे सर्वे तथा नीतिर्विधीयताम्

६.८६.३०बाढमित्येवमुक्त्वा ते सर्वे योधा इरावतः
जघ्नुस्ते वै परानीकं दुर्जयं समरे परैः

६.८६.३१तदनीकमनीकेन समरे वीक्ष्य पातितम्
अमृष्यमाणास्ते सर्वे सुबलस्यात्मजा रणे
इरावन्तमभिद्रुत्य सर्वतः पर्यवारयन्

६.८६.३२ताडयन्तः शितैः प्रासैश्चोदयन्तः परस्परम्
ते शूराः पर्यधावन्त कुर्वन्तो महदाकुलम्

६.८६.३३इरावानथ निर्भिन्नः प्रासैस्तीक्ष्णैर्महात्मभिः
स्रवता रुधिरेणाक्तस्तोत्त्रैर्विद्ध इव द्विपः

६.८६.३४उरस्यपि च पृष्ठे च पार्श्वयोश्च भृशाहतः
एको बहुभिरत्यर्थं धैर्याद्राजन्न विव्यथे

६.८६.३५इरावानथ संक्रुद्धः सर्वांस्तान्निशितैः शरैः
मोहयामास समरे विद्ध्वा परपुरंजयः

६.८६.३६प्रासानुद्धृत्य सर्वांश्च स्वशरीरादरिंदमः
तैरेव ताडयामास सुबलस्यात्मजान्रणे

६.८६.३७निकृष्य निशितं खड्गं गृहीत्वा च शरावरम्
पदातिस्तूर्णमागच्छज्जिघांसुः सौबलान्युधि

६.८६.३८ततः प्रत्यागतप्राणाः सर्वे ते सुबलात्मजाः
भूयः क्रोधसमाविष्टा इरावन्तमथाद्रवन्

६.८६.३९इरावानपि खड्गेन दर्शयन्पाणिलाघवम्
अभ्यवर्तत तान्सर्वान्सौबलान्बलदर्पितः

६.८६.४०लाघवेनाथ चरतः सर्वे ते सुबलात्मजाः
अन्तरं नाध्यगच्छन्त चरन्तः शीघ्रगामिनः

६.८६.४१भूमिष्ठमथ तं संख्ये संप्रदृश्य ततः पुनः
परिवार्य भृशं सर्वे ग्रहीतुमुपचक्रमुः

६.८६.४२अथाभ्याशगतानां स खड्गेनामित्रकर्शनः
उपहस्तावहस्ताभ्यां तेषां गात्राण्यकृन्तत

६.८६.४३आयुधानि च सर्वेषां बाहूनपि च भूषितान्
अपतन्त निकृत्ताङ्गा गता भूमिं गतासवः

६.८६.४४वृषकस्तु महाराज बहुधा परिविक्षतः
अमुच्यत महारौद्रात्तस्माद्वीरावकर्तनात्

६.८६.४५तान्सर्वान्पतितान्दृष्ट्वा भीतो दुर्योधनस्ततः
अभ्यभाषत संक्रुद्धो राक्षसं घोरदर्शनम्

६.८६.४६आर्श्यशृङ्गिं महेष्वासं मायाविनमरिंदमम्
वैरिणं भीमसेनस्य पूर्वं बकवधेन वै

६.८६.४७पश्य वीर यथा ह्येष फल्गुनस्य सुतो बली
मायावी विप्रियं घोरमकार्षीन्मे बलक्षयम्

६.८६.४८त्वं च कामगमस्तात मायास्त्रे च विशारदः
कृतवैरश्च पार्थेन तस्मादेनं रणे जहि

६.८६.४९बाढमित्येवमुक्त्वा तु राक्षसो घोरदर्शनः
प्रययौ सिंहनादेन यत्रार्जुनसुतो युवा

६.८६.५०स्वारूढैर्युद्धकुशलैर्विमलप्रासयोधिभिः
वीरैः प्रहारिभिर्युक्तः स्वैरनीकैः समावृतः
निहन्तुकामः समरे इरावन्तं महाबलम्

६.८६.५१इरावानपि संक्रुद्धस्त्वरमाणः पराक्रमी
हन्तुकामममित्रघ्नो राक्षसं प्रत्यवारयत्

६.८६.५२तमापतन्तं संप्रेक्ष्य राक्षसः सुमहाबलः
त्वरमाणस्ततो मायां प्रयोक्तुमुपचक्रमे

६.८६.५३तेन मायामयाः कॢप्ता हयास्तावन्त एव हि
स्वारूढा राक्षसैर्घोरैः शूलपट्टिशपाणिभिः

६.८६.५४ते संरब्धाः समागम्य द्विसाहस्राः प्रहारिणः
अचिराद्गमयामासुः प्रेतलोकं परस्परम्

६.८६.५५तस्मिंस्तु निहते सैन्ये तावुभौ युद्धदुर्मदौ
संग्रामे व्यवतिष्ठेतां यथा वै वृत्रवासवौ

६.८६.५६आद्रवन्तमभिप्रेक्ष्य राक्षसं युद्धदुर्मदम्
इरावान्क्रोधसंरब्धः प्रत्यधावन्महाबलः

६.८६.५७समभ्याशगतस्याजौ तस्य खड्गेन दुर्मतेः
चिच्छेद कार्मुकं दीप्तं शरावापं च पञ्चकम्

६.८६.५८स निकृत्तं धनुर्दृष्ट्वा खं जवेन समाविशत्
इरावन्तमभिक्रुद्धं मोहयन्निव मायया

