७.६३.१संजय उवाच
७.६३.२तस्यां निशायां व्युष्टायां द्रोणः शस्त्रभृतां वरः
स्वान्यनीकानि सर्वाणि प्राक्रामद्व्यूहितुं ततः
७.६३.३शूराणां गर्जतां राजन्संक्रुद्धानाममर्षिणाम्
श्रूयन्ते स्म गिरश्चित्राः परस्परवधैषिणाम्
७.६३.४विस्फार्य च धनूंष्याजौ ज्याः करैः परिमृज्य च
विनिःश्वसन्तः प्राक्रोशन्क्वेदानीं स धनंजयः
७.६३.५विकोशान्सुत्सरूनन्ये कृतधारान्समाहितान्
पीतानाकाशसंकाशानसीन्केचिच्च चिक्षिपुः
७.६३.६चरन्तस्त्वसिमार्गांश्च धनुर्मार्गांश्च शिक्षया
संग्राममनसः शूरा दृश्यन्ते स्म सहस्रशः
७.६३.७सघण्टाश्चन्दनादिग्धाः स्वर्णवज्रविभूषिताः
समुत्क्षिप्य गदाश्चान्ये पर्यपृच्छन्त पाण्डवम्
७.६३.८अन्ये बलमदोन्मत्ताः परिघैर्बाहुशालिनः
चक्रुः संबाधमाकाशमुच्छ्रितेन्द्रध्वजोपमैः
७.६३.९नानाप्रहरणैश्चान्ये विचित्रस्रगलंकृताः
संग्राममनसः शूरास्तत्र तत्र व्यवस्थिताः
७.६३.१०क्वार्जुनः क्व च गोविन्दः क्व च मानी वृकोदरः
क्व च ते सुहृदस्तेषामाह्वयन्तो रणे तदा
७.६३.११ततः शङ्खमुपाध्माय त्वरयन्वाजिनः स्वयम्
इतस्ततस्तान्रचयन्द्रोणश्चरति वेगितः
७.६३.१२तेष्वनीकेषु सर्वेषु स्थितेष्वाहवनन्दिषु
भारद्वाजो महाराज जयद्रथमथाब्रवीत्
७.६३.१३त्वं चैव सौमदत्तिश्च कर्णश्चैव महारथः
अश्वत्थामा च शल्यश्च वृषसेनः कृपस्तथा
७.६३.१४शतं चाश्वसहस्राणां रथानामयुतानि षट्
द्विरदानां प्रभिन्नानां सहस्राणि चतुर्दश
७.६३.१५पदातीनां सहस्राणि दंशितान्येकविंशतिः
गव्यूतिषु त्रिमात्रेषु मामनासाद्य तिष्ठत
७.६३.१६तत्रस्थं त्वां न संसोढुं शक्ता देवाः सवासवाः
किं पुनः पाण्डवाः सर्वे समाश्वसिहि सैन्धव
७.६३.१७एवमुक्तः समाश्वस्तः सिन्धुराजो जयद्रथः
संप्रायात्सह गान्धारैर्वृतस्तैश्च महारथैः
वर्मिभिः सादिभिर्यत्तैः प्रासपाणिभिरास्थितैः
७.६३.१८चामरापीडिनः सर्वे जाम्बूनदविभूषिताः
जयद्रथस्य राजेन्द्र हयाः साधुप्रवाहिनः
ते चैव सप्तसाहस्रा द्विसाहस्राश्च सैन्धवाः
७.६३.१९मत्तानामधिरूढानां हस्त्यारोहैर्विशारदैः
नागानां भीमरूपाणां वर्मिणां रौद्रकर्मिणाम्
७.६३.२०अध्यर्धेन सहस्रेण पुत्रो दुर्मर्षणस्तव
अग्रतः सर्वसैन्यानां योत्स्यमानो व्यवस्थितः
७.६३.२१ततो दुःशासनश्चैव विकर्णश्च तवात्मजौ
सिन्धुराजार्थसिद्ध्यर्थमग्रानीके व्यवस्थितौ
७.६३.२२दीर्घो द्वादशगव्यूतिः पश्चार्धे पञ्च विस्तृतः
व्यूहः स चक्रशकटो भारद्वाजेन निर्मितः
७.६३.२३नानानृपतिभिर्वीरैस्तत्र तत्र व्यवस्थितैः
रथाश्वगजपत्त्योघैर्द्रोणेन विहितः स्वयम्
७.६३.२४पश्चार्धे तस्य पद्मस्तु गर्भव्यूहः सुदुर्भिदः
सूची पद्मस्य मध्यस्थो गूढो व्यूहः पुनः कृतः
७.६३.२५एवमेतं महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः
सूचीमुखे महेष्वासः कृतवर्मा व्यवस्थितः
७.६३.२६अनन्तरं च काम्बोजो जलसंधश्च मारिष
दुर्योधनः सहामात्यस्तदनन्तरमेव च
७.६३.२७ततः शतसहस्राणि योधानामनिवर्तिनाम्
व्यवस्थितानि सर्वाणि शकटे सूचिरक्षिणः
७.६३.२८तेषां च पृष्ठतो राज बलेन महता वृतः
जयद्रथस्ततो राजन्सूचिपाशे व्यवस्थितः
७.६३.२९शकटस्य तु राजेन्द्र भारद्वाजो मुखे स्थितः
अनु तस्याभवद्भोजो जुगोपैनं ततः स्वयम्
७.६३.३०श्वेतवर्माम्बरोष्णीषो व्यूढोरस्को महाभुजः
धनुर्विस्फारयन्द्रोणस्तस्थौ क्रुद्ध इवान्तकः
७.६३.३१पताकिनं शोणहयं वेदीकृष्णाजिनध्वजम्
द्रोणस्य रथमालोक्य प्रहृष्टाः कुरवोऽभवन्
७.६३.३२सिद्धचारणसंघानां विस्मयः सुमहानभूत्
द्रोणेन विहितं दृष्ट्वा व्यूहं क्षुब्धार्णवोपमम्
७.६३.३३सशैलसागरवनां नानाजनपदाकुलाम्
ग्रसेद्व्यूहः क्षितिं सर्वामिति भूतानि मेनिरे
७.६३.३४बहुरथमनुजाश्वपत्तिनागं; प्रतिभयनिस्वनमद्भुताभरूपम्
अहितहृदयभेदनं महद्वै; शकटमवेक्ष्य कृतं ननन्द राजा