७.१६.१संजय उवाच
७.१६.२ते सेने शिबिरं गत्वा न्यविशेतां विशां पते
यथाभागं यथान्यायं यथागुल्मं च सर्वशः
७.१६.३कृत्वावहारं सैन्यानां द्रोणः परमदुर्मनाः
दुर्योधनमभिप्रेक्ष्य सव्रीडमिदमब्रवीत्
७.१६.४उक्तमेतन्मया पूर्वं न तिष्ठति धनंजये
शक्यो ग्रहीतुं संग्रामे देवैरपि युधिष्ठिरः
७.१६.५इति तद्वः प्रयततां कृतं पार्थेन संयुगे
मातिशङ्कीर्वचो मह्यमजेयौ कृष्णपाण्डवौ
७.१६.६अपनीते तु योगेन केनचिच्छ्वेतवाहने
तत एष्यति ते राजन्वशमद्य युधिष्ठिरः
७.१६.७कश्चिदाह्वयतां संख्ये देशमन्यं प्रकर्षतु
तमजित्वा तु कौन्तेयो न निवर्तेत्कथंचन
७.१६.८एतस्मिन्नन्तरे शून्ये धर्मराजमहं नृप
ग्रहीष्यामि चमूं भित्त्वा धृष्टद्युम्नस्य पश्यतः
७.१६.९अर्जुनेन विहीनस्तु यदि नोत्सृजते रणम्
मामुपायान्तमालोक्य गृहीतमिति विद्धि तम्
७.१६.१०एवं ते सहसा राजन्धर्मपुत्रं युधिष्ठिरम्
समानेष्यामि सगणं वशमद्य न संशयः
७.१६.११यदि तिष्ठति संग्रामे मुहूर्तमपि पाण्डवः
अथापयाति संग्रामाद्विजयात्तद्विशिष्यते
७.१६.१२द्रोणस्य तु वचः श्रुत्वा त्रिगर्ताधिपतिस्ततः
भ्रातृभिः सहितो राजन्निदं वचनमब्रवीत्
७.१६.१३वयं विनिकृता राजन्सदा गाण्डीवधन्वना
अनागःस्वपि चागस्कृदस्मासु भरतर्षभ
७.१६.१४ते वयं स्मरमाणास्तान्विनिकारान्पृथग्विधान्
क्रोधाग्निना दह्यमाना न शेमहि सदा निशाः
७.१६.१५स नो दिव्यास्त्रसंपन्नश्चक्षुर्विषयमागतः
कर्तारः स्म वयं सर्वं यच्चिकीर्षाम हृद्गतम्
७.१६.१६भवतश्च प्रियं यत्स्यादस्माकं च यशस्करम्
वयमेनं हनिष्यामो निकृष्यायोधनाद्बहिः
७.१६.१७अद्यास्त्वनर्जुना भूमिरत्रिगर्ताथ वा पुनः
सत्यं ते प्रतिजानीमो नैतन्मिथ्या भविष्यति
७.१६.१८एवं सत्यरथश्चोक्त्वा सत्यधर्मा च भारत
सत्यवर्मा च सत्येषुः सत्यकर्मा तथैव च
७.१६.१९सहिता भ्रातरः पञ्च रथानामयुतेन च
न्यवर्तन्त महाराज कृत्वा शपथमाहवे
७.१६.२०मालवास्तुण्डिकेराश्च रथानामयुतैस्त्रिभिः
सुशर्मा च नरव्याघ्रस्त्रिगर्तः प्रस्थलाधिपः
७.१६.२१माचेल्लकैर्ललित्थैश्च सहितो मद्रकैरपि
रथानामयुतेनैव सोऽशपद्भ्रातृभिः सह
७.१६.२२नानाजनपदेभ्यश्च रथानामयुतं पुनः
समुत्थितं विशिष्टानां संशपार्थमुपागतम्
७.१६.२३ततो ज्वलनमादाय हुत्वा सर्वे पृथक्पृथक्
जगृहुः कुशचीराणि चित्राणि कवचानि च
७.१६.२४ते च बद्धतनुत्राणा घृताक्ताः कुशचीरिणः
मौर्वीमेखलिनो वीराः सहस्रशतदक्षिणाः
७.१६.२५यज्वानः पुत्रिणो लोक्याः कृतकृत्यास्तनुत्यजः
योक्ष्यमाणास्तदात्मानं यशसा विजयेन च
७.१६.२६ब्रह्मचर्यश्रुतिमुखैः क्रतुभिश्चाप्तदक्षिणैः
प्राप्य लोकान्सुयुद्धेन क्षिप्रमेव यियासवः
७.१६.२७ब्राह्मणांस्तर्पयित्वा च निष्कान्दत्त्वा पृथक्पृथक्
गाश्च वासांसि च पुनः समाभाष्य परस्परम्
७.१६.२८प्रज्वाल्य कृष्णवर्त्मानमुपागम्य रणे व्रतम्
तस्मिन्नग्नौ तदा चक्रुः प्रतिज्ञां दृढनिश्चयाः
७.१६.२९शृण्वतां सर्वभूतानामुच्चैर्वाचः स्म मेनिरे
धृत्वा धनंजयवधे प्रतिज्ञां चापि चक्रिरे
७.१६.३०ये वै लोकाश्चानृतानां ये चैव ब्रह्मघातिनाम्
पानपस्य च ये लोका गुरुदाररतस्य च
७.१६.३१ब्रह्मस्वहारिणश्चैव राजपिण्डापहारिणः
शरणागतं च त्यजतो याचमानं तथा घ्नतः
७.१६.३२अगारदाहिनां ये च ये च गां निघ्नतामपि
अपचारिणां च ये लोका ये च ब्रह्मद्विषामपि
७.१६.३३जायां च ऋतुकाले वै ये मोहादभिगच्छताम्
श्राद्धसंगतिकानां च ये चाप्यात्मापहारिणाम्
७.१६.३४न्यासापहारिणां ये च श्रुतं नाशयतां च ये
कोपेन युध्यमानानां ये च नीचानुसारिणाम्
७.१६.३५नास्तिकानां च ये लोका येऽग्निहोरापितृत्यजाम्
तानाप्नुयामहे लोकान्ये च पापकृतामपि
७.१६.३६यद्यहत्वा वयं युद्धे निवर्तेम धनंजयम्
तेन चाभ्यर्दितास्त्रासाद्भवेम हि पराङ्मुखाः
७.१६.३७यदि त्वसुकरं लोके कर्म कुर्याम संयुगे
इष्टान्पुण्यकृतां लोकान्प्राप्नुयाम न संशयः
७.१६.३८एवमुक्त्वा ततो राजंस्तेऽभ्यवर्तन्त संयुगे
आह्वयन्तोऽर्जुनं वीराः पितृजुष्टां दिशं प्रति
७.१६.३९आहूतस्तैर्नरव्याघ्रैः पार्थः परपुरंजयः
धर्मराजमिदं वाक्यमपदान्तरमब्रवीत्
७.१६.४०आहूतो न निवर्तेयमिति मे व्रतमाहितम्
संशप्तकाश्च मां राजन्नाह्वयन्ति पुनः पुनः
७.१६.४१एष च भ्रातृभिः सार्धं सुशर्माह्वयते रणे
वधाय सगणस्यास्य मामनुज्ञातुमर्हसि
७.१६.४२नैतच्छक्नोमि संसोढुमाह्वानं पुरुषर्षभ
सत्यं ते प्रतिजानामि हतान्विद्धि परान्युधि
७.१६.४३युधिष्ठिर उवाच
७.१६.४४श्रुतमेतत्त्वया तात यद्द्रोणस्य चिकीर्षितम्
यथा तदनृतं तस्य भवेत्तद्वत्समाचर
७.१६.४५द्रोणो हि बलवाञ्शूरः कृतास्त्रश्च जितश्रमः
प्रतिज्ञातं च तेनैतद्ग्रहणं मे महारथ
७.१६.४६अर्जुन उवाच
७.१६.४७अयं वै सत्यजिद्राजन्नद्य ते रक्षिता युधि
ध्रियमाणे हि पाञ्चाल्ये नाचार्यः काममाप्स्यति
७.१६.४८हते तु पुरुषव्याघ्रे रणे सत्यजिति प्रभो
सर्वैरपि समेतैर्वा न स्थातव्यं कथंचन
७.१६.४९संजय उवाच
७.१६.५०अनुज्ञातस्ततो राज्ञा परिष्वक्तश्च फल्गुनः
प्रेम्णा दृष्टश्च बहुधा आशिषा च प्रयोजितः
७.१६.५१विहायैनं ततः पार्थस्त्रिगर्तान्प्रत्ययाद्बली
क्षुधितः क्षुद्विघातार्थं सिंहो मृगगणानिव
७.१६.५२ततो दौर्योधनं सैन्यं मुदा परमया युतम्
गतेऽर्जुने भृशं क्रुद्धं धर्मराजस्य निग्रहे
७.१६.५३ततोऽन्योन्येन ते सेने समाजग्मतुरोजसा
गङ्गासरय्वोर्वेगेन प्रावृषीवोल्बणोदके