७. द्रोणपर्व
७.५३.१संजय उवाच

७.५३.२प्रतिज्ञाते तु पार्थेन सिन्धुराजवधे तदा
वासुदेवो महाबाहुर्धनंजयमभाषत

७.५३.३भ्रातॄणां मतमाज्ञाय त्वया वाचा प्रतिश्रुतम्
सैन्धवं श्वोऽस्मि हन्तेति तत्साहसतमं कृतम्

७.५३.४असंमन्त्र्य मया सार्धमतिभारोऽयमुद्यतः
कथं नु सर्वलोकस्य नावहास्या भवेमहि

७.५३.५धार्तराष्ट्रस्य शिबिरे मया प्रणिहिताश्चराः
त इमे शीघ्रमागम्य प्रवृत्तिं वेदयन्ति नः

७.५३.६त्वया वै संप्रतिज्ञाते सिन्धुराजवधे तदा
सिंहनादः सवादित्रः सुमहानिह तैः श्रुतः

७.५३.७तेन शब्देन वित्रस्ता धार्तराष्ट्राः ससैन्धवाः
नाकस्मात्सिंहनादोऽयमिति मत्वा व्यवस्थिताः

७.५३.८सुमहाञ्शब्दसंपातः कौरवाणां महाभुज
आसीन्नागाश्वपत्तीनां रथघोषश्च भैरवः

७.५३.९अभिमन्युवधं श्रुत्वा ध्रुवमार्तो धनंजयः
रात्रौ निर्यास्यति क्रोधादिति मत्वा व्यवस्थिताः

७.५३.१०तैर्यतद्भिरियं सत्या श्रुता सत्यवतस्तव
प्रतिज्ञा सिन्धुराजस्य वधे राजीवलोचन

७.५३.११ततो विमनसः सर्वे त्रस्ताः क्षुद्रमृगा इव
आसन्सुयोधनामात्याः स च राजा जयद्रथः

७.५३.१२अथोत्थाय सहामात्यैर्दीनः शिबिरमात्मनः
आयात्सौवीरसिन्धूनामीश्वरो भृशदुःखितः

७.५३.१३स मन्त्रकाले संमन्त्र्य सर्वा नैःश्रेयसीः क्रियाः
सुयोधनमिदं वाक्यमब्रवीद्राजसंसदि

७.५३.१४मामसौ पुत्रहन्तेति श्वोऽभियाता धनंजयः
प्रतिज्ञातो हि सेनाया मध्ये तेन वधो मम

७.५३.१५तां न देवा न गन्धर्वा नासुरोरगराक्षसाः
उत्सहन्तेऽन्यथा कर्तुं प्रतिज्ञां सव्यसाचिनः

७.५३.१६ते मां रक्षत संग्रामे मा वो मूर्ध्नि धनंजयः
पदं कृत्वाप्नुयाल्लक्ष्यं तस्मादत्र विधीयताम्

७.५३.१७अथ रक्षा न मे संख्ये क्रियते कुरुनन्दन
अनुजानीहि मां राजन्गमिष्यामि गृहान्प्रति

७.५३.१८एवमुक्तस्त्ववाक्शीर्षो विमनाः स सुयोधनः
श्रुत्वाभिशप्तवन्तं त्वां ध्यानमेवान्वपद्यत

७.५३.१९तमार्तमभिसंप्रेक्ष्य राजा किल स सैन्धवः
मृदु चात्महितं चैव सापेक्षमिदमुक्तवान्

७.५३.२०नाहं पश्यामि भवतां तथावीर्यं धनुर्धरम्
योऽर्जुनस्यास्त्रमस्त्रेण प्रतिहन्यान्महाहवे

७.५३.२१वासुदेवसहायस्य गाण्डीवं धुन्वतो धनुः
कोऽर्जुनस्याग्रतस्तिष्ठेत्साक्षादपि शतक्रतुः

७.५३.२२महेश्वरोऽपि पार्थेन श्रूयते योधितः पुरा
पदातिना महातेजा गिरौ हिमवति प्रभुः

७.५३.२३दानवानां सहस्राणि हिरण्यपुरवासिनाम्
जघानैकरथेनैव देवराजप्रचोदितः

७.५३.२४समायुक्तो हि कौन्तेयो वासुदेवेन धीमता
सामरानपि लोकांस्त्रीन्निहन्यादिति मे मतिः

७.५३.२५सोऽहमिच्छाम्यनुज्ञातुं रक्षितुं वा महात्मना
द्रोणेन सहपुत्रेण वीरेण यदि मन्यसे

७.५३.२६स राज्ञा स्वयमाचार्यो भृशमाक्रन्दितोऽर्जुन
संविधानं च विहितं रथाश्च किल सज्जिताः

७.५३.२७कर्णो भूरिश्रवा द्रौणिर्वृषसेनश्च दुर्जयः
कृपश्च मद्रराजश्च षडेतेऽस्य पुरोगमाः

७.५३.२८शकटः पद्मपश्चार्धो व्यूहो द्रोणेन कल्पितः
पद्मकर्णिकमध्यस्थः सूचीपाशे जयद्रथः
स्थास्यते रक्षितो वीरैः सिन्धुराड्युद्धदुर्मदैः

७.५३.२९धनुष्यस्त्रे च वीर्ये च प्राणे चैव तथोरसि
अविषह्यतमा ह्येते निश्चिताः पार्थ षड्रथाः
एतानजित्वा सगणान्नैव प्राप्यो जयद्रथः

