७. द्रोणपर्व
७.२९.१संजय उवाच

७.२९.२प्रियमिन्द्रस्य सततं सखायममितौजसम्
हत्वा प्राग्ज्योतिषं पार्थः प्रदक्षिणमवर्तत

७.२९.३ततो गान्धारराजस्य सुतौ परपुरंजयौ
आर्छेतामर्जुनं संख्ये भ्रातरौ वृषकाचलौ

७.२९.४तौ समेत्यार्जुनं वीरौ पुरः पश्चाच्च धन्विनौ
अविध्येतां महावेगैर्निशितैराशुगैर्भृशम्

७.२९.५वृषकस्य हयान्सूतं धनुश्छत्रं रथं ध्वजम्
तिलशो व्यधमत्पार्थः सौबलस्य शितैः शरैः

७.२९.६ततोऽर्जुनः शरव्रातैर्नानाप्रहरणैरपि
गान्धारान्व्याकुलांश्चक्रे सौबलप्रमुखान्पुनः

७.२९.७ततः पञ्चशतान्वीरान्गान्धारानुद्यतायुधान्
प्राहिणोन्मृत्युलोकाय क्रुद्धो बाणैर्धनंजयः

७.२९.८हताश्वात्तु रथात्तूर्णमवतीर्य महाभुजः
आरुरोह रथं भ्रातुरन्यच्च धनुराददे

७.२९.९तावेकरथमारूढौ भ्रातरौ वृषकाचलौ
शरवर्षेण बीभत्सुमविध्येतां पुनः पुनः

७.२९.१०स्यालौ तव महात्मानौ राजानौ वृषकाचलौ
भृशं निजघ्नतुः पार्थमिन्द्रं वृत्रबलाविव

७.२९.११लब्धलक्ष्यौ तु गान्धारावहतां पाण्डवं पुनः
निदाघवार्षिकौ मासौ लोकं घर्माम्बुभिर्यथा

७.२९.१२तौ रथस्थौ नरव्याघ्रौ राजानौ वृषकाचलौ
संश्लिष्टाङ्गौ स्थितौ राजञ्जघानैकेषुणार्जुनः

७.२९.१३तौ रथात्सिंहसंकाशौ लोहिताक्षौ महाभुजौ
गतासू पेततुर्वीरौ सोदर्यावेकलक्षणौ

७.२९.१४तयोर्देहौ रथाद्भूमिं गतौ बन्धुजनप्रियौ
यशो दश दिशः पुण्यं गमयित्वा व्यवस्थितौ

७.२९.१५दृष्ट्वा विनिहतौ संख्ये मातुलावपलायिनौ
भृशं मुमुचुरश्रूणि पुत्रास्तव विशां पते

७.२९.१६निहतौ भ्रातरौ दृष्ट्वा मायाशतविशारदः
कृष्णौ संमोहयन्मायां विदधे शकुनिस्ततः

७.२९.१७लगुडायोगुडाश्मानः शतघ्न्यश्च सशक्तयः
गदापरिघनिस्त्रिंशशूलमुद्गरपट्टिशाः

७.२९.१८सकम्पनर्ष्टिनखरा मुसलानि परश्वधाः
क्षुराः क्षुरप्रनालीका वत्सदन्तास्त्रिसंधिनः

७.२९.१९चक्राणि विशिखाः प्रासा विविधान्यायुधानि च
प्रपेतुः सर्वतो दिग्भ्यः प्रदिग्भ्यश्चार्जुनं प्रति

७.२९.२०खरोष्ट्रमहिषाः सिंहा व्याघ्राः सृमरचिल्लिकाः
ऋक्षाः सालावृका गृध्राः कपयोऽथ सरीसृपाः

७.२९.२१विविधानि च रक्षांसि क्षुधितान्यर्जुनं प्रति
संक्रुद्धान्यभ्यधावन्त विविधानि वयांसि च

७.२९.२२ततो दिव्यास्त्रविच्छूरः कुन्तीपुत्रो धनंजयः
विसृजन्निषुजालानि सहसा तान्यताडयत्

