६.९४.१संजय उवाच
६.९४.२वाक्शल्यैस्तव पुत्रेण सोऽतिविद्धः पितामहः
दुःखेन महताविष्टो नोवाचाप्रियमण्वपि
६.९४.३स ध्यात्वा सुचिरं कालं दुःखरोषसमन्वितः
श्वसमानो यथा नागः प्रणुन्नो वै शलाकया
६.९४.४उद्वृत्य चक्षुषी कोपान्निर्दहन्निव भारत
सदेवासुरगन्धर्वं लोकं लोकविदां वरः
अब्रवीत्तव पुत्रं तु सामपूर्वमिदं वचः
६.९४.५किं नु दुर्योधनैवं मां वाक्शल्यैरुपविध्यसि
घटमानं यथाशक्ति कुर्वाणं च तव प्रियम्
जुह्वानं समरे प्राणांस्तवैव हितकाम्यया
६.९४.६यदा तु पाण्डवः शूरः खाण्डवेऽग्निमतर्पयत्
पराजित्य रणे शक्रं पर्याप्तं तन्निदर्शनम्
६.९४.७यदा च त्वां महाबाहो गन्धर्वैर्हृतमोजसा
अमोचयत्पाण्डुसुतः पर्याप्तं तन्निदर्शनम्
६.९४.८द्रवमाणेषु शूरेषु सोदरेषु तथाभिभो
सूतपुत्रे च राधेये पर्याप्तं तन्निदर्शनम्
६.९४.९यच्च नः सहितान्सर्वान्विराटनगरे तदा
एक एव समुद्यातः पर्याप्तं तन्निदर्शनम्
६.९४.१०द्रोणं च युधि संरब्धं मां च निर्जित्य संयुगे
कर्णं च त्वां च द्रौणिं च कृपं च सुमहारथम्
वासांसि स समादत्त पर्याप्तं तन्निदर्शनम्
६.९४.११निवातकवचान्युद्धे वासवेनापि दुर्जयान्
जितवान्समरे पार्थः पर्याप्तं तन्निदर्शनम्
६.९४.१२को हि शक्तो रणे जेतुं पाण्डवं रभसं रणे
त्वं तु मोहान्न जानीषे वाच्यावाच्यं सुयोधन
६.९४.१३मुमूर्षुर्हि नरः सर्वान्वृक्षान्पश्यति काञ्चनान्
तथा त्वमपि गान्धारे विपरीतानि पश्यसि
६.९४.१४स्वयं वैरं महत्कृत्वा पाण्डवैः सहसृञ्जयैः
युध्यस्व तानद्य रणे पश्यामः पुरुषो भव
६.९४.१५अहं तु सोमकान्सर्वान्सपाञ्चालान्समागतान्
निहनिष्ये नरव्याघ्र वर्जयित्वा शिखण्डिनम्
६.९४.१६तैर्वाहं निहतः संख्ये गमिष्ये यमसादनम्
तान्वा निहत्य संग्रामे प्रीतिं दास्यामि वै तव
६.९४.१७पूर्वं हि स्त्री समुत्पन्ना शिखण्डी राजवेश्मनि
वरदानात्पुमाञ्जातः सैषा वै स्त्री शिखण्डिनी
६.९४.१८तामहं न हनिष्यामि प्राणत्यागेऽपि भारत
यासौ प्राङ्निर्मिता धात्रा सैषा वै स्त्री शिखण्डिनी
६.९४.१९सुखं स्वपिहि गान्धारे श्वोऽस्मि कर्ता महारणम्
यज्जनाः कथयिष्यन्ति यावत्स्थास्यति मेदिनी
६.९४.२०एवमुक्तस्तव सुतो निर्जगाम जनेश्वर
अभिवाद्य गुरुं मूर्ध्ना प्रययौ स्वं निवेशनम्
६.९४.२१आगम्य तु ततो राजा विसृज्य च महाजनम्
प्रविवेश ततस्तूर्णं क्षयं शत्रुक्षयंकरः
प्रविष्टः स निशां तां च गमयामास पार्थिवः