६.८६.५९ततोऽन्तरिक्षमुत्पत्य इरावानपि राक्षसम्
विमोहयित्वा मायाभिस्तस्य गात्राणि सायकैः
चिच्छेद सर्वमर्मज्ञः कामरूपो दुरासदः

६.८६.६०तथा स राक्षसश्रेष्ठः शरैः कृत्तः पुनः पुनः
संबभूव महाराज समवाप च यौवनम्

६.८६.६१माया हि सहजा तेषां वयो रूपं च कामजम्
एवं तद्राक्षसस्याङ्गं छिन्नं छिन्नं व्यरोहत

६.८६.६२इरावानपि संक्रुद्धो राक्षसं तं महाबलम्
परश्वधेन तीक्ष्णेन चिच्छेद च पुनः पुनः

६.८६.६३स तेन बलिना वीरश्छिद्यमान इव द्रुमः
राक्षसो व्यनदद्घोरं स शब्दस्तुमुलोऽभवत्

६.८६.६४परश्वधक्षतं रक्षः सुस्राव रुधिरं बहु
ततश्चुक्रोध बलवांश्चक्रे वेगं च संयुगे

६.८६.६५आर्श्यशृङ्गिस्ततो दृष्ट्वा समरे शत्रुमूर्जितम्
कृत्वा घोरं महद्रूपं ग्रहीतुमुपचक्रमे
संग्रामशिरसो मध्ये सर्वेषां तत्र पश्यताम्

६.८६.६६तां दृष्ट्वा तादृशीं मायां राक्षसस्य महात्मनः
इरावानपि संक्रुद्धो मायां स्रष्टुं प्रचक्रमे

६.८६.६७तस्य क्रोधाभिभूतस्य संयुगेष्वनिवर्तिनः
योऽन्वयो मातृकस्तस्य स एनमभिपेदिवान्

६.८६.६८स नागैर्बहुशो राजन्सर्वतः संवृतो रणे
दधार सुमहद्रूपमनन्त इव भोगवान्
ततो बहुविधैर्नागैश्छादयामास राक्षसम्

६.८६.६९छाद्यमानस्तु नागैः स ध्यात्वा राक्षसपुंगवः
सौपर्णं रूपमास्थाय भक्षयामास पन्नगान्

६.८६.७०मायया भक्षिते तस्मिन्नन्वये तस्य मातृके
विमोहितमिरावन्तमसिना राक्षसोऽवधीत्

६.८६.७१सकुण्डलं समुकुटं पद्मेन्दुसदृशप्रभम्
इरावतः शिरो रक्षः पातयामास भूतले

६.८६.७२तस्मिंस्तु निहते वीरे राक्षसेनार्जुनात्मजे
विशोकाः समपद्यन्त धार्तराष्ट्राः सराजकाः

६.८६.७३तस्मिन्महति संग्रामे तादृशे भैरवे पुनः
महान्व्यतिकरो घोरः सेनयोः समपद्यत

६.८६.७४हया गजाः पदाताश्च विमिश्रा दन्तिभिर्हताः
रथाश्च दन्तिनश्चैव पत्तिभिस्तत्र सूदिताः

६.८६.७५तथा पत्तिरथौघाश्च हयाश्च बहवो रणे
रथिभिर्निहता राजंस्तव तेषां च संकुले

६.८६.७६अजानन्नर्जुनश्चापि निहतं पुत्रमौरसम्
जघान समरे शूरान्राज्ञस्तान्भीष्मरक्षिणः

६.८६.७७तथैव तावका राजन्सृञ्जयाश्च महाबलाः
जुह्वतः समरे प्राणान्निजघ्नुरितरेतरम्

६.८६.७८मुक्तकेशा विकवचा विरथाश्छिन्नकार्मुकाः
बाहुभिः समयुध्यन्त समवेताः परस्परम्

६.८६.७९तथा मर्मातिगैर्भीष्मो निजघान महारथान्
कम्पयन्समरे सेनां पाण्डवानां महाबलः

६.८६.८०तेन यौधिष्ठिरे सैन्ये बहवो मानवा हताः
दन्तिनः सादिनश्चैव रथिनोऽथ हयास्तथा

६.८६.८१तत्र भारत भीष्मस्य रणे दृष्ट्वा पराक्रमम्
अत्यद्भुतमपश्याम शक्रस्येव पराक्रमम्

६.८६.८२तथैव भीमसेनस्य पार्षतस्य च भारत
रौद्रमासीत्तदा युद्धं सात्वतस्य च धन्विनः

६.८६.८३दृष्ट्वा द्रोणस्य विक्रान्तं पाण्डवान्भयमाविशत्
एक एव रणे शक्तो हन्तुमस्मान्ससैनिकान्

६.८६.८४किं पुनः पृथिवीशूरैर्योधव्रातैः समावृतः
इत्यब्रुवन्महाराज रणे द्रोणेन पीडिताः

६.८६.८५वर्तमाने तथा रौद्रे संग्रामे भरतर्षभ
उभयोः सेनयोः शूरा नामृष्यन्त परस्परम्

६.८६.८६आविष्टा इव युध्यन्ते रक्षोभूता महाबलाः
तावकाः पाण्डवेयाश्च संरब्धास्तात धन्विनः

६.८६.८७न स्म पश्यामहे कंचिद्यः प्राणान्परिरक्षति
संग्रामे दैत्यसंकाशे तस्मिन्योद्धा नराधिप