७.५२.१संजय उवाच
७.५२.२श्रुत्वा तु तं महाशब्दं पाण्डूनां पुत्रगृद्धिनाम्
चारैः प्रवेदिते तत्र समुत्थाय जयद्रथः
७.५२.३शोकसंमूढहृदयो दुःखेनाभिहतो भृशम्
मज्जमान इवागाधे विपुले शोकसागरे
७.५२.४जगाम समितिं राज्ञां सैन्धवो विमृशन्बहु
स तेषां नरदेवानां सकाशे परिदेवयन्
७.५२.५अभिमन्योः पितुर्भीतः सव्रीडो वाक्यमब्रवीत्
योऽसौ पाण्डोः किल क्षेत्रे जातः शक्रेण कामिना
७.५२.६स निनीषति दुर्बुद्धिर्मां किलैकं यमक्षयम्
तत्स्वस्ति वोऽस्तु यास्यामि स्वगृहं जीवितेप्सया
७.५२.७अथ वा स्थ प्रतिबलास्त्रातुं मां क्षत्रियर्षभाः
पार्थेन प्रार्थितं वीरास्ते ददन्तु ममाभयम्
७.५२.८द्रोणदुर्योधनकृपाः कर्णमद्रेशबाह्लिकाः
दुःशासनादयः शक्तास्त्रातुमप्यन्तकार्दितम्
७.५२.९किमङ्ग पुनरेकेन फल्गुनेन जिघांसता
न त्रायेयुर्भवन्तो मां समस्ताः पतयः क्षितेः
७.५२.१०प्रहर्षं पाण्डवेयानां श्रुत्वा मम महद्भयम्
सीदन्तीव च मेऽङ्गानि मुमूर्षोरिव पार्थिवाः
७.५२.११वधो नूनं प्रतिज्ञातो मम गाण्डीवधन्वना
तथा हि हृष्टाः क्रोशन्ति शोककालेऽपि पाण्डवाः
७.५२.१२न देवा न च गन्धर्वा नासुरोरगराक्षसाः
उत्सहन्तेऽन्यथा कर्तुं कुत एव नराधिपाः
७.५२.१३तस्मान्मामनुजानीत भद्रं वोऽस्तु नरर्षभाः
अदर्शनं गमिष्यामि न मां द्रक्ष्यन्ति पाण्डवाः
७.५२.१४एवं विलपमानं तं भयाद्व्याकुलचेतसम्
आत्मकार्यगरीयस्त्वाद्राजा दुर्योधनोऽब्रवीत्
७.५२.१५न भेतव्यं नरव्याघ्र को हि त्वा पुरुषर्षभ
मध्ये क्षत्रियवीराणां तिष्ठन्तं प्रार्थयेद्युधि
७.५२.१६अहं वैकर्तनः कर्णश्चित्रसेनो विविंशतिः
भूरिश्रवाः शलः शल्यो वृषसेनो दुरासदः
७.५२.१७पुरुमित्रो जयो भोजः काम्बोजश्च सुदक्षिणः
सत्यव्रतो महाबाहुर्विकर्णो दुर्मुखः सहः
७.५२.१८दुःशासनः सुबाहुश्च कलिङ्गश्चाप्युदायुधः
विन्दानुविन्दावावन्त्यौ द्रोणो द्रौणिः ससौबलः
७.५२.१९त्वं चापि रथिनां श्रेष्ठः स्वयं शूरोऽमितद्युतिः
स कथं पाण्डवेयेभ्यो भयं पश्यसि सैन्धव
७.५२.२०अक्षौहिण्यो दशैका च मदीयास्तव रक्षणे
यत्ता योत्स्यन्ति मा भैस्त्वं सैन्धव व्येतु ते भयम्
७.५२.२१एवमाश्वासितो राजन्पुत्रेण तव सैन्धवः
दुर्योधनेन सहितो द्रोणं रात्रावुपागमत्
७.५२.२२उपसंग्रहणं कृत्वा द्रोणाय स विशां पते
उपोपविश्य प्रणतः पर्यपृच्छदिदं तदा
७.५२.२३निमित्ते दूरपातित्वे लघुत्वे दृढवेधने
मम ब्रवीतु भगवान्विशेषं फल्गुनस्य च
७.५२.२४विद्याविशेषमिच्छामि ज्ञातुमाचार्य तत्त्वतः
ममार्जुनस्य च विभो यथातत्त्वं प्रचक्ष्व मे
७.५२.२५द्रोण उवाच
७.५२.२६सममाचार्यकं तात तव चैवार्जुनस्य च
योगाद्दुःखोचितत्वाच्च तस्मात्त्वत्तोऽधिकोऽर्जुनः
७.५२.२७न तु ते युधि संत्रासः कार्यः पार्थात्कथंचन
अहं हि रक्षिता तात भयात्त्वां नात्र संशयः
७.५२.२८न हि मद्बाहुगुप्तस्य प्रभवन्त्यमरा अपि
व्यूहिष्यामि च तं व्यूहं यं पार्थो न तरिष्यति
७.५२.२९तस्माद्युध्यस्व मा भैस्त्वं स्वधर्ममनुपालय
पितृपैतामहं मार्गमनुयाहि नराधिप
७.५२.३०अधीत्य विधिवद्वेदानग्नयः सुहुतास्त्वया
इष्टं च बहुभिर्यज्ञैर्न ते मृत्युभयाद्भयम्
७.५२.३१दुर्लभं मानुषैर्मन्दैर्महाभाग्यमवाप्य तु
भुजवीर्यार्जिताँल्लोकान्दिव्यान्प्राप्स्यस्यनुत्तमान्
७.५२.३२कुरवः पाण्डवाश्चैव वृष्णयोऽन्ये च मानवाः
अहं च सह पुत्रेण अध्रुवा इति चिन्त्यताम्
७.५२.३३पर्यायेण वयं सर्वे कालेन बलिना हताः
परलोकं गमिष्यामः स्वैः स्वैः कर्मभिरन्विताः
७.५२.३४तपस्तप्त्वा तु याँल्लोकान्प्राप्नुवन्ति तपस्विनः
क्षत्रधर्माश्रिताः शूराः क्षत्रियाः प्राप्नुवन्ति तान्
७.५२.३५संजय उवाच
७.५२.३६एवमाश्वासितो राजन्भारद्वाजेन सैन्धवः
अपानुदद्भयं पार्थाद्युद्धाय च मनो दधे