६.८७.१धृतराष्ट्र उवाच
६.८७.२इरावन्तं तु निहतं दृष्ट्वा पार्था महारथाः
संग्रामे किमकुर्वन्त तन्ममाचक्ष्व संजय
६.८७.३संजय उवाच
६.८७.४इरावन्तं तु निहतं संग्रामे वीक्ष्य राक्षसः
व्यनदत्सुमहानादं भैमसेनिर्घटोत्कचः
६.८७.५नदतस्तस्य शब्देन पृथिवी सागराम्बरा
सपर्वतवना राजंश्चचाल सुभृशं तदा
अन्तरिक्षं दिशश्चैव सर्वाश्च प्रदिशस्तथा
६.८७.६तं श्रुत्वा सुमहानादं तव सैन्यस्य भारत
ऊरुस्तम्भः समभवद्वेपथुः स्वेद एव च
६.८७.७सर्व एव च राजेन्द्र तावका दीनचेतसः
सर्पवत्समवेष्टन्त सिंहभीता गजा इव
६.८७.८निनदत्सुमहानादं निर्घातमिव राक्षसः
ज्वलितं शूलमुद्यम्य रूपं कृत्वा विभीषणम्
६.८७.९नानाप्रहरणैर्घोरैर्वृतो राक्षसपुंगवैः
आजगाम सुसंक्रुद्धः कालान्तकयमोपमः
६.८७.१०तमापतन्तं संप्रेक्ष्य संक्रुद्धं भीमदर्शनम्
स्वबलं च भयात्तस्य प्रायशो विमुखीकृतम्
६.८७.११ततो दुर्योधनो राजा घटोत्कचमुपाद्रवत्
प्रगृह्य विपुलं चापं सिंहवद्विनदन्मुहुः
६.८७.१२पृष्ठतोऽनुययौ चैनं स्रवद्भिः पर्वतोपमैः
कुञ्जरैर्दशसाहस्रैर्वङ्गानामधिपः स्वयम्
६.८७.१३तमापतन्तं संप्रेक्ष्य गजानीकेन संवृतम्
पुत्रं तव महाराज चुकोप स निशाचरः
६.८७.१४ततः प्रववृते युद्धं तुमुलं लोमहर्षणम्
राक्षसानां च राजेन्द्र दुर्योधनबलस्य च
६.८७.१५गजानीकं च संप्रेक्ष्य मेघवृन्दमिवोद्यतम्
अभ्यधावन्त संक्रुद्धा राक्षसाः शस्त्रपाणयः
६.८७.१६नदन्तो विविधान्नादान्मेघा इव सविद्युतः
शरशक्त्यृष्टिनाराचैर्निघ्नन्तो गजयोधिनः
६.८७.१७भिण्डिपालैस्तथा शूलैर्मुद्गरैः सपरश्वधैः
पर्वताग्रैश्च वृक्षैश्च निजघ्नुस्ते महागजान्
६.८७.१८भिन्नकुम्भान्विरुधिरान्भिन्नगात्रांश्च वारणान्
अपश्याम महाराज वध्यमानान्निशाचरैः
६.८७.१९तेषु प्रक्षीयमाणेषु भग्नेषु गजयोधिषु
दुर्योधनो महाराज राक्षसान्समुपाद्रवत्
६.८७.२०अमर्षवशमापन्नस्त्यक्त्वा जीवितमात्मनः
मुमोच निशितान्बाणान्राक्षसेषु महाबलः
६.८७.२१जघान च महेष्वासः प्रधानांस्तत्र राक्षसान्
संक्रुद्धो भरतश्रेष्ठ पुत्रो दुर्योधनस्तव
६.८७.२२वेगवन्तं महारौद्रं विद्युज्जिह्वं प्रमाथिनम्
शरैश्चतुर्भिश्चतुरो निजघान महारथः
६.८७.२३ततः पुनरमेयात्मा शरवर्षं दुरासदम्
मुमोच भरतश्रेष्ठ निशाचरबलं प्रति
६.८७.२४तत्तु दृष्ट्वा महत्कर्म पुत्रस्य तव मारिष
क्रोधेनाभिप्रजज्वाल भैमसेनिर्महाबलः
६.८७.२५विस्फार्य च महच्चापमिन्द्राशनिसमस्वनम्
अभिदुद्राव वेगेन दुर्योधनमरिंदमम्
६.८७.२६तमापतन्तमुद्वीक्ष्य कालसृष्टमिवान्तकम्
न विव्यथे महाराज पुत्रो दुर्योधनस्तव
६.८७.२७अथैनमब्रवीत्क्रुद्धः क्रूरः संरक्तलोचनः
ये त्वया सुनृशंसेन दीर्घकालं प्रवासिताः
यच्च ते पाण्डवा राजंश्छलद्यूते पराजिताः
६.८७.२८यच्चैव द्रौपदी कृष्णा एकवस्त्रा रजस्वला
सभामानीय दुर्बुद्धे बहुधा क्लेशिता त्वया
६.८७.२९तव च प्रियकामेन आश्रमस्था दुरात्मना
सैन्धवेन परिक्लिष्टा परिभूय पितॄन्मम
६.८७.३०एतेषामवमानानामन्येषां च कुलाधम
अन्तमद्य गमिष्यामि यदि नोत्सृजसे रणम्
६.८७.३१एवमुक्त्वा तु हैडिम्बो महद्विस्फार्य कार्मुकम्
संदश्य दशनैरोष्ठं सृक्किणी परिसंलिहन्
६.८७.३२शरवर्षेण महता दुर्योधनमवाकिरत्
पर्वतं वारिधाराभिः प्रावृषीव बलाहकः