७. द्रोणपर्व
७.४६.१धृतराष्ट्र उवाच

७.४६.२तथा प्रविष्टं तरुणं सौभद्रमपराजितम्
कुलानुरूपं कुर्वाणं संग्रामेष्वपलायिनम्

७.४६.३आजानेयैः सुबलिभिर्युक्तमश्वैस्त्रिहायनैः
प्लवमानमिवाकाशे के शूराः समवारयन्

७.४६.४संजय उवाच

७.४६.५अभिमन्युः प्रविश्यैव तावकान्निशितैः शरैः
अकरोद्विमुखान्सर्वान्पार्थिवान्पाण्डुनन्दनः

७.४६.६तं तु द्रोणः कृपः कर्णो द्रौणिश्च सबृहद्बलः
कृतवर्मा च हार्दिक्यः षड्रथाः पर्यवारयन्

७.४६.७दृष्ट्वा तु सैन्धवे भारमतिमात्रं समाहितम्
सैन्यं तव महाराज युधिष्ठिरमुपाद्रवत्

७.४६.८सौभद्रमितरे वीरमभ्यवर्षञ्शराम्बुभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः

७.४६.९तांस्तु सर्वान्महेष्वासान्सर्वविद्यासु निष्ठितान्
व्यष्टम्भयद्रणे बाणैः सौभद्रः परवीरहा

७.४६.१०द्रोणं पञ्चाशता विद्ध्वा विंशत्या च बृहद्बलम्
अशीत्या कृतवर्माणं कृपं षष्ट्या शिलीमुखैः

७.४६.११रुक्मपुङ्खैर्महावेगैराकर्णसमचोदितैः
अविध्यद्दशभिर्बाणैरश्वत्थामानमार्जुनिः

७.४६.१२स कर्णं कर्णिना कर्णे पीतेन निशितेन च
फाल्गुनिर्द्विषतां मध्ये विव्याध परमेषुणा

७.४६.१३पातयित्वा कृपस्याश्वांस्तथोभौ पार्ष्णिसारथी
अथैनं दशभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे

७.४६.१४ततो वृन्दारकं वीरं कुरूणां कीर्तिवर्धनम्
पुत्राणां तव वीराणां पश्यतामवधीद्बली

७.४६.१५तं द्रौणिः पञ्चविंशत्या क्षुद्रकाणां समर्पयत्
वरं वरममित्राणामारुजन्तमभीतवत्

७.४६.१६स तु बाणैः शितैस्तूर्णं प्रत्यविध्यत मारिष
पश्यतां धार्तराष्ट्राणामश्वत्थामानमार्जुनिः

७.४६.१७षष्ट्या शराणां तं द्रौणिस्तिग्मधारैः सुतेजनैः
उग्रैर्नाकम्पयद्विद्ध्वा मैनाकमिव पर्वतम्

७.४६.१८स तु द्रौणिं त्रिसप्तत्या हेमपुङ्खैरजिह्मगैः
प्रत्यविध्यन्महातेजा बलवानपकारिणम्

७.४६.१९तस्मिन्द्रोणो बाणशतं पुत्रगृद्धी न्यपातयत्
अश्वत्थामा तथाष्टौ च परीप्सन्पितरं रणे

७.४६.२०कर्णो द्वाविंशतिं भल्लान्कृतवर्मा चतुर्दश
बृहद्बलस्तु पञ्चाशत्कृपः शारद्वतो दश

७.४६.२१तांस्तु प्रत्यवधीत्सर्वान्दशभिर्दशभिः शरैः
तैरर्द्यमानः सौभद्रः सर्वतो निशितैः शरैः

७.४६.२२तं कोसलानामधिपः कर्णिनाताडयद्धृदि
स तस्याश्वान्ध्वजं चापं सूतं चापातयत्क्षितौ

७.४६.२३अथ कोसलराजस्तु विरथः खड्गचर्मधृत्
इयेष फाल्गुनेः कायाच्छिरो हर्तुं सकुण्डलम्

७.४६.२४स कोसलानां भर्तारं राजपुत्रं बृहद्बलम्
हृदि विव्याध बाणेन स भिन्नहृदयोऽपतत्

७.४६.२५बभञ्ज च सहस्राणि दश राजन्महात्मनाम्
सृजतामशिवा वाचः खड्गकार्मुकधारिणाम्

७.४६.२६तथा बृहद्बलं हत्वा सौभद्रो व्यचरद्रणे
विष्टम्भयन्महेष्वासान्योधांस्तव शराम्बुभिः