७.२१.१धृतराष्ट्र उवाच
७.२१.२भारद्वाजेन भग्नेषु पाण्डवेषु महामृधे
पाञ्चालेषु च सर्वेषु कश्चिदन्योऽभ्यवर्तत
७.२१.३आर्यां युद्धे मतिं कृत्वा क्षत्रियाणां यशस्करीम्
असेवितां कापुरुषैः सेवितां पुरुषर्षभैः
७.२१.४स हि वीरो नरः सूत यो भग्नेषु निवर्तते
अहो नासीत्पुमान्कश्चिद्दृष्ट्वा द्रोणं व्यवस्थितम्
७.२१.५जृम्भमाणमिव व्याघ्रं प्रभिन्नमिव कुञ्जरम्
त्यजन्तमाहवे प्राणान्संनद्धं चित्रयोधिनम्
७.२१.६महेष्वासं नरव्याघ्रं द्विषतामघवर्धनम्
कृतज्ञं सत्यनिरतं दुर्योधनहितैषिणम्
७.२१.७भारद्वाजं तथानीके दृष्ट्वा शूरमवस्थितम्
के वीराः संन्यवर्तन्त तन्ममाचक्ष्व संजय
७.२१.८संजय उवाच
७.२१.९तान्दृष्ट्वा चलितान्संख्ये प्रणुन्नान्द्रोणसायकैः
पाञ्चालान्पाण्डवान्मत्स्यान्सृञ्जयांश्चेदिकेकयान्
७.२१.१०द्रोणचापविमुक्तेन शरौघेणासुहारिणा
सिन्धोरिव महौघेन ह्रियमाणान्यथा प्लवान्
७.२१.११कौरवाः सिंहनादेन नानावाद्यस्वनेन च
रथद्विपनराश्वैश्च सर्वतः पर्यवारयन्
७.२१.१२तान्पश्यन्सैन्यमध्यस्थो राजा स्वजनसंवृतः
दुर्योधनोऽब्रवीत्कर्णं प्रहृष्टः प्रहसन्निव
७.२१.१३पश्य राधेय पाञ्चालान्प्रणुन्नान्द्रोणसायकैः
सिंहेनेव मृगान्वन्यांस्त्रासितान्दृढधन्वना
७.२१.१४नैते जातु पुनर्युद्धमीहेयुरिति मे मतिः
यथा तु भग्ना द्रोणेन वातेनेव महाद्रुमाः
७.२१.१५अर्द्यमानाः शरैरेते रुक्मपुङ्खैर्महात्मना
पथा नैकेन गच्छन्ति घूर्णमानास्ततस्ततः
७.२१.१६संनिरुद्धाश्च कौरव्यैर्द्रोणेन च महात्मना
एतेऽन्ये मण्डलीभूताः पावकेनेव कुञ्जराः
७.२१.१७भ्रमरैरिव चाविष्टा द्रोणस्य निशितैः शरैः
अन्योन्यं समलीयन्त पलायनपरायणाः
७.२१.१८एष भीमो दृढक्रोधो हीनः पाण्डवसृञ्जयैः
मदीयैरावृतो योधैः कर्ण तर्जयतीव माम्
७.२१.१९व्यक्तं द्रोणमयं लोकमद्य पश्यति दुर्मतिः
निराशो जीवितान्नूनमद्य राज्याच्च पाण्डवः
७.२१.२०कर्ण उवाच
७.२१.२१नैष जातु महाबाहुर्जीवन्नाहवमुत्सृजेत्
न चेमान्पुरुषव्याघ्र सिंहनादान्विशक्ष्यते
७.२१.२२न चापि पाण्डवा युद्धे भज्येरन्निति मे मतिः
शूराश्च बलवन्तश्च कृतास्त्रा युद्धदुर्मदाः
७.२१.२३विषाग्निद्यूतसंक्लेशान्वनवासं च पाण्डवाः
स्मरमाणा न हास्यन्ति संग्राममिति मे मतिः
७.२१.२४निकृतो हि महाबाहुरमितौजा वृकोदरः
वरान्वरान्हि कौन्तेयो रथोदारान्हनिष्यति
७.२१.२५असिना धनुषा शक्त्या हयैर्नागैर्नरै रथैः
आयसेन च दण्डेन व्रातान्व्रातान्हनिष्यति
७.२१.२६तमेते चानुवर्तन्ते सात्यकिप्रमुखा रथाः
पाञ्चालाः केकया मत्स्याः पाण्डवाश्च विशेषतः
७.२१.२७शूराश्च बलवन्तश्च विक्रान्ताश्च महारथाः
विशेषतश्च भीमेन संरब्धेनाभिचोदिताः
७.२१.२८ते द्रोणमभिवर्तन्ते सर्वतः कुरुपुंगवाः
वृकोदरं परीप्सन्तः सूर्यमभ्रगणा इव
७.२१.२९एकायनगता ह्येते पीडयेयुर्यतव्रतम्
अरक्ष्यमाणं शलभा यथा दीपं मुमूर्षवः
असंशयं कृतास्त्राश्च पर्याप्ताश्चापि वारणे
७.२१.३०अतिभारं त्वहं मन्ये भारद्वाजे समाहितम्
ते शीघ्रमनुगच्छामो यत्र द्रोणो व्यवस्थितः
काका इव महानागं मा वै हन्युर्यतव्रतम्
७.२१.३१संजय उवाच
७.२१.३२राधेयस्य वचः श्रुत्वा राजा दुर्योधनस्तदा
भ्रातृभिः सहितो राजन्प्रायाद्द्रोणरथं प्रति
७.२१.३३तत्रारावो महानासीदेकं द्रोणं जिघांसताम्
पाण्डवानां निवृत्तानां नानावर्णैर्हयोत्तमैः