७. द्रोणपर्व
७.६२.१संजय उवाच

७.६२.२हन्त ते संप्रवक्ष्यामि सर्वं प्रत्यक्षदर्शिवान्
शुश्रूषस्व स्थिरो भूत्वा तव ह्यपनयो महान्

७.६२.३गतोदके सेतुबन्धो यादृक्तादृगयं तव
विलापो निष्फलो राजन्मा शुचो भरतर्षभ

७.६२.४अनतिक्रमणीयोऽयं कृतान्तस्याद्भुतो विधिः
मा शुचो भरतश्रेष्ठ दिष्टमेतत्पुरातनम्

७.६२.५यदि हि त्वं पुरा द्यूतात्कुन्तीपुत्रं युधिष्ठिरम्
निवर्तयेथाः पुत्रांश्च न त्वां व्यसनमाव्रजेत्

७.६२.६युद्धकाले पुनः प्राप्ते तदैव भवता यदि
निवर्तिताः स्युः संरब्धा न त्वां व्यसनमाव्रजेत्

७.६२.७दुर्योधनं चाविधेयं बध्नीतेति पुरा यदि
कुरूनचोदयिष्यस्त्वं न त्वां व्यसनमाव्रजेत्

७.६२.८तत्ते बुद्धिव्यभीचारमुपलप्स्यन्ति पाण्डवाः
पाञ्चाला वृष्णयः सर्वे ये चान्येऽपि महाजनाः

७.६२.९स कृत्वा पितृकर्म त्वं पुत्रं संस्थाप्य सत्पथे
वर्तेथा यदि धर्मेण न त्वां व्यसनमाव्रजेत्

७.६२.१०त्वं तु प्राज्ञतमो लोके हित्वा धर्मं सनातनम्
दुर्योधनस्य कर्णस्य शकुनेश्चान्वगा मतम्

७.६२.११तत्ते विलपितं सर्वं मया राजन्निशामितम्
अर्थे निविशमानस्य विषमिश्रं यथा मधु

७.६२.१२न तथा मन्यते कृष्णो राजानं पाण्डवं पुरा
न भीष्मं नैव च द्रोणं यथा त्वां मन्यते नृप

७.६२.१३व्यजानत यदा तु त्वां राजधर्मादधश्च्युतम्
तदा प्रभृति कृष्णस्त्वां न तथा बहु मन्यते

७.६२.१४परुषाण्युच्यमानांश्च यथा पार्थानुपेक्षसे
तस्यानुबन्धः प्राप्तस्त्वां पुत्राणां राज्यकामुकम्

७.६२.१५पितृपैतामहं राज्यमपवृत्तं तदानघ
अथ पार्थैर्जितां कृत्स्नां पृथिवीं प्रत्यपद्यथाः

७.६२.१६पाण्डुनावर्जितं राज्यं कौरवाणां यशस्तथा
ततश्चाभ्यधिकं भूयः पाण्डवैर्धर्मचारिभिः

७.६२.१७तेषां तत्तादृशं कर्म त्वामासाद्य सुनिष्फलम्
यत्पित्र्याद्भ्रंशिता राज्यात्त्वयेहामिषगृद्धिना

७.६२.१८यत्पुनर्युद्धकाले त्वं पुत्रान्गर्हयसे नृप
बहुधा व्याहरन्दोषान्न तदद्योपपद्यते

७.६२.१९न हि रक्षन्ति राजानो युध्यन्तो जीवितं रणे
चमूं विगाह्य पार्थानां युध्यन्ते क्षत्रियर्षभाः

७.६२.२०यां तु कृष्णार्जुनौ सेनां यां सात्यकिवृकोदरौ
रक्षेरन्को नु तां युध्येच्चमूमन्यत्र कौरवैः

७.६२.२१येषां योद्धा गुडाकेशो येषां मन्त्री जनार्दनः
येषां च सात्यकिर्गोप्ता येषां गोप्ता वृकोदरः

७.६२.२२को हि तान्विषहेद्योद्धुं मर्त्यधर्मा धनुर्धरः
अन्यत्र कौरवेयेभ्यो ये वा तेषां पदानुगाः

७.६२.२३यावत्तु शक्यते कर्तुमनुरक्तैर्जनाधिपैः
क्षत्रधर्मरतैः शूरैस्तावत्कुर्वन्ति कौरवाः

७.६२.२४यथा तु पुरुषव्याघ्रैर्युद्धं परमसङ्कटम्
कुरूणां पाण्डवैः सार्धं तत्सर्वं शृणु तत्त्वतः