७. द्रोणपर्व
७.११०.१धृतराष्ट्र उवाच

७.११०.२दैवमेव परं मन्ये धिक्पौरुषमनर्थकम्
यत्राधिरथिरायस्तो नातरत्पाण्डवं रणे

७.११०.३कर्णः पार्थान्सगोविन्दाञ्जेतुमुत्सहते रणे
न च कर्णसमं योधं लोके पश्यामि कंचन
इति दुर्योधनस्याहमश्रौषं जल्पतो मुहुः

७.११०.४कर्णो हि बलवाञ्शूरो दृढधन्वा जितक्लमः
इति मामब्रवीत्सूत मन्दो दुर्योधनः पुरा

७.११०.५वसुषेणसहायं मां नालं देवापि संयुगे
किमु पाण्डुसुता राजन्गतसत्त्वा विचेतसः

७.११०.६तत्र तं निर्जितं दृष्ट्वा भुजंगमिव निर्विषम्
युद्धात्कर्णमपक्रान्तं किं स्विद्दुर्योधनोऽब्रवीत्

७.११०.७अहो दुर्मुखमेवैकं युद्धानामविशारदम्
प्रावेशयद्धुतवहं पतंगमिव मोहितः

७.११०.८अश्वत्थामा मद्रराजः कृपः कर्णश्च संगताः
न शक्ताः प्रमुखे स्थातुं नूनं भीमस्य संजय

७.११०.९तेऽपि चास्य महाघोरं बलं नागायुतोपमम्
जानन्तो व्यवसायं च क्रूरं मारुततेजसः

७.११०.१०किमर्थं क्रूरकर्माणं यमकालान्तकोपमम्
बलसंरम्भवीर्यज्ञाः कोपयिष्यन्ति संयुगे

७.११०.११कर्णस्त्वेको महाबाहुः स्वबाहुबलमाश्रितः
भीमसेनमनादृत्य रणेऽयुध्यत सूतजः

७.११०.१२योऽजयत्समरे कर्णं पुरंदर इवासुरम्
न स पाण्डुसुतो जेतुं शक्यः केनचिदाहवे

७.११०.१३द्रोणं यः संप्रमथ्यैकः प्रविष्टो मम वाहिनीम्
भीमो धनंजयान्वेषी कस्तमर्छेज्जिजीविषुः

७.११०.१४को हि संजय भीमस्य स्थातुमुत्सहतेऽग्रतः
उद्यताशनिवज्रस्य महेन्द्रस्येव दानवः

७.११०.१५प्रेतराजपुरं प्राप्य निवर्तेतापि मानवः
न भीमसेनं संप्राप्य निवर्तेत कदाचन

७.११०.१६पतंगा इव वह्निं ते प्राविशन्नल्पचेतसः
ये भीमसेनं संक्रुद्धमभ्यधावन्विमोहिताः

७.११०.१७यत्तत्सभायां भीमेन मम पुत्रवधाश्रयम्
शप्तं संरम्भिणोग्रेण कुरूणां शृण्वतां तदा

७.११०.१८तन्नूनमभिसंचिन्त्य दृष्ट्वा कर्णं च निर्जितम्
दुःशासनः सह भ्रात्रा भयाद्भीमादुपारमत्

७.११०.१९यश्च संजय दुर्बुद्धिरब्रवीत्समितौ मुहुः
कर्णो दुःशासनोऽहं च जेष्यामो युधि पाण्डवान्

७.११०.२०स नूनं विरथं दृष्ट्वा कर्णं भीमेन निर्जितम्
प्रत्याख्यानाच्च कृष्णस्य भृशं तप्यति संजय

७.११०.२१दृष्ट्वा भ्रातॄन्हतान्युद्धे भीमसेनेन दंशितान्
आत्मापराधात्सुमहन्नूनं तप्यति पुत्रकः

७.११०.२२को हि जीवितमन्विच्छन्प्रतीपं पाण्डवं व्रजेत्
भीमं भीमायुधं क्रुद्धं साक्षात्कालमिव स्थितम्

७.११०.२३वडवामुखमध्यस्थो मुच्येतापि हि मानवः
न भीममुखसंप्राप्तो मुच्येतेति मतिर्मम

७.११०.२४न पाण्डवा न पाञ्चाला न च केशवसात्यकी
जानन्ति युधि संरब्धा जीवितं परिरक्षितुम्

७.११०.२५संजय उवाच

७.११०.२६यत्संशोचसि कौरव्य वर्तमाने जनक्षये
त्वमस्य जगतो मूलं विनाशस्य न संशयः

७.११०.२७स्वयं वैरं महत्कृत्वा पुत्राणां वचने स्थितः
उच्यमानो न गृह्णीषे मर्त्यः पथ्यमिवौषधम्

७.११०.२८स्वयं पीत्वा महाराज कालकूटं सुदुर्जरम्
तस्येदानीं फलं कृत्स्नमवाप्नुहि नरोत्तम

७.११०.२९यत्तु कुत्सयसे योधान्युध्यमानान्यथाबलम्
अत्र ते वर्णयिष्यामि यथा युद्धमवर्तत

७.११०.३०दृष्ट्वा कर्णं तु पुत्रास्ते भीमसेनपराजितम्
नामृष्यन्त महेष्वासाः सोदर्याः पञ्च मारिष

७.११०.३१दुर्मर्षणो दुःसहश्च दुर्मदो दुर्धरो जयः
पाण्डवं चित्रसंनाहास्तं प्रतीपमुपाद्रवन्

७.११०.३२ते समन्तान्महाबाहुं परिवार्य वृकोदरम्
दिशः शरैः समावृण्वञ्शलभानामिव व्रजैः

७.११०.३३आगच्छतस्तान्सहसा कुमारान्देवरूपिणः
प्रतिजग्राह समरे भीमसेनो हसन्निव

७.११०.३४तव दृष्ट्वा तु तनयान्भीमसेनसमीपगान्
अभ्यवर्तत राधेयो भीमसेनं महाबलम्

७.११०.३५विसृजन्विशिखान्राजन्स्वर्णपुङ्खाञ्शिलाशितान्
तं तु भीमोऽभ्ययात्तूर्णं वार्यमाणः सुतैस्तव

७.११०.३६कुरवस्तु ततः कर्णं परिवार्य समन्ततः
अवाकिरन्भीमसेनं शरैः संनतपर्वभिः

७.११०.३७तान्बाणैः पञ्चविंशत्या साश्वान्राजन्नरर्षभान्
ससूतान्भीमधनुषो भीमो निन्ये यमक्षयम्

७.११०.३८प्रापतन्स्यन्दनेभ्यस्ते सार्धं सूतैर्गतासवः
चित्रपुष्पधरा भग्ना वातेनेव महाद्रुमाः

७.११०.३९तत्राद्भुतमपश्याम भीमसेनस्य विक्रमम्
संवार्याधिरथिं बाणैर्यज्जघान तवात्मजान्

७.११०.४०स वार्यमाणो भीमेन शितैर्बाणैः समन्ततः
सूतपुत्रो महाराज भीमसेनमवैक्षत

७.११०.४१तं भीमसेनः संरम्भात्क्रोधसंरक्तलोचनः
विस्फार्य सुमहच्चापं मुहुः कर्णमवैक्षत