७.२६.१संजय उवाच
७.२६.२यन्मां पार्थस्य संग्रामे कर्माणि परिपृच्छसि
तच्छृणुष्व महाराज पार्थो यदकरोन्मृधे
७.२६.३रजो दृष्ट्वा समुद्भूतं श्रुत्वा च गजनिस्वनम्
भज्यतां भगदत्तेन कौन्तेयः कृष्णमब्रवीत्
७.२६.४यथा प्राग्ज्योतिषो राजा गजेन मधुसूदन
त्वरमाणोऽभ्यतिक्रान्तो ध्रुवं तस्यैष निस्वनः
७.२६.५इन्द्रादनवरः संख्ये गजयानविशारदः
प्रथमो वा द्वितीयो वा पृथिव्यामिति मे मतिः
७.२६.६स चापि द्विरदश्रेष्ठः सदाप्रतिगजो युधि
सर्वशब्दातिगः संख्ये कृतकर्मा जितक्लमः
७.२६.७सहः शस्त्रनिपातानामग्निस्पर्शस्य चानघ
स पाण्डवबलं व्यक्तमद्यैको नाशयिष्यति
७.२६.८न चावाभ्यामृतेऽन्योऽस्ति शक्तस्तं प्रतिबाधितुम्
त्वरमाणस्ततो याहि यतः प्राग्ज्योतिषाधिपः
७.२६.९शक्रसख्याद्द्विपबलैर्वयसा चापि विस्मितम्
अद्यैनं प्रेषयिष्यामि बलहन्तुः प्रियातिथिम्
७.२६.१०वचनादथ कृष्णस्तु प्रययौ सव्यसाचिनः
दार्यते भगदत्तेन यत्र पाण्डववाहिनी
७.२६.११तं प्रयान्तं ततः पश्चादाह्वयन्तो महारथाः
संशप्तकाः समारोहन्सहस्राणि चतुर्दश
७.२६.१२दशैव तु सहस्राणि त्रिगर्तानां नराधिप
चत्वारि तु सहस्राणि वासुदेवस्य येऽनुगाः
७.२६.१३दार्यमाणां चमूं दृष्ट्वा भगदत्तेन मारिष
आहूयमानस्य च तैरभवद्धृदयं द्विधा
७.२६.१४किं नु श्रेयस्करं कर्म भवेदिति विचिन्तयन्
इतो वा विनिवर्तेयं गच्छेयं वा युधिष्ठिरम्
७.२६.१५तस्य बुद्ध्या विचार्यैतदर्जुनस्य कुरूद्वह
अभवद्भूयसी बुद्धिः संशप्तकवधे स्थिरा
७.२६.१६स संनिवृत्तः सहसा कपिप्रवरकेतनः
एको रथसहस्राणि निहन्तुं वासवी रणे
७.२६.१७सा हि दुर्योधनस्यासीन्मतिः कर्णस्य चोभयोः
अर्जुनस्य वधोपाये तेन द्वैधमकल्पयत्
७.२६.१८स तु संवर्तयामास द्वैधीभावेन पाण्डवः
रथेन तु रथाग्र्याणामकरोत्तां मृषा तदा
७.२६.१९ततः शतसहस्राणि शराणां नतपर्वणाम्
व्यसृजन्नर्जुने राजन्संशप्तकमहारथाः
७.२६.२०नैव कुन्तीसुतः पार्थो नैव कृष्णो जनार्दनः
न हया न रथो राजन्दृश्यन्ते स्म शरैश्चिताः
७.२६.२१यदा मोहमनुप्राप्तः सस्वेदश्च जनार्दनः
ततस्तान्प्रायशः पार्थो वज्रास्त्रेण निजघ्निवान्
७.२६.२२शतशः पाणयश्छिन्नाः सेषुज्यातलकार्मुकाः
केतवो वाजिनः सूता रथिनश्चापतन्क्षितौ
७.२६.२३द्रुमाचलाग्राम्बुधरैः समरूपाः सुकल्पिताः
हतारोहाः क्षितौ पेतुर्द्विपाः पार्थशराहताः
७.२६.२४विप्रविद्धकुथावल्गाश्छिन्नभाण्डाः परासवः
सारोहास्तुरगाः पेतुर्मथिताः पार्थमार्गणैः
७.२६.२५सर्ष्टिचर्मासिनखराः समुद्गरपरश्वधाः
संछिन्ना बाहवः पेतुर्नृणां भल्लैः किरीटिना
७.२६.२६बालादित्याम्बुजेन्दूनां तुल्यरूपाणि मारिष
संछिन्नान्यर्जुनशरैः शिरांस्युर्वीं प्रपेदिरे
७.२६.२७जज्वालालंकृतैः सेना पत्रिभिः प्राणभोजनैः
नानालिङ्गैस्तदामित्रान्क्रुद्धे निघ्नति फल्गुने
७.२६.२८क्षोभयन्तं तदा सेनां द्विरदं नलिनीमिव
धनंजयं भूतगणाः साधु साध्वित्यपूजयन्
७.२६.२९दृष्ट्वा तत्कर्म पार्थस्य वासवस्येव माधवः
विस्मयं परमं गत्वा तलमाहत्य पूजयत्
७.२६.३०ततः संशप्तकान्हत्वा भूयिष्ठं ये व्यवस्थिताः
भगदत्ताय याहीति पार्थः कृष्णमचोदयत्