७. द्रोणपर्व
७.३९.१संजय उवाच

७.३९.२शरविक्षतगात्रस्तु प्रत्यमित्रमवस्थितम्
अभिमन्युः स्मयन्धीमान्दुःशासनमथाब्रवीत्

७.३९.३दिष्ट्या पश्यामि संग्रामे मानिनं शत्रुमागतम्
निष्ठुरं त्यक्तधर्माणमाक्रोशनपरायणम्

७.३९.४यत्सभायां त्वया राज्ञो धृतराष्ट्रस्य शृण्वतः
कोपितः परुषैर्वाक्यैर्धर्मराजो युधिष्ठिरः
जयोन्मत्तेन भीमश्च बह्वबद्धं प्रभाषता

७.३९.५परवित्तापहारस्य क्रोधस्याप्रशमस्य च
लोभस्य ज्ञाननाशस्य द्रोहस्यात्याहितस्य च

७.३९.६पितॄणां मम राज्यस्य हरणस्योग्रधन्विनाम्
तत्त्वामिदमनुप्राप्तं तत्कोपाद्वै महात्मनाम्

७.३९.७सद्यश्चोग्रमधर्मस्य फलं प्राप्नुहि दुर्मते
शासितास्म्यद्य ते बाणैः सर्वसैन्यस्य पश्यतः

७.३९.८अद्याहमनृणस्तस्य कोपस्य भविता रणे
अमर्षितायाः कृष्णायाः काङ्क्षितस्य च मे पितुः

७.३९.९अद्य कौरव्य भीमस्य भवितास्म्यनृणो युधि
न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे रणम्

७.३९.१०एवमुक्त्वा महाबाहुर्बाणं दुःशासनान्तकम्
संदधे परवीरघ्नः कालाग्न्यनिलवर्चसम्

७.३९.११तस्योरस्तूर्णमासाद्य जत्रुदेशे विभिद्य तम्
अथैनं पञ्चविंशत्या पुनश्चैव समर्पयत्

७.३९.१२स गाढविद्धो व्यथितो रथोपस्थ उपाविशत्
दुःशासनो महाराज कश्मलं चाविशन्महत्

७.३९.१३सारथिस्त्वरमाणस्तु दुःशासनमचेतसम्
रणमध्यादपोवाह सौभद्रशरपीडितम्

७.३९.१४पाण्डवा द्रौपदेयाश्च विराटश्च समीक्ष्य तम्
पाञ्चालाः केकयाश्चैव सिंहनादमथानदन्

७.३९.१५वादित्राणि च सर्वाणि नानालिङ्गानि सर्वशः
प्रावादयन्त संहृष्टाः पाण्डूनां तत्र सैनिकाः

७.३९.१६पश्यन्तः स्मयमानाश्च सौभद्रस्य विचेष्टितम्
अत्यन्तवैरिणं दृप्तं दृष्ट्वा शत्रुं पराजितम्

७.३९.१७धर्ममारुतशक्राणामाश्विनोः प्रतिमास्तथा
धारयन्तो ध्वजाग्रेषु द्रौपदेया महारथाः

७.३९.१८सात्यकिश्चेकितानश्च धृष्टद्युम्नशिखण्डिनौ
केकया धृष्टकेतुश्च मत्स्यपाञ्चालसृंजयाः

७.३९.१९पाण्डवाश्च मुदा युक्ता युधिष्ठिरपुरोगमाः
अभ्यवर्तन्त सहिता द्रोणानीकं बिभित्सवः

७.३९.२०ततोऽभवन्महद्युद्धं त्वदीयानां परैः सह
जयमाकाङ्क्षमाणानां शूराणामनिवर्तिनाम्

७.३९.२१दुर्योधनो महाराज राधेयमिदमब्रवीत्
पश्य दुःशासनं वीरमभिमन्युवशं गतम्

७.३९.२२प्रतपन्तमिवादित्यं निघ्नन्तं शात्रवान्रणे
सौभद्रमुद्यतास्त्रातुमभिधावन्ति पाण्डवाः

७.३९.२३ततः कर्णः शरैस्तीक्ष्णैरभिमन्युं दुरासदम्
अभ्यवर्षत संक्रुद्धः पुत्रस्य हितकृत्तव

७.३९.२४तस्य चानुचरांस्तीक्ष्णैर्विव्याध परमेषुभिः
अवज्ञापूर्वकं वीरः सौभद्रस्य रणाजिरे

७.३९.२५अभिमन्युस्तु राधेयं त्रिसप्तत्या शिलीमुखैः
अविध्यत्त्वरितो राजन्द्रोणं प्रेप्सुर्महामनाः

७.३९.२६तं तदा नाशकत्कश्चिद्द्रोणाद्वारयितुं रणे
आरुजन्तं रथश्रेष्ठान्वज्रहस्तमिवासुरान्

७.३९.२७ततः कर्णो जयप्रेप्सुर्मानी सर्वधनुर्भृताम्
सौभद्रं शतशोऽविध्यदुत्तमास्त्राणि दर्शयन्

७.३९.२८सोऽस्त्रैरस्त्रविदां श्रेष्ठो रामशिष्यः प्रतापवान्
समरे शत्रुदुर्धर्षमभिमन्युमपीडयत्

७.३९.२९स तथा पीड्यमानस्तु राधेयेनास्त्रवृष्टिभिः
समरेऽमरसंकाशः सौभद्रो न व्यषीदत

७.३९.३०ततः शिलाशितैस्तीक्ष्णैर्भल्लैः संनतपर्वभिः
छित्त्वा धनूंषि शूराणामार्जुनिः कर्णमार्दयत्
स ध्वजं कार्मुकं चास्य छित्त्वा भूमौ न्यपातयत्

७.३९.३१ततः कृच्छ्रगतं कर्णं दृष्ट्वा कर्णादनन्तरः
सौभद्रमभ्ययात्तूर्णं दृढमुद्यम्य कार्मुकम्

७.३९.३२तत उच्चुक्रुशुः पार्थास्तेषां चानुचरा जनाः
वादित्राणि च संजघ्नुः सौभद्रं चापि तुष्टुवुः