७. द्रोणपर्व
७.१३५.१संजय उवाच

७.१३५.२दुर्योधनेनैवमुक्तो द्रौणिराहवदुर्मदः
प्रत्युवाच महाबाहो यथा वदसि कौरव

७.१३५.३प्रिया हि पाण्डवा नित्यं मम चापि पितुश्च मे
तथैवावां प्रियौ तेषां न तु युद्धे कुरूद्वह
शक्तितस्तात युध्यामस्त्यक्त्वा प्राणानभीतवत्

७.१३५.४अहं कर्णश्च शल्यश्च कृपो हार्दिक्य एव च
निमेषात्पाण्डवीं सेनां क्षपयेम नृपोत्तम

७.१३५.५ते चापि कौरवीं सेनां निमेषार्धात्कुरूद्वह
क्षपयेयुर्महाबाहो न स्याम यदि संयुगे

७.१३५.६युध्यतां पाण्डवाञ्शक्त्या तेषां चास्मान्युयुत्सताम्
तेजस्तु तेज आसाद्य प्रशमं याति भारत

७.१३५.७अशक्या तरसा जेतुं पाण्डवानामनीकिनी
जीवत्सु पाण्डुपुत्रेषु तद्धि सत्यं ब्रवीमि ते

७.१३५.८आत्मार्थं युध्यमानास्ते समर्थाः पाण्डुनन्दनाः
किमर्थं तव सैन्यानि न हनिष्यन्ति भारत

७.१३५.९त्वं हि लुब्धतमो राजन्निकृतिज्ञश्च कौरव
सर्वातिशङ्की मानी च ततोऽस्मानतिशङ्कसे

७.१३५.१०अहं तु यत्नमास्थाय त्वदर्थे त्यक्तजीवितः
एष गच्छामि संग्रामं त्वत्कृते कुरुनन्दन

७.१३५.११योत्स्येऽहं शत्रुभिः सार्धं जेष्यामि च वरान्वरान्
पाञ्चालैः सह योत्स्यामि सोमकैः केकयैस्तथा
पाण्डवेयैश्च संग्रामे त्वत्प्रियार्थमरिंदम

७.१३५.१२अद्य मद्बाणनिर्दग्धाः पाञ्चालाः सोमकास्तथा
सिंहेनेवार्दिता गावो विद्रविष्यन्ति सर्वतः

७.१३५.१३अद्य धर्मसुतो राजा दृष्ट्वा मम पराक्रमम्
अश्वत्थाममयं लोकं मंस्यते सह सोमकैः

७.१३५.१४आगमिष्यति निर्वेदं धर्मपुत्रो युधिष्ठिरः
दृष्ट्वा विनिहतान्संख्ये पाञ्चालान्सोमकैः सह

७.१३५.१५ये मां युद्धेऽभियोत्स्यन्ति तान्हनिष्यामि भारत
न हि ते वीर मुच्येरन्मद्बाह्वन्तरमागताः

७.१३५.१६एवमुक्त्वा महाबाहुः पुत्रं दुर्योधनं तव
अभ्यवर्तत युद्धाय द्रावयन्सर्वधन्विनः
चिकीर्षुस्तव पुत्राणां प्रियं प्राणभृतां वरः

७.१३५.१७ततोऽब्रवीत्सकैकेयान्पाञ्चालान्गौतमीसुतः
प्रहरध्वमितः सर्वे मम गात्रे महारथाः
स्थिरीभूताश्च युध्यध्वं दर्शयन्तोऽस्त्रलाघवम्

७.१३५.१८एवमुक्तास्तु ते सर्वे शस्त्रवृष्टिमपातयन्
द्रौणिं प्रति महाराज जलं जलधरा इव

७.१३५.१९तान्निहत्य शरान्द्रौणिर्दश वीरानपोथयत्
प्रमुखे पाण्डुपुत्राणां धृष्टद्युम्नस्य चाभिभो

७.१३५.२०ते हन्यमानाः समरे पाञ्चालाः सृञ्जयास्तथा
परित्यज्य रणे द्रौणिं व्यद्रवन्त दिशो दश

७.१३५.२१तान्दृष्ट्वा द्रवतः शूरान्पाञ्चालान्सहसोमकान्
धृष्टद्युम्नो महाराज द्रौणिमभ्यद्रवद्युधि

७.१३५.२२ततः काञ्चनचित्राणां सजलाम्बुदनादिनाम्
वृतः शतेन शूराणां रथानामनिवर्तिनाम्

७.१३५.२३पुत्रः पाञ्चालराजस्य धृष्टद्युम्नो महारथः
द्रौणिमित्यब्रवीद्वाक्यं दृष्ट्वा योधान्निपातितान्

७.१३५.२४आचार्यपुत्र दुर्बुद्धे किमन्यैर्निहतैस्तव
समागच्छ मया सार्धं यदि शूरोऽसि संयुगे
अहं त्वां निहनिष्यामि तिष्ठेदानीं ममाग्रतः

७.१३५.२५ततस्तमाचार्यसुतं धृष्टद्युम्नः प्रतापवान्
मर्मभिद्भिः शरैस्तीक्ष्णैर्जघान भरतर्षभ

७.१३५.२६ते तु पङ्क्तीकृता द्रौणिं शरा विविशुराशुगाः
रुक्मपुङ्खाः प्रसन्नाग्राः सर्वकायावदारणाः
मध्वर्थिन इवोद्दामा भ्रमराः पुष्पितं द्रुमम्

७.१३५.२७सोऽतिविद्धो भृशं क्रुद्धः पदाक्रान्त इवोरगः
मानी द्रौणिरसंभ्रान्तो बाणपाणिरभाषत