७.२९.२३ते हन्यमानाः शूरेण प्रवरैः सायकैर्दृढैः
विरुवन्तो महारावान्विनेशुः सर्वतो हताः

७.२९.२४ततस्तमः प्रादुरभूदर्जुनस्य रथं प्रति
तस्माच्च तमसो वाचः क्रूराः पार्थमभर्त्सयन्

७.२९.२५तत्तमोऽस्त्रेण महता ज्योतिषेणार्जुनोऽवधीत्
हते तस्मिञ्जलौघास्तु प्रादुरासन्भयानकाः

७.२९.२६अम्भसस्तस्य नाशार्थमादित्यास्त्रमथार्जुनः
प्रायुङ्क्ताम्भस्ततस्तेन प्रायशोऽस्त्रेण शोषितम्

७.२९.२७एवं बहुविधा मायाः सौबलस्य कृताः कृताः
जघानास्त्रबलेनाशु प्रहसन्नर्जुनस्तदा

७.२९.२८तथा हतासु मायासु त्रस्तोऽर्जुनशराहतः
अपायाज्जवनैरश्वैः शकुनिः प्राकृतो यथा

७.२९.२९ततोऽर्जुनोऽस्त्रविच्छ्रैष्ठ्यं दर्शयन्नात्मनोऽरिषु
अभ्यवर्षच्छरौघेण कौरवाणामनीकिनीम्

७.२९.३०सा हन्यमाना पार्थेन पुत्रस्य तव वाहिनी
द्वैधीभूता महाराज गङ्गेवासाद्य पर्वतम्

७.२९.३१द्रोणमेवान्वपद्यन्त केचित्तत्र महारथाः
केचिद्दुर्योधनं राजन्नर्द्यमानाः किरीटिना

७.२९.३२नापश्याम ततस्त्वेतत्सैन्यं वै तमसावृतम्
गाण्डीवस्य च निर्घोषः श्रुतो दक्षिणतो मया

७.२९.३३शङ्खदुन्दुभिनिर्घोषं वादित्राणां च निस्वनम्
गाण्डीवस्य च निर्घोषो व्यतिक्रम्यास्पृशद्दिवम्

७.२९.३४ततः पुनर्दक्षिणतः संग्रामश्चित्रयोधिनाम्
सुयुद्धमर्जुनस्यासीदहं तु द्रोणमन्वगाम्

७.२९.३५नानाविधान्यनीकानि पुत्राणां तव भारत
अर्जुनो व्यधमत्काले दिवीवाभ्राणि मारुतः

७.२९.३६तं वासवमिवायान्तं भूरिवर्षशरौघिणम्
महेष्वासं नरव्याघ्रं नोग्रं कश्चिदवारयत्

७.२९.३७ते हन्यमानाः पार्थेन त्वदीया व्यथिता भृशम्
स्वानेव बहवो जघ्नुर्विद्रवन्तस्ततस्ततः

७.२९.३८तेऽर्जुनेन शरा मुक्ताः कङ्कपत्रास्तनुच्छिदः
शलभा इव संपेतुः संवृण्वाना दिशो दश

७.२९.३९तुरगं रथिनं नागं पदातिमपि मारिष
विनिर्भिद्य क्षितिं जग्मुर्वल्मीकमिव पन्नगाः

७.२९.४०न च द्वितीयं व्यसृजत्कुञ्जराश्वनरेषु सः
पृथगेकशरारुग्णा निपेतुस्ते गतासवः

७.२९.४१हतैर्मनुष्यैस्तुरगैश्च सर्वतः; शराभिवृष्टैर्द्विरदैश्च पातितैः
तदा श्वगोमायुबडाभिनादितं; विचित्रमायोधशिरो बभूव ह

७.२९.४२पिता सुतं त्यजति सुहृद्वरं सुहृ;त्तथैव पुत्रः पितरं शरातुरः
स्वरक्षणे कृतमतयस्तदा जना;स्त्यजन्ति वाहानपि पार्थपीडिताः