७.५३.३०तेषामेकैकशो वीर्यं षण्णां त्वमनुचिन्तय
सहिता हि नरव्याघ्रा न शक्या जेतुमञ्जसा

७.५३.३१भूयश्च चिन्तयिष्यामि नीतिमात्महिताय वै
मन्त्रज्ञैः सचिवैः सार्धं सुहृद्भिः कार्यसिद्धये

७.५३.३२अर्जुन उवाच

७.५३.३३षड्रथान्धार्तराष्ट्रस्य मन्यसे यान्बलाधिकान्
तेषां वीर्यं ममार्धेन न तुल्यमिति लक्षये

७.५३.३४अस्त्रमस्त्रेण सर्वेषामेतेषां मधुसूदन
मया द्रक्ष्यसि निर्भिन्नं जयद्रथवधैषिणा

७.५३.३५द्रोणस्य मिषतः सोऽहं सगणस्य विलप्यतः
मूर्धानं सिन्धुराजस्य पातयिष्यामि भूतले

७.५३.३६यदि साध्याश्च रुद्राश्च वसवश्च सहाश्विनः
मरुतश्च सहेन्द्रेण विश्वेदेवास्तथासुराः

७.५३.३७पितरः सहगन्धर्वाः सुपर्णाः सागराद्रयः
द्यौर्वियत्पृथिवी चेयं दिशश्च सदिगीश्वराः

७.५३.३८ग्राम्यारण्यानि भूतानि स्थावराणि चराणि च
त्रातारः सिन्धुराजस्य भवन्ति मधुसूदन

७.५३.३९तथापि बाणैर्निहतं श्वो द्रष्टासि रणे मया
सत्येन ते शपे कृष्ण तथैवायुधमालभे

७.५३.४०यश्च गोप्ता महेष्वासस्तस्य पापस्य दुर्मतेः
तमेव प्रथमं द्रोणमभियास्यामि केशव

७.५३.४१तस्मिन्द्यूतमिदं बद्धं मन्यते स्म सुयोधनः
तस्मात्तस्यैव सेनाग्रं भित्त्वा यास्यामि सैन्धवम्

७.५३.४२द्रष्टासि श्वो महेष्वासान्नाराचैस्तिग्मतेजनैः
शृङ्गाणीव गिरेर्वज्रैर्दार्यमाणान्मया युधि

७.५३.४३नरनागाश्वदेहेभ्यो विस्रविष्यति शोणितम्
पतद्भ्यः पतितेभ्यश्च विभिन्नेभ्यः शितैः शरैः

७.५३.४४गाण्डीवप्रेषिता बाणा मनोनिलसमा जवे
नृनागाश्वान्विदेहासून्कर्तारश्च सहस्रशः

७.५३.४५यमात्कुबेराद्वरुणाद्रुद्रादिन्द्राच्च यन्मया
उपात्तमस्त्रं घोरं वै तद्द्रष्टारो नरा युधि

७.५३.४६ब्राह्मेणास्त्रेण चास्त्राणि हन्यमानानि संयुगे
मया द्रष्टासि सर्वेषां सैन्धवस्याभिरक्षिणाम्

७.५३.४७शरवेगसमुत्कृत्तै राज्ञां केशव मूर्धभिः
आस्तीर्यमाणां पृथिवीं द्रष्टासि श्वो मया युधि

७.५३.४८क्रव्यादांस्तर्पयिष्यामि द्रावयिष्यामि शात्रवान्
सुहृदो नन्दयिष्यामि पातयिष्यामि सैन्धवम्

७.५३.४९बह्वागस्कृत्कुसंबन्धी पापदेशसमुद्भवः
मया सैन्धवको राजा हतः स्वाञ्शोचयिष्यति

७.५३.५०सर्वक्षीरान्नभोक्तारः पापाचारा रणाजिरे
मया सराजका बाणैर्नुन्ना नंक्ष्यन्ति सैन्धवाः

७.५३.५१तथा प्रभाते कर्तास्मि यथा कृष्ण सुयोधनः
नान्यं धनुर्धरं लोके मंस्यते मत्समं युधि

७.५३.५२गाण्डीवं च धनुर्दिव्यं योद्धा चाहं नरर्षभ
त्वं च यन्ता हृषीकेश किं नु स्यादजितं मया

७.५३.५३यथा हि लक्ष्म चन्द्रे वै समुद्रे च यथा जलम्
एवमेतां प्रतिज्ञां मे सत्यां विद्धि जनार्दन

७.५३.५४मावमंस्था ममास्त्राणि मावमंस्था धनुर्दृढम्
मावमंस्था बलं बाह्वोर्मावमंस्था धनंजयम्

७.५३.५५यथा हि यात्वा संग्रामे न जीये विजयामि च
तेन सत्येन संग्रामे हतं विद्धि जयद्रथम्

७.५३.५६ध्रुवं वै ब्राह्मणे सत्यं ध्रुवा साधुषु संनतिः
श्रीर्ध्रुवा चापि दक्षेषु ध्रुवो नारायणे जयः

७.५३.५७संजय उवाच

७.५३.५८एवमुक्त्वा हृषीकेशं स्वयमात्मानमात्मना
संदिदेशार्जुनो नर्दन्वासविः केशवं प्रभुम्

७.५३.५९यथा प्रभातां रजनीं कल्पितः स्याद्रथो मम
तथा कार्यं त्वया कृष्ण कार्यं हि महदुद्यतम्