७.१३५.२८धृष्टद्युम्न स्थिरो भूत्वा मुहूर्तं प्रतिपालय
यावत्त्वां निशितैर्बाणैः प्रेषयामि यमक्षयम्

७.१३५.२९द्रौणिरेवमथाभाष्य पार्षतं परवीरहा
छादयामास बाणौघैः समन्ताल्लघुहस्तवत्

७.१३५.३०स छाद्यमानः समरे द्रौणिना युद्धदुर्मदः
द्रौणिं पाञ्चालतनयो वाग्भिरातर्जयत्तदा

७.१३५.३१न जानीषे प्रतिज्ञां मे विप्रोत्पत्तिं तथैव च
द्रोणं हत्वा किल मया हन्तव्यस्त्वं सुदुर्मते
ततस्त्वाहं न हन्म्यद्य द्रोणे जीवति संयुगे

७.१३५.३२इमां तु रजनीं प्राप्तामप्रभातां सुदुर्मते
निहत्य पितरं तेऽद्य ततस्त्वामपि संयुगे
नेष्यामि मृत्युलोकायेत्येवं मे मनसि स्थितम्

७.१३५.३३यस्ते पार्थेषु विद्वेषो या भक्तिः कौरवेषु च
तां दर्शय स्थिरो भूत्वा न मे जीवन्विमोक्ष्यसे

७.१३५.३४यो हि ब्राह्मण्यमुत्सृज्य क्षत्रधर्मरतो द्विजः
स वध्यः सर्वलोकस्य यथा त्वं पुरुषाधम

७.१३५.३५इत्युक्तः परुषं वाक्यं पार्षतेन द्विजोत्तमः
क्रोधमाहारयत्तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्

७.१३५.३६निर्दहन्निव चक्षुर्भ्यां पार्षतं सोऽभ्यवैक्षत
छादयामास च शरैर्निःश्वसन्पन्नगो यथा

७.१३५.३७स छाद्यमानः समरे द्रौणिना राजसत्तम
सर्वपाञ्चालसेनाभिः संवृतो रथसत्तमः

७.१३५.३८नाकम्पत महाबाहुः स्वधैर्यं समुपाश्रितः
सायकांश्चैव विविधानश्वत्थाम्नि मुमोच ह

७.१३५.३९तौ पुनः संन्यवर्तेतां प्राणद्यूतपरे रणे
निवारयन्तौ बाणौघैः परस्परममर्षिणौ
उत्सृजन्तौ महेष्वासौ शरवृष्टीः समन्ततः

७.१३५.४०द्रौणिपार्षतयोर्युद्धं घोररूपं भयानकम्
दृष्ट्वा संपूजयामासुः सिद्धचारणवातिकाः

७.१३५.४१शरौघैः पूरयन्तौ तावाकाशं प्रदिशस्तथा
अलक्ष्यौ समयुध्येतां महत्कृत्वा शरैस्तमः

७.१३५.४२नृत्यमानाविव रणे मण्डलीकृतकार्मुकौ
परस्परवधे यत्तौ परस्परजयैषिणौ

७.१३५.४३अयुध्येतां महाबाहू चित्रं लघु च सुष्ठु च
संपूज्यमानौ समरे योधमुख्यैः सहस्रशः

७.१३५.४४तौ प्रयुद्धौ रणे दृष्ट्वा वने वन्यौ गजाविव
उभयोः सेनयोर्हर्षस्तुमुलः समपद्यत

७.१३५.४५सिंहनादरवाश्चासन्दध्मुः शङ्खांश्च मारिष
वादित्राण्यभ्यवाद्यन्त शतशोऽथ सहस्रशः

७.१३५.४६तस्मिंस्तु तुमुले युद्धे भीरूणां भयवर्धने
मुहूर्तमिव तद्युद्धं समरूपं तदाभवत्

७.१३५.४७ततो द्रौणिर्महाराज पार्षतस्य महात्मनः
ध्वजं धनुस्तथा छत्रमुभौ च पार्ष्णिसारथी
सूतमश्वांश्च चतुरो निहत्याभ्यद्रवद्रणे

७.१३५.४८पाञ्चालांश्चैव तान्सर्वान्बाणैः संनतपर्वभिः
व्यद्रावयदमेयात्मा शतशोऽथ सहस्रशः

७.१३५.४९ततः प्रविव्यथे सेना पाण्डवी भरतर्षभ
दृष्ट्वा द्रौणेर्महत्कर्म वासवस्येव संयुगे

७.१३५.५०शतेन च शतं हत्वा पाञ्चालानां महारथः
त्रिभिश्च निशितैर्बाणैर्हत्वा त्रीन्वै महारथान्

७.१३५.५१द्रौणिर्द्रुपदपुत्रस्य फल्गुनस्य च पश्यतः
नाशयामास पाञ्चालान्भूयिष्ठं ये व्यवस्थिताः

७.१३५.५२ते वध्यमानाः पाञ्चालाः समरे सह सृञ्जयैः
अगच्छन्द्रौणिमुत्सृज्य विप्रकीर्णरथध्वजाः

७.१३५.५३स जित्वा समरे शत्रून्द्रोणपुत्रो महारथः
ननाद सुमहानादं तपान्ते जलदो यथा

७.१३५.५४स निहत्य बहूञ्शूरानश्वत्थामा व्यरोचत
युगान्ते सर्वभूतानि भस्म कृत्वेव पावकः

७.१३५.५५संपूज्यमानो युधि कौरवेयै;र्विजित्य संख्येऽरिगणान्सहस्रशः
व्यरोचत द्रोणसुतः प्रतापवा;न्यथा सुरेन्द्रोऽरिगणान्निहत्य