७. द्रोणपर्व
७.२८.१धृतराष्ट्र उवाच

७.२८.२तथा क्रुद्धः किमकरोद्भगदत्तस्य पाण्डवः
प्राग्ज्योतिषो वा पार्थस्य तन्मे शंस यथातथम्

७.२८.३संजय उवाच

७.२८.४प्राग्ज्योतिषेण संसक्तावुभौ दाशार्हपाण्डवौ
मृत्योरिवान्तिकं प्राप्तौ सर्वभूतानि मेनिरे

७.२८.५तथा हि शरवर्षाणि पातयत्यनिशं प्रभो
भगदत्तो गजस्कन्धात्कृष्णयोः स्यन्दनस्थयोः

७.२८.६अथ कार्ष्णायसैर्बाणैः पूर्णकार्मुकनिःसृतैः
अविध्यद्देवकीपुत्रं हेमपुङ्खैः शिलाशितैः

७.२८.७अग्निस्पर्शसमास्तीक्ष्णा भगदत्तेन चोदिताः
निर्भिद्य देवकीपुत्रं क्षितिं जग्मुः शरास्ततः

७.२८.८तस्य पार्थो धनुश्छित्त्वा शरावापं निहत्य च
लाडयन्निव राजानं भगदत्तमयोधयत्

७.२८.९सोऽर्करश्मिनिभांस्तीक्ष्णांस्तोमरान्वै चतुर्दश
प्रेरयत्सव्यसाची तांस्त्रिधैकैकमथाच्छिनत्

७.२८.१०ततो नागस्य तद्वर्म व्यधमत्पाकशासनिः
शरजालेन स बभौ व्यभ्रः पर्वतराडिव

७.२८.११ततः प्राग्ज्योतिषः शक्तिं हेमदण्डामयस्मयीम्
व्यसृजद्वासुदेवाय द्विधा तामर्जुनोऽच्छिनत्

७.२८.१२ततश्छत्रं ध्वजं चैव छित्त्वा राज्ञोऽर्जुनः शरैः
विव्याध दशभिस्तूर्णमुत्स्मयन्पर्वताधिपम्

७.२८.१३सोऽतिविद्धोऽर्जुनशरैः सुपुङ्खैः कङ्कपत्रिभिः
भगदत्तस्ततः क्रुद्धः पाण्डवस्य महात्मनः

७.२८.१४व्यसृजत्तोमरान्मूर्ध्नि श्वेताश्वस्योन्ननाद च
तैरर्जुनस्य समरे किरीटं परिवर्तितम्

७.२८.१५परिवृत्तं किरीटं तं यमयन्नेव फल्गुनः
सुदृष्टः क्रियतां लोक इति राजानमब्रवीत्

७.२८.१६एवमुक्तस्तु संक्रुद्धः शरवर्षेण पाण्डवम्
अभ्यवर्षत्सगोविन्दं धनुरादाय भास्वरम्

७.२८.१७तस्य पार्थो धनुश्छित्त्वा तूणीरान्संनिकृत्य च
त्वरमाणो द्विसप्तत्या सर्वमर्मस्वताडयत्

७.२८.१८विद्धस्तथाप्यव्यथितो वैष्णवास्त्रमुदीरयन्
अभिमन्त्र्याङ्कुशं क्रुद्धो व्यसृजत्पाण्डवोरसि

७.२८.१९विसृष्टं भगदत्तेन तदस्त्रं सर्वघातकम्
उरसा प्रतिजग्राह पार्थं संछाद्य केशवः

७.२८.२०वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि
ततोऽर्जुनः क्लान्तमनाः केशवं प्रत्यभाषत

७.२८.२१अयुध्यमानस्तुरगान्संयन्तास्मि जनार्दन
इत्युक्त्वा पुण्डरीकाक्ष प्रतिज्ञां स्वां न रक्षसि

७.२८.२२यद्यहं व्यसनी वा स्यामशक्तो वा निवारणे
ततस्त्वयैवं कार्यं स्यान्न तु कार्यं मयि स्थिते

७.२८.२३सबाणः सधनुश्चाहं ससुरासुरमानवान्
शक्तो लोकानिमाञ्जेतुं तच्चापि विदितं तव

७.२८.२४ततोऽर्जुनं वासुदेवः प्रत्युवाचार्थवद्वचः
शृणु गुह्यमिदं पार्थ यथा वृत्तं पुरानघ

७.२८.२५चतुर्मूर्तिरहं शश्वल्लोकत्राणार्थमुद्यतः
आत्मानं प्रविभज्येह लोकानां हितमादधे

७.२८.२६एका मूर्तिस्तपश्चर्यां कुरुते मे भुवि स्थिता
अपरा पश्यति जगत्कुर्वाणं साध्वसाधुनी

७.२८.२७अपरा कुरुते कर्म मानुषं लोकमाश्रिता
शेते चतुर्थी त्वपरा निद्रां वर्षसहस्रिकाम्

७.२८.२८यासौ वर्षसहस्रान्ते मूर्तिरुत्तिष्ठते मम
वरार्हेभ्यो वराञ्श्रेष्ठांस्तस्मिन्काले ददाति सा

७.२८.२९तं तु कालमनुप्राप्तं विदित्वा पृथिवी तदा
प्रायाचत वरं यं मां नरकार्थाय तं शृणु

७.२८.३०देवानामसुराणां च अवध्यस्तनयोऽस्तु मे
उपेतो वैष्णवास्त्रेण तन्मे त्वं दातुमर्हसि

७.२८.३१एवं वरमहं श्रुत्वा जगत्यास्तनये तदा
अमोघमस्त्रमददं वैष्णवं तदहं पुरा

७.२८.३२अवोचं चैतदस्त्रं वै ह्यमोघं भवतु क्षमे
नरकस्याभिरक्षार्थं नैनं कश्चिद्वधिष्यति

७.२८.३३अनेनास्त्रेण ते गुप्तः सुतः परबलार्दनः
भविष्यति दुराधर्षः सर्वलोकेषु सर्वदा

७.२८.३४तथेत्युक्त्वा गता देवी कृतकामा मनस्विनी
स चाप्यासीद्दुराधर्षो नरकः शत्रुतापनः

७.२८.३५तस्मात्प्राग्ज्योतिषं प्राप्तं तदस्त्रं पार्थ मामकम्
नास्यावध्योऽस्ति लोकेषु सेन्द्ररुद्रेषु मारिष

७.२८.३६तन्मया त्वत्कृतेनैतदन्यथा व्यपनाशितम्
वियुक्तं परमास्त्रेण जहि पार्थ महासुरम्

७.२८.३७वैरिणं युधि दुर्धर्षं भगदत्तं सुरद्विषम्
यथाहं जघ्निवान्पूर्वं हितार्थं नरकं तथा

७.२८.३८एवमुक्तस्ततः पार्थः केशवेन महात्मना
भगदत्तं शितैर्बाणैः सहसा समवाकिरत्

७.२८.३९ततः पार्थो महाबाहुरसंभ्रान्तो महामनाः
कुम्भयोरन्तरे नागं नाराचेन समार्पयत्

७.२८.४०समासाद्य तु तं नागं बाणो वज्र इवाचलम्
अभ्यगात्सह पुङ्खेन वल्मीकमिव पन्नगः

७.२८.४१स तु विष्टभ्य गात्राणि दन्ताभ्यामवनिं ययौ
नदन्नार्तस्वरं प्राणानुत्ससर्ज महाद्विपः

७.२८.४२ततश्चन्द्रार्धबिम्बेन शरेण नतपर्वणा
बिभेद हृदयं राज्ञो भगदत्तस्य पाण्डवः

७.२८.४३स भिन्नहृदयो राजा भगदत्तः किरीटिना
शरासनं शरांश्चैव गतासुः प्रमुमोच ह

७.२८.४४शिरसस्तस्य विभ्रष्टः पपात च वराङ्कुशः
नालताडनविभ्रष्टं पलाशं नलिनादिव

७.२८.४५स हेममाली तपनीयभाण्डा;त्पपात नागाद्गिरिसंनिकाशात्
सुपुष्पितो मारुतवेगरुग्णो; महीधराग्रादिव कर्णिकारः

७.२८.४६निहत्य तं नरपतिमिन्द्रविक्रमं; सखायमिन्द्रस्य तथैन्द्रिराहवे
ततोऽपरांस्तव जयकाङ्क्षिणो नरा;न्बभञ्ज वायुर्बलवान्द्रुमानिव