७. द्रोणपर्व
७.७२.१संजय उवाच

७.७२.२तथा तस्मिन्प्रवृत्ते तु संग्रामे लोमहर्षणे
कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन्

७.७२.३जलसंधं महाबाहुर्भीमसेनो न्यवारयत्
युधिष्ठिरः सहानीकः कृतवर्माणमाहवे

७.७२.४किरन्तं शरवर्षाणि रोचमान इवांशुमान्
धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे

७.७२.५ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम्
कुरूणां सोमकानां च संक्रुद्धानां परस्परम्

७.७२.६संक्षये तु तथा भूते वर्तमाने महाभये
द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत्

७.७२.७द्रोणः पाञ्चालपुत्रेण बली बलवता सह
विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत्

७.७२.८पुण्डरीकवनानीव विध्वस्तानि समन्ततः
चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः

७.७२.९विनिकीर्णानि वीराणामनीकेषु समन्ततः
वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च

७.७२.१०तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च
संसक्ता इव दृश्यन्ते मेघसंघाः सविद्युतः

७.७२.११कुञ्जराश्वनरान्संख्ये पातयन्तः पतत्रिभिः
तालमात्राणि चापानि विकर्षन्तो महारथाः

७.७२.१२असिचर्माणि चापानि शिरांसि कवचानि च
विप्रकीर्यन्त शूराणां संप्रहारे महात्मनाम्

७.७२.१३उत्थितान्यगणेयानि कबन्धानि समन्ततः
अदृश्यन्त महाराज तस्मिन्परमसंकुले

७.७२.१४गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा
बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष

७.७२.१५भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम्
विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप

७.७२.१६आकर्षन्तः शरीराणि शरीरावयवांस्तथा
नराश्वगजसंघानां शिरांसि च ततस्ततः

७.७२.१७कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः
रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा

७.७२.१८असिमार्गान्बहुविधान्विचेरुस्तावका रणे
ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः

७.७२.१९गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि
अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः

७.७२.२०रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः
मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः

७.७२.२१क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः
उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे

७.७२.२२वर्तमाने तथा युद्धे निर्मर्यादे विशां पते
धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत्

७.७२.२३ते हया साध्वशोभन्त विमिश्रा वातरंहसः
पारावतसवर्णाश्च रक्तशोणाश्च संयुगे
हयाः शुशुभिरे राजन्मेघा इव सविद्युतः

७.७२.२४धृष्टद्युम्नश्च संप्रेक्ष्य द्रोणमभ्याशमागतम्
असिचर्माददे वीरो धनुरुत्सृज्य भारत

७.७२.२५चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा
ईषया समतिक्रम्य द्रोणस्य रथमाविशत्

७.७२.२६अतिष्ठद्युगमध्ये स युगसंनहनेषु च
जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन्

७.७२.२७खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः
न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत्

७.७२.२८यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः
तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः

७.७२.२९ततः शरशतेनास्य शतचन्द्रं समाक्षिपत्
द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः

७.७२.३०हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली
ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी

७.७२.३१अथास्मै त्वरितो बाणमपरं जीवितान्तकम्
आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा

७.७२.३२तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः
ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत्

७.७२.३३सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष
द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुंगवः

७.७२.३४सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे
शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत्

७.७२.३५ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान्
प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे

७.७२.३६ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः
सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन्