७. द्रोणपर्व
७.१८.१संजय उवाच

७.१८.२दृष्ट्वा तु संनिवृत्तांस्तान्संशप्तकगणान्पुनः
वासुदेवं महात्मानमर्जुनः समभाषत

७.१८.३चोदयाश्वान्हृषीकेश संशप्तकगणान्प्रति
नैते हास्यन्ति संग्रामं जीवन्त इति मे मतिः

७.१८.४पश्य मेऽस्त्रबलं घोरं बाह्वोरिष्वसनस्य च
अद्यैतान्पातयिष्यामि क्रुद्धो रुद्रः पशूनिव

७.१८.५ततः कृष्णः स्मितं कृत्वा परिणन्द्य शिवेन तम्
प्रावेशयत दुर्धर्षो यत्र यत्रैच्छदर्जुनः

७.१८.६बभ्राजे स रथोऽत्यर्थमुह्यमानो रणे तदा
उह्यमानमिवाकाशे विमानं पाण्डुरैर्हयैः

७.१८.७मण्डलानि ततश्चक्रे गतप्रत्यागतानि च
यथा शक्ररथो राजन्युद्धे देवासुरे पुरा

७.१८.८अथ नारायणाः क्रुद्धा विविधायुधपाणयः
छादयन्तः शरव्रातैः परिवव्रुर्धनंजयम्

७.१८.९अदृश्यं च मुहूर्तेन चक्रुस्ते भरतर्षभ
कृष्णेन सहितं युद्धे कुन्तीपुत्रं धनंजयम्

७.१८.१०क्रुद्धस्तु फल्गुनः संख्ये द्विगुणीकृतविक्रमः
गाण्डीवमुपसंमृज्य तूर्णं जग्राह संयुगे

७.१८.११बद्ध्वा च भृकुटीं वक्त्रे क्रोधस्य प्रतिलक्षणम्
देवदत्तं महाशङ्खं पूरयामास पाण्डवः

७.१८.१२अथास्त्रमरिसंघघ्नं त्वाष्ट्रमभ्यस्यदर्जुनः
ततो रूपसहस्राणि प्रादुरासन्पृथक्पृथक्

७.१८.१३आत्मनः प्रतिरूपैस्तैर्नानारूपैर्विमोहिताः
अन्योन्यमर्जुनं मत्वा स्वमात्मानं च जघ्निरे

७.१८.१४अयमर्जुनोऽयं गोविन्द इमौ यादवपाण्डवौ
इति ब्रुवाणाः संमूढा जघ्नुरन्योन्यमाहवे

७.१८.१५मोहिताः परमास्त्रेण क्षयं जग्मुः परस्परम्
अशोभन्त रणे योधाः पुष्पिता इव किंशुकाः

७.१८.१६ततः शरसहस्राणि तैर्विमुक्तानि भस्मसात्
कृत्वा तदस्त्रं तान्वीराननयद्यमसादनम्

७.१८.१७अथ प्रहस्य बीभत्सुर्ललित्थान्मालवानपि
माचेल्लकांस्त्रिगर्तांश्च यौधेयांश्चार्दयच्छरैः

७.१८.१८ते वध्यमाना वीरेण क्षत्रियाः कालचोदिताः
व्यसृजञ्शरवर्षाणि पार्थे नानाविधानि च

७.१८.१९ततो नैवार्जुनस्तत्र न रथो न च केशवः
प्रत्यदृश्यत घोरेण शरवर्षेण संवृतः

७.१८.२०ततस्ते लब्धलक्ष्यत्वादन्योन्यमभिचुक्रुशुः
हतौ कृष्णाविति प्रीता वासांस्यादुधुवुस्तदा

७.१८.२१भेरीमृदङ्गशङ्खांश्च दध्मुर्वीराः सहस्रशः
सिंहनादरवांश्चोग्रांश्चक्रिरे तत्र मारिष

७.१८.२२ततः प्रसिष्विदे कृष्णः खिन्नश्चार्जुनमब्रवीत्
क्वासि पार्थ न पश्ये त्वां कच्चिज्जीवसि शत्रुहन्

७.१८.२३तस्य तं मानुषं भावं भावज्ञोऽऽज्ञाय पाण्डवः
वायव्यास्त्रेण तैरस्तां शरवृष्टिमपाहरत्

७.१८.२४ततः संशप्तकव्रातान्साश्वद्विपरथायुधान्
उवाह भगवान्वायुः शुष्कपर्णचयानिव

७.१८.२५उह्यमानास्तु ते राजन्बह्वशोभन्त वायुना
प्रडीनाः पक्षिणः काले वृक्षेभ्य इव मारिष

७.१८.२६तांस्तथा व्याकुलीकृत्य त्वरमाणो धनंजयः
जघान निशितैर्बाणैः सहस्राणि शतानि च

७.१८.२७शिरांसि भल्लैरहरद्बाहूनपि च सायुधान्
हस्तिहस्तोपमांश्चोरूञ्शरैरुर्व्यामपातयत्

७.१८.२८पृष्ठच्छिन्नान्विचरणान्विमस्तिष्केक्षणाङ्गुलीन्
नानाङ्गावयवैर्हीनांश्चकारारीन्धनंजयः

७.१८.२९गन्धर्वनगराकारान्विधिवत्कल्पितान्रथान्
शरैर्विशकलीकुर्वंश्चक्रे व्यश्वरथद्विपान्

७.१८.३०मुण्डतालवनानीव तत्र तत्र चकाशिरे
छिन्नध्वजरथव्राताः केचित्केचित्क्वचित्क्वचित्

७.१८.३१सोत्तरायुधिनो नागाः सपताकाङ्कुशायुधाः
पेतुः शक्राशनिहता द्रुमवन्त इवाचलाः

७.१८.३२चामरापीडकवचाः स्रस्तान्त्रनयनासवः
सारोहास्तुरगाः पेतुः पार्थबाणहताः क्षितौ

७.१८.३३विप्रविद्धासिनखराश्छिन्नवर्मर्ष्टिशक्तयः
पत्तयश्छिन्नवर्माणः कृपणं शेरते हताः

७.१८.३४तैर्हतैर्हन्यमानैश्च पतद्भिः पतितैरपि
भ्रमद्भिर्निष्टनद्भिश्च घोरमायोधनं बभौ

७.१८.३५रजश्च महदुद्भूतं शान्तं रुधिरवृष्टिभिः
मही चाप्यभवद्दुर्गा कबन्धशतसंकुला

७.१८.३६तद्बभौ रौद्रबीभत्सं बीभत्सोर्यानमाहवे
आक्रीड इव रुद्रस्य घ्नतः कालात्यये पशून्

७.१८.३७ते वध्यमानाः पार्थेन व्याकुलाश्वरथद्विपाः
तमेवाभिमुखाः क्षीणाः शक्रस्यातिथितां गताः

७.१८.३८सा भूमिर्भरतश्रेष्ठ निहतैस्तैर्महारथैः
आस्तीर्णा संबभौ सर्वा प्रेतीभूतैः समन्ततः

७.१८.३९एतस्मिन्नन्तरे चैव प्रमत्ते सव्यसाचिनि
व्यूढानीकस्ततो द्रोणो युधिष्ठिरमुपाद्रवत्

७.१८.४०तं प्रत्यगृह्णंस्त्वरिता व्यूढानीकाः प्रहारिणः
युधिष्ठिरं परीप्सन्तस्तदासीत्तुमुलं